संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
चतुः सप्ततितमोऽध्यायः

मार्कण्डेयपुराणम् - चतुः सप्ततितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मार्कण्डेय उवाच

राजाभूद् विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।
अनेकयज्ञकृत् प्राज्ञः संग्रामेष्वपराजितः ॥१॥

तस्यायुः सुमहत्प्रादात् मन्त्रिणाराधितो रविः ।
पत्नीनाञ्च शतन्तस्य धन्यानामभवद् द्विज ॥२॥

तस्य दीर्घायुषः पत्न्यो नातिदीर्घायुषो मुने ।
कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा ॥३॥

स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः ।
उद्विग्नचेताः संप्राप वीर्यहानिमहर्निशम् ॥४॥

तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुः खितम् ।
अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा ॥५॥

राज्याच्च्युतः सोऽपि वनं गत्वा निर्विण्णमानसः ।
तपस्तेपे महाभागे वितस्तापुलिने स्थितः ॥६॥

ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रंकषाशिकः ।
जलशायी च शिशिरे निराहारो यतव्रतः ॥७॥

ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः ।
बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम् ॥८॥

न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा ।
नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत् ॥९॥

ततोऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् ।
प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः ॥१०॥

अथ दूरे जलौघेन ह्रियमाणो महीपतिः ।
आससाद जले रौहीं स पुच्छे जगृहे च ताम् ॥११॥

तेन प्लवेन स ययावूह्यमानो महीतले ।
इतश्चेतश्चान्धकारे आससाद तटन्ततः ॥१२॥

विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् ।
तथैव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः ॥१३॥

तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् ।
पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ ॥१४॥

तस्याश्च स्पर्शसंभूतामवापमुदमुत्तमाम् ।
सोऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः ॥१५॥

विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् ।
नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह ॥१६॥

किं पृष्ठं वेपथुमता करेण स्पृशसे मम ।
अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः ॥१७॥

नास्थाने वो मनो यातं नागम्याहं तवेश्वर ।
किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे ॥१८॥

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः ।
जातकौतूहलो रौहीमिदं वचनमब्रवीत् ॥१९॥

का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् ।
कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम ॥२०॥

मृग्युवाच

अहन्ते दयिता भूप ! प्रागासमुत्पलावती ।
भार्या शताग्रमहिषी दुहिता दृढधन्वनः ॥२१॥

राजोवाच

किन्तु यावत् कृतं कर्म येनेमां योनिमागता ।
पतिव्रता धर्मपरा सा चेत्थं कथमीदृशी ॥२२॥

मृग्युवाच

अहं पितृगृहे बाला सखीभिः सहिता वनम् ।
रन्तुं गता ददर्शैकं मृगं मृग्या समागतम् ॥२३॥

ततः समीपवर्तिन्या मया सा ताडिता मृगी ।
मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः ॥२४॥

मूढे किमेवं मत्तासि धिक्ते दौःशील्यमीदृशम् ।
आधानकालो येनायं त्वया मे विफलीकृतः ॥२५॥

वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः ।
भीता तमब्रुवं कोऽसीत्येतां योनिमुपागतः ॥२६॥

ततः स प्राह पुत्रोऽहमृषेर्निर्वृतिचक्षुषः ।
सुतपा नाम मृग्यान्तु साभिलाषो मृगोऽभवम् ॥२७॥

इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने ।
त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते ॥२८॥

मया चोक्तं तवाज्ञानादपराधः कृतो मुने ।
प्रसादं कुरु शापं मे न भवान् दातुमर्हति ॥२९॥

इत्युक्तः प्राह मां सोऽपि मुनिरित्थं महीपते ।
न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे ॥३०॥

मया चोक्तं मृगी नाहं मृगरूपधरा वने ।
लप्स्यसेऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम् ॥३१॥

इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः ।
नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि ॥३२॥

ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् ।
स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः ॥३३॥

बालानभिज्ञा वाक्यानां ततः प्रोक्तमिदं मया ।
पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम् ॥३४॥

सति ताते कथञ्चाहं वृणोमि मुनिसत्तम ।
सापराधाथवा पादौ प्रसीदेश नमाम्यहम् ॥३५॥

प्रसीदेति प्रसीदेति प्रणताया महामते ।
इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः ॥३६॥

न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन ।
मृगी भविष्यसि मृता वनेऽस्मिन्नेव जन्मनि ॥३७॥

मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति ।
लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि ॥३८॥

जातिस्मरा भवित्री त्वं तस्मिन् गर्भमुपागते ।
स्मृतिं प्राप्य तथा वाचं मानुषीमीरयिष्यसि ॥३९॥

तस्मिन् जाते मृगीत्वात् त्वं विमुक्ता पतिनार्चिता ।
लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः ॥४०॥

सोऽपि लोलो महावीर्यः पितृशत्रून् निपात्य वै ।
जित्वा वसुन्धरां कृत्स्त्रां भविष्यति ततो मनुः ॥४१॥

एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता ।
त्वत्संस्पर्शाच्च गर्भोऽसौ संभूतो जठरे मम ॥४२॥

अतो ब्रवीमि नास्थाने तव यातं मनो मयि ।
न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्यसौ ॥४३॥

मार्कण्डेय उवाच

एवमुक्तस्ततः सोऽपि राजा प्राप्य परां मुदम् ।
पुत्रो ममारीञ्जित्वेति पृथिव्यां भविता मनुः ॥४४॥

ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् ।
तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम् ॥४५॥

विशेषतश्च राजासौ पुत्रे जाते महाबले ।
सा विमुक्ता मृगी शापात् प्राप लोकाननुत्तमान् ॥४६॥

ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम ।
अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः ॥४७॥

तामसीं भजमानायां योनिं मातर्यजायत ।
तमसा चावृते लोके तामसोऽयं भविष्यति ॥४८॥

ततः स तामसस्तेन पित्रा संवर्धितो वने ।
जातबुद्धिरुवाचेदं पितरं मुनिसत्तम ॥४९॥

कस्त्वं तात कथं वाहं पुत्रो माता च का मम ।
किमर्थमागतश्च त्वमेतत् सत्यं ब्रवीहि मे ॥५०॥

मार्कण्डेय उवाच

ततः पिता यथावृत्तं स्वराज्यच्यावनादिकम् ।
तस्याचष्टे महाबहुः पुत्रस्य जगतीपतिः ॥५१॥

श्रुत्वा तत् सकलं सोऽपि समाराध्य च भास्करम् ।
अवाप दिव्यान्यस्त्राणि ससंहाराण्यशेषतः ॥५२॥

कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् ।
अनुज्ञातान् मुनोचाथ तेन स्वं धर्ममास्थितः ॥५३॥

पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् ।
विसृष्टदेहः संप्राप्तो दृष्ट्वा पुत्रमुखं सुखम् ॥५४॥

जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः ।
तामसाख्यो मनुरभूत्तस्य मन्वन्तरं शृणु ॥५५॥

ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।
ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः ॥५६॥

सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।
एते देवगणास्तत्र सप्तविंशतिका मुने ॥५७॥

महाबलो महावीर्यः शतयज्ञोपलक्षितः ।
शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः ॥५८॥

ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥५९॥

नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः ॥६०॥

इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् ।
यः पठेत् शृणुयाद्वापि तमसा सन बाध्यते ॥६१॥

इति श्रीमार्कण्डेयपुराणेठतामसमन्वन्तरेऽ चतुः सप्ततितमोऽध्यायः.

N/A

References : N/A
Last Updated : March 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP