संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| त्रयोविंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - त्रयोविंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत त्रयोविंशोऽध्यायः Translation - भाषांतर पुत्रावूचतुःस राजपुत्रः संप्राप्य वेगादात्मपुरं ततः ।पित्रोर्ववन्दिषुः पादौ दिदृक्षुश्च मदालसाम् ॥१॥ददर्श जनमुद्विग्नमप्रहृष्टमुखं पुरः ।पुनश्च विस्मिताकारं प्रहृष्टवदनं ततः ॥२॥अन्यमुत्फुल्लनयनं दिष्ट्या दिष्ट्येतिवादिनम् ।परिष्वजन्तमन्योन्यमतिकौतूहलान्वितम् ॥३॥चिरं जीवोरुकल्याण ! हतास्ते परिपन्थिनः ।पित्रोः प्रह्लादय मनस्तथास्माकमकण्टकम् ॥४॥पुत्रावूचतुःइत्येवं वादिभिः पौरैः पुरः पृष्ठे च संवृतः ।तत्क्षणप्रभवानन्दः प्रविवेश पितुर्गृहम् ॥५॥पिता च तं परिष्वज्य माता चान्ये च बान्धवाः ।चिरं जीवेति कल्याणीर्ददुस्तस्मै तदाशिषः ॥६॥प्रणिपत्य ततः सोऽथ किमेतदिति विस्मितः ।पप्रच्छ पितरं तात ! सोऽस्मै सम्यक् तदुक्तवान् ॥७॥स भार्यां तां मृतां श्रुत्वा हृदयेष्टां मदालसाम् ।पितरौ च पुरो दृष्ट्वा लज्जाशोकाब्धिमध्यगः ॥८॥चिन्तयामास सा बाला मां श्रुत्वा निधनं गतम् ।तत्याज जीवितं साध्वी धिङ्मां निष्ठुरमानसम् ॥९॥नृशंसोऽहमनार्योऽहं विना तां मृगलोचनाम् ।मत्कृते निधनं प्राप्तां यज्जीवाम्यतिनिर्घृणः ॥१०॥पुनः स चिन्तयामास परिसंस्तभ्य मानसम् ।मोहोद्गममपास्याशु निः श्वस्योच्छवस्य चातरः ॥११॥मृतेति सा मन्नमित्तं त्यजामि यदि जीवितम् ।किं मयोपकृतं तस्याः श्लाघ्यमेतत्तु योषिताम् ॥१२॥यदि रोदिमि वा दीनो हा प्रियेति ! वदन्मुहुः ।तथाप्यश्लाघ्यमेतन्नो वयं हि पुरुषाः किल ॥१३॥अथ शोकजडो दीनो स्त्रजा हीनो मलान्वितः ।विपक्षस्य भविष्यामि ततः परिभवास्पदम् ॥१४॥मयारिशातनं कार्यं राज्ञः शुश्रुषणं पितुः ।जीवितं तस्य चायत्तं सन्त्याज्यं तत्कथं मया ॥१५॥किन्त्वत्र मन्ये कर्तव्यस्त्यागो भागस्य योषितः ।स चापि नोपकाराय तन्वङ्ग्याः किन्तु सर्वथा ॥१६॥मया नृशंस्यं कर्तव्यं नोपकार्यपकारि च ।या मदर्थेऽत्यजत् प्राणांस्तदर्थेऽल्पमिदं मम ॥१७॥पुत्रावूचतुःइति कृत्वा मतिं सोऽथ निष्पाद्योदकदानिकम् ।क्रियाश्चानन्तरं कृत्वा प्रत्युवाच ऋतध्वजः ॥१८॥ऋतध्वज उवाचयदि सा मम तन्वङ्गी न स्याद्भार्या मदालसा ।अस्मिन् जन्मनि नान्या मे भवित्री सहचारिणी ॥१९॥तामृते मृगशावाक्षीं गन्धर्वतनयामहम् ।न भोक्ष्ये योषितं काञ्चिदिति सत्यं मयोदितम् ॥२०॥सद्धर्मचारिणीं पत्नीं तां मुक्त्वा गजगामिनीम्,।काञ्चिन्नाङ्गीकरिष्यामीत्येतत् सत्यं मयोदितम् ॥२१॥पुत्रावूचतुःपरित्यज्य च स्त्रीभोगान् तात ! सर्वंस्तया विना ।क्रीडन्नास्ते समं तुल्यैर्वयस्यैः शीलसम्पदा ॥२२॥एतत्तस्य परं कार्यं तात ! तत् केन शक्यते ।कर्तुमत्यर्थदुष्प्राप्यमीश्वरैः किमुतेतरैः ॥२३॥जड उवाचइति वाक्यं तयोः श्रुत्वा विमर्शमगमत्पिता ।विमृश्य चाह तौ पुत्रौ नागराट् प्रहसन्निव ॥२४॥नागराडश्वतर उवाचयद्यशक्यमिति ज्ञात्वा न करिष्यन्ति मानवाः ।कर्मण्युद्यममुद्योगहान्या हानिस्ततः परम् ॥२५॥आरभेत नरः कर्म स्वपौरुषमहापयन् ।निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवसथिता ॥२६॥तस्मादहं तथा यत्नं करिष्ये पुत्रकावितः ।तपश्चर्यां समास्थाय यथैतत् साध्यतेऽचिरात् ॥२७॥जड उवाचएवमुक्त्वा स नागेन्द्रः प्लक्षावतरणं गिरेः ।तीर्थं हिमवतो गत्वा तपस्तेपे सुदुश्चरम् ॥२८॥तुष्टाव गीर्भिश्च ततस्तत्र देवीं सरस्वतीम् ।तन्मना नियताहारो भूत्वा त्रिषवणाप्लुतः ॥२९॥अश्वतर उवाचजगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥३०॥सदसद्देवि ! सय् किञ्चिन्मोक्षवच्चार्थवत् पदम् ।तत्सर्वं त्वय्यसंयोगं योगवद्देवि ! संस्थितम् ॥३१॥त्वमक्षरं परं देवि ! यत्र सर्वं प्रतिष्ठितम् ।अक्षरं परमं देवि ! संस्थितं परमाणुवत् ॥३२॥अक्षरं परमं ब्रह्म विश्वञ्चैतत् क्षरात्मकम् ।दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः ॥३३॥तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।ओङ्काराक्षरसंस्थानं यत्तु देवि ! स्थिरास्थिरम् ॥३४॥तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ।त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ॥३५॥त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा ।त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः ॥३६॥त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः ।एतन्मात्रात्रयं देवि ! तव रूपं सरस्वति ॥३७॥विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः ।सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः ॥३८॥तास्त्वदुच्चारणाद्देवि ! क्रियन्ते ब्रह्मवादिभिः ।अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम् ॥३९॥अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ।तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ॥४०॥न चास्ये न च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते ।इन्द्रोऽपि वसवो ब्रह्मा चन्द्राकौ ज्योतिरेव च ॥४१॥विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् ।सांख्यवेदान्तवादोक्तं बहुशाखास्थिरीकृतम् ॥४२॥अनादिमध्यनिधनं सदसन्न सदेव यत् ।एकन्त्वनेकं नाप्येकं भवभेदसमाश्रैतम् ॥४३॥अनाख्यं षड्गुणाख्यञ्च वर्गाख्यं त्रिगुणाश्रयम् ।नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥४४॥सुखासुखं महासौख्यरूपं त्वयि विभाव्यते ।एवं देवि ! त्वया व्याप्तं सकलं निष्कलञ्च यत् ।अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥४५॥येर्ऽथा नित्या ये विनश्यन्ति चान्ये ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः ।ये वा भूमौ येऽन्तरीक्षेऽन्यतो वा तेषां तेषां त्वत्त एवोपलब्धिः ॥४६॥यच्चामूर्तं यच्च मूर्तं समस्तं यद्वा भूतेष्वेकमेकञ्च किञ्चित् ।यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा त्वत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥४७॥जड उवाचएवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती ।प्रत्युवाच महात्मानं नागमश्वतरं ततः ॥४८॥सरस्वत्युवाचवरं ते कम्बलभ्रातः प्रयच्छाम्युरगाधिप ! ।तदुच्यतां प्रदास्यामि यत्ते मनसि वर्तते ॥४९॥अश्वतर उवाचसहायं देहि देवि ! त्वं पूर्वं कम्बलमेव मे ।समस्तस्वरसम्बन्धमुभयोः संप्रयच्छ च ॥५०॥सरस्वत्युवाचसप्त स्वरा ग्रामरागाः सप्त पन्नगसत्तम ! ।कीतकानि च सप्तैव तावतीश्चापि मूर्च्छनाः ॥५१॥तालाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् ।एतत्सर्वं भवान् गाता कम्बलश्च तथानघ ! ॥५२॥ज्ञास्यसे मत्प्रसादेन भुजगेन्द्रापरं तथा ।चतुर्विधं पदं तालं त्रिः प्रकारं लयत्रयम् ॥५३॥यदित्रयं तथाऽतोद्यं मया दत्तं चतुर्विधम् ।एतद्भवान् मत्प्रसादात् पन्नगेन्द्रापरञ्च यत् ॥५४॥अस्यान्तर्गतमायत्तं स्वरव्यञ्जनसंमितम् ।तदशेषं मया दत्तं भवतः कम्बलस्य च ॥५५॥तथा नान्यस्य भूर्लोके पाताले चापि पन्नग ।प्रणेतारौ भवन्तौ च सर्वस्यास्य भविष्यतः ।पाताले देवलोके च भूर्लोके चैव पन्नगौ ॥५६॥जड उवाचइत्युक्त्वा सा तदा देवी सर्वजिह्वा सरस्वती ।जगामादर्शनं सद्यो नागस्य कमलेक्षणा ॥५७॥तयोश्च तद्यथावृत्तं भ्रात्रोः सर्वमजायत ।विज्ञानमुभयोरग्र्यं पदतालस्वरादिकम् ॥५८॥ततः कैलासशैलेन्द्र-शिखरस्थितमीश्वरम् ।गीतकैः स्प्तभिर्नागौ तन्त्रीलयसमन्वितौ ॥५९॥आरिराधयिषू देवमनङ्गाङ्गहरं हरम् ।प्रचक्रतुः परं यत्नमुभौ संहतवाक्कलौ ॥६०॥प्रातर्निशायां मध्याह्ने सन्ध्ययोश्चापि तत्परौ ।तयोः कालेन महता स्तूयमानो वृषध्वजः ॥६१॥तुतोष गीतकैस्तौ च प्राहेशो गृह्यतां वरः ।ततः प्रणम्याश्वतरः कम्बलेन समं तदा ॥६२॥व्यज्ञापयन्महादेवं शितिकण्ठमुमापतिम् ।यदि नौ भगवान् प्रीतो देवदेवस्त्रिलोचनः ॥६३॥ततो यथाभिलषितं वरमेनं प्रयच्छ नौ ।मृता कुवलयाश्वस्य पत्नी देव ! मदालसा ॥६४॥तेनैव वयसा सद्यो दुहितृत्वं प्रयातु मे ।जातिस्मरा यथा पूर्वं तद्वत्कान्तिसमन्विता ।योगिनी योगमाता च मद्गेहे जायतां भव ॥६५॥महादेव उवाचयथोक्तं पन्नगश्रेष्ठ ! सर्वेमेतद्भविष्यति ।मत्प्रसादादसन्दिग्धं श्रुणु चेदं भुजङ्गम ॥६६॥श्राद्धे तु समनुप्राप्ते मध्यमं पिण्डमात्मना ।भक्षयेथाः फणिश्रेष्ठ ! शुचिः प्रयतमानसः ॥६७॥भक्षिते तु ततस्तस्मिन् भवतो मध्यमात् फणात् ।समुत्पत्स्यति कल्याणी तथारूपा यथामृता ॥६८॥कामञ्चेममभिध्याय कुरु त्वं पितृतर्पणम् ।तत्क्षणादेव सा सुभ्रूः श्वसतो मध्यमात् फणात् ॥६९॥समुत्पत्स्यति कल्याणी तथारूपा यथामृता ।एतच्छ्रुत्वा ततस्तौ तु प्रणिपत्य महेश्वरम् ॥७०॥रसातलं पुनः प्राप्तौ परितोषसमन्वितौ ।तथा च कृतवान् श्राद्धं स नागः कम्बलानुजः ॥७१॥पिण्डञ्च मध्यमं तद्वद्यथावदुपभुक्तवान् ।तञ्चापि ध्यायः कामं ततः सा तनुमध्यमा ॥७२॥जज्ञे निश्वसतः सद्यस्तद्रूपा मध्यमात् फणात् ।न चापि कथयामास कंस्यचित् स भुजङ्गमः ॥७३॥अन्तर्गृहे तां सुदतीं स्त्रीभिर्गुप्तामधारयत् ।तौ चानुदिनमागम्य पुत्रौ नागपतेः सुखम् ॥७४॥ऋतध्वजेन सहितौ चिक्रीडातेऽमराविव ।एकदा तु सुतौ प्राह नागराजौ मुदान्वितः ॥७५॥यन्मया पूर्वमुक्तन्तु क्रियते किं न तत्तथा ।स राजपुत्रो युवयोरुपकारी ममान्तिकम् ॥७६॥कस्मान्नानीयते वत्सावुपकाराय मानदः ।एवमुक्तौ ततस्तेन पित्रा स्नेहवता तु तौ ॥७७॥गत्वा तस्य पुरं सख्यू रेमाते तेन धीमता ।ततः कुवलयाश्वं तौ कृत्वा किञ्चित्कथान्तरम् ॥७८॥अब्रूतां प्रणयोपेतं स्वगेहगमनं प्रति ।तावाह नृपपुत्रोऽसौ नन्विदं भवतोर्गृहम् ॥७९॥धनवाहनवस्त्रादि यन्मदीयं तदेव वाम् ।यत्तु वां वाञ्छितं दातुं धनं रत्नमथापि वा ॥८०॥तद्दोयतां द्विजसुतौ यदि वां प्रणयो मयि ।एतावताहं दैवेन वञ्चितोऽस्मि दुरात्मना ॥८१॥यद्भवद्भ्यां ममत्वं नो मदीये क्रियते गृहे ।यदि वां मत्प्रियं कार्यमनुग्राह्योऽस्मि वां यदि ॥८२॥तद्धने मम गेहे च ममत्वमनुकल्प्यताम् ।युवयोर्यन्मदीयं तन्मामकं युवयोः स्वकम् ॥८३॥एतत् सत्यं विजानीतं युवां प्राणा बहिश्चराः ।पुनर्नैवं विभिन्नार्थं वक्तव्यं द्विजसत्तमौ ॥८४॥मत्प्रसादपरौ प्रीत्या शापितौ हृदयेन मे ।ततः स्नेहार्द्रवदनौ तावुभौ नागनन्दनौ ॥८५॥ऊचतुर्नृपतेः पुत्रं किञ्चित् प्रणयकोपितौ ।ऋतध्वज ! न सन्देहो यथैवाह भवानिदम् ॥८६॥तथैव चास्मन्मनसि नात्र चिन्त्यमतोऽन्यथा ।किन्त्वावयोः स्वयं पित्रा प्रोक्तमेतन्महात्मना ॥८७॥द्रष्टुं कुवलयाश्वं तमिच्छामीति पुनः पुनः ।ततः कुवलयाश्वोऽसौ समुत्थाय वरासनात् ।यथाह तातेति वदन् प्रणाममकरोद्भुवि ॥८८॥कुवलयाश्व उवाचधन्योऽहमतिपुण्योऽहं कोऽन्योऽस्ति सदृशो मया ।यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः ॥८९॥तदुत्तिष्ठत गच्छामस्ताताज्ञां क्षणमप्यहम् ।नातिक्रान्तुमिहेच्छामि पदेभ्यां तस्य शपाम्यहम् ॥९०॥जड उवाचएवमुक्त्वा ययौ सोऽथ सह ताभ्यां नृपात्मजः ।प्राप्तश्च गोमतीं पुण्यां निर्गम्य नगराद्वहिः ॥९१॥तन्मध्येन ययुस्ते वे नागेन्द्रनृपनन्दनाः ।मेने च राजपुत्रोऽसौ पारे तस्यास्तयोर्गृहम् ॥९२॥ततश्चाकृष्य पातालं ताभ्यां नीतो नृपात्मजः ।पाताले ददृशे चोभौ स पन्नगकुमारकौ ॥९३॥फणामणिकृतोद्योतौ व्यक्तस्वस्तिकलक्षणौ ।विलोक्य तौ सुरूपाङ्गौ विस्मयोत्फुल्ललोचनः ॥९४॥विहस्य चाब्रवीत् प्रेम्णा साधु भो द्विजसत्तमौ ।कथयामासतुस्तौ च पितरं पन्नगेश्वरम् ॥९५॥शान्तमश्वतरं नाम माननीयं दिवौकसाम् ।रमणीयं ततोऽपस्यत् पातालं स नृपात्मजः ॥९६॥कुमारैस्तरुणैर्वृद्धैरुरगैरुपशोभितम् ।तथैव नागकन्याभिः क्रीडन्तीभिरितस्ततः ॥९७॥चारुकुण्डलहाराभिस्ताराभिर्गगनं यथा ।गीतशब्दैस्तथान्यत्र वीणावेणुस्वनानुगैः ॥९८॥मृदङ्गपणवातोद्यं हारिवेश्मशताकुलम् ।वीक्षमाणः स पातालं ययौ शत्रुजितः सुतः ॥९९॥सह ताभ्यामभीष्टाभ्यां पन्नगाभ्यामरिन्दमः ।ततः प्रविश्य ते सर्वे नागराजनिवेशनम् ॥१००॥ददृशुस्ते महात्मानमुरगाधिपतिं स्थितम् ।दिव्यमाल्याम्बरधरं मणिकुण्डलभूषणम् ॥१०१॥स्वच्छमुक्ताफललताहारिहारोपशोभितम् ।केयूरिणं महाभागमासने सर्वकाञ्चने ॥१०२॥मणिविद्रुमवैदूर्य-जालान्तरितरूपके ।स ताभ्यां दर्शितस्तस्य तातोऽस्माकमसाविति ॥१०३॥वीरः कुवलयाश्वोऽयं पित्रे चासौ निवेदितः ।ततो ननाम चरणौ नागेन्द्रस्य ऋतध्वजः ॥१०४॥तमुत्थाप्य बलाद्गाढं नागेन्द्रः परीषस्वजे ।मूर्ध्नि चैनमुपाघ्राय चिरं जीवेत्युवाच सः ॥१०५॥निहतामित्रवर्गश्च पित्रोः सुश्रूषणं कुरु ।वत्स धन्यस्य कथ्यन्ते परोक्षस्यापि ते गुणाः ॥१०६॥भवतो मम पुत्राभ्यामसामान्या निवेदिताः ।त्वमेवानेन वर्धेथा मनोवाक्कायचेष्टितैः ॥१०७॥जीवितं गुणिनः श्लाघ्यं जीवन्नेव मृतोऽगुणः ।गुणवान् निर्वृतिं पित्रोः शत्रुणां हृदयज्वरम् ॥१०८॥करोत्यात्महितं कुर्वन् विश्वासञ्च महाजने ।देवताः पितरो विप्रा मित्रार्थिविकलादयः ॥१०९॥बान्धवाश्च तथेच्छन्ति जीवितं गुणिनश्चिरम् ।परिवादनिवृत्तानां दुर्गतेषु दयावताम् ।गुणिनां सफलं जन्म संश्रितानां विपद्गतैः ॥११०॥जड उवाचएवमुक्त्वा स तं वीरं पुत्राविदमथाब्रवीत् ।पूजां कुवलयाश्वस्य कर्तुकामो भुजङ्गमः ॥१११॥स्नानादिकक्रमं कृत्वा सर्वमेव यथाक्रमम् ।मधुपानादिसम्भोगमाहारञ्च यथेप्सितम् ॥११२॥ततः कुवलयाश्वेन हृदयोत्सवभूतया ।कथया स्वल्पकं कालं स्थास्यामो हृष्टचेतसः ॥११३॥अनुमेन च तन्मौनो वचः शत्रुजितः सुतः ।तथा चकार नृपतिः पन्नगानामुदारधीः ॥११४॥समेत्य तैरात्मजभूपनन्दनैर् महोरगाणामधिपः स सत्यवाक् ।मुदान्वितोऽन्नानि मधूनि चात्मवान् यथोपयोगं बुभुजे स भोगभुक् ॥११५॥इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने कुवलयाश्वपातालगमनं नाम त्रयोविंसोऽध्यायः N/A References : N/A Last Updated : March 21, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP