संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| चतुर्दशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - चतुर्दशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत चतुर्दशोऽध्यायः Translation - भाषांतर पुत्र उवाचइति पृष्टस्तदा तेन शृण्वतां नो महात्मना ।उवाच पुरुषो याम्यो घोरोऽपि प्रसृतं वचः ॥१॥यमकिङ्कर उवाचमहाराज ! यथात्थ त्वं तथैतन्नात्र संशयः ।किन्तु स्वल्पं कृतं पापं भवता स्मारयामि तत् ॥२॥वैदर्भो तव या पत्नी पीवरी नाम नामतः ।ऋतुमत्या ऋतुर्वन्ध्यस्त्वया तस्याः कृतः पुरा ॥३॥शुशोभनायां कैकेय्यामासक्तेन ततो भवान् ।ऋतुव्यतिक्रमात् प्राप्तो नरकं घोरमीदृशम् ॥४॥होमकाले यथा वह्निराज्यपातमवेक्षते ।ऋतौ प्रजापतिस्तद्वद् बीजपातमवेक्षते ॥५॥यस्तमुल्लङ्घ्य धर्मात्मा कामेष्वासक्तिमान् भवेत् ।स तु पित्र्यादृणात् पापमवाप्य नरकं पतेत् ॥६॥एतावदेव ते पापं नान्यत् किञ्चन विद्यते ।तदेहि गच्छ पुण्यानामुपभोगाय पार्थिव ॥७॥राजोवाचयास्यामि देवानुचर यत्र त्वं मां नयिष्यसि ।किञ्चित् पृच्छामि तन्मे त्वं यथावद्वक्तुमर्हसि ॥८॥वज्रतुण्डास्त्वमी काकाः पुंसां नयनहारिणः ।पुनः पुनश्च नेत्राणि तद्वदेषां भवन्ति हि ॥९॥किं कर्म कृतवन्तश्च कथयैतज्जुगुप्सितम् ।हरन्त्येषां तथा जिह्वां जायमानां पुनर्नवाम् ॥१०॥परपत्रेण पाट्यन्ते कस्मादेतेऽतिदुः खिताः ।करम्भवालुकास्वेते पच्यन्ते तैलगोचराः ॥११॥अयोमुखैः खगैश्चैते कृष्यन्ते किंविधा वद ।विश्र्लिष्टदेहबन्धार्ति-महारावविराविणः ॥१२॥अयश्चञ्चुनिपातेन सर्वाङ्गक्षतदुः खिताः ।किमेतेऽनिष्टकर्तारस्तुद्यन्तेऽहर्निशं नराः ॥१३॥एताश्चान्याश्च दृश्यन्ते यातनाः पापकर्मिणाम् ।येन कर्मविपाकेण तन्ममाशेषतो वद ॥१४॥यमकिङ्कर उवाचयन्मां पृच्छसि भूपाल ! पापकर्मफलोदयम् ।तत् तेऽहं सम्प्रवक्ष्यामि संक्षेपेण यथातथम् ॥१५॥पुण्यापुण्ये हि पुरुषः पर्यायेण समश्नते ।भुञ्जतश्च क्षयं याति पापं पुण्यमथापि वा ॥१६॥न तु भोगादृते पुण्यं किञ्चिद्वा कर्म मानवम् ।पापकं वा पुनात्याशु क्षयो भोगात् प्रजायते ॥१७॥परित्यजति भोगाच्च पुण्यापुण्ये निबोध मे ।दुर्भिक्षादेव दुर्भिक्षं क्लेशात् क्लेशं भयाद्भयम् ॥१८॥मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः ।गतिं नानाविधां यान्ति जन्तवः कर्मबन्धनात् ॥१९॥उत्सवादुत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् ।श्रद्धधानाश्च शान्ताश्च धनदाः शुभकारिणः ॥२०॥व्यालकुञ्जरदुर्गाणि सर्पचौरभयानि तु ।हताः पापेन गच्छन्ति पापिनः किमतः परम् ॥२१॥अनेकशतसाहस्त्र-जन्मसंचयसञ्चितम् ।पुण्यापुण्यं नृणां तद्वत् सुखदुः खाङ्कुरोद्भवम् ॥२३॥यथा बीजं हि भूपाल ! पयांसि समवेक्षते ।पुण्यापुण्ये तथा कालदेशान्यकर्मकारकम् ॥२४॥स्वल्पं पापं कृतं पुंसा देशकालोपपादितम् ।पादन्यासकृतं दुः खं कण्टकोत्थं प्रयच्छति ॥२५॥तत् प्रभूततरं स्थूलं शूलकीलकसम्भवम् ।दुः खं यच्छति तद्वच्च शिरोरोगादि दुः सहम् ॥२६॥अपथ्याशनशीतोष्ण-श्रमतापादिकारकम् ।तथान्योऽन्यमपेक्षन्ते पापानि फलसङ्गमे ॥२७॥एवं महान्ति पापानि दीर्घरोगादिविक्रियाम् ।तद्वच्छस्त्राग्निकृच्छ्रार्ति-बन्धनादिफलाय वै ॥२८॥स्वल्पं पुण्यं शुभं गन्धं हेलया सम्प्रयच्छिति ।स्पर्श वाप्यथवा शब्दं रसं रूपमथापि वा ॥२९॥चिराद् गुरुतरं तद्वन्महान्तमपि कालजम् ।एवञ्च सुखदुः खानि पुण्यापुण्योद्भवानि वै ॥३०॥भुञ्जानोऽनेकसंसार-सम्भवानीह तिष्ठति ।जाति देशावरुद्धानि ज्ञानाज्ञानफलानि च ॥३१॥तिष्णन्ति तत्र युक्तानि लिङ्गमात्रेण चात्मनि ।वपुषा मनसा वाचा न कदाचित् क्वचिन्नरः ॥३२॥अकुर्वन् पापकं कर्म पुण्यं वाप्यवतिष्ठते ।यद् यत् प्राप्नोति पुरुषो दुः खं सुखमथापि वा ॥३३॥प्रभूतमथवा स्वल्पं विक्रियाकारि चेतसः ।तावता तस्य पुण्यं वा पापं वाप्यथ चेतरत् ॥३४॥उपभोगात् क्षयं याति भुज्यमानमिवाशनम् ।एवमेते महापापं यातनाभिरहर्निशम् ॥३५॥क्षपयन्ति नरा घोरं नरकान्तर्विवर्तिनः ।तथैव राजन् ! पुण्यानि स्वर्गलोकेऽमरैः सह ॥३६॥गन्धर्वसिद्धाप्सरसां गीताद्यैरुपभुञ्जते ।देवत्वे मानुषत्वे च तिर्यक्त्वे च शुभाशुभम् ॥३७॥पुण्यपापोद्भवं भुङ्क्ते सुखदुः खोपलक्षणम् ।यद् त्वं पृच्छसि मां राजन् ! यातनाः पापकर्मिणाम् ।केन केनेति पापेन तत् ते वक्ष्याम्यशेषतः ॥३८॥दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः ।मानसेन च दुष्टेन परद्रव्यञ्च सस्पृहैः ॥३९॥वज्रतुण्डाः खगास्तेषां हरन्त्येते विलोचने ।पुनः पुनश्च सम्भूतिरक्ष्णोरेषां भवत्यथ ॥४०॥यावतोऽक्षिनिमेषांस्तु पापमेभिर्नृभिः कृतम् ।तावद्वर्षसहस्राणि नेत्रात्ति प्राप्नुवन्त्युत ॥४१॥असच्छास्त्रोपदेशास्तु यैर्दत्ता यैश्च मन्त्रिताः ।सम्यग्दृष्टेर्विनाशाय रिपूणामपि मानवैः ॥४२॥यैः शास्त्रमन्यथा प्रोक्तं यैरसद्वागुदाहृता ।वेददेवद्विजातीनां गुरोर्निन्दा च यैः कृता ॥४३॥हरन्ति तेषां जिह्वाश्च जायमानाः पुनः पुनः ।तावतो वत्सरानेते वज्रतुण्डाः सदारुणाः ॥४४॥मित्रभेदं तथा पित्रा पुत्रस्य स्वजनस्य च ।याज्योपाध्याययोर्मात्रा सुतस्य सहचारिणः ॥४५॥भार्यापत्योश्च ये केचिद् भेदं चक्रुर्नराधमाः ।त हमे पश्य पाट्यन्ते करपत्रेण पार्थिव ॥४६॥परोपतापका ये च ये चाह्लादनिषेधकाः ।तालवृन्तानिलस्थान-चन्दनोशीरहारिणः ॥४७॥प्राणान्तिकं ददुस्तापमदुष्टानाञ्च येऽधमाः ।करम्भवालुकासंस्थास्त इमे पापभागिनः ॥४८॥भुङ्क्ते श्राद्धन्तु योऽन्यस्य नरोऽन्येन निमन्त्रितः ।दैवे वाप्यथवा पित्र्ये स द्विधा कृष्यते खगैः ॥४९॥मर्माणि यस्तु साधूनामसद्वाग्भिर्निकृन्तति ।तमिमे तुदमानास्तु खगास्तिष्ठन्त्यवारिता ॥५०॥यः करोति च पैशुन्यमन्यवागन्यथामतिः ।पाट्यते हि द्विधा जिह्वा तस्येत्थं निशितैः क्षुरैः ॥५१॥माता-पित्रोर्गुरूणाञ्च येऽवज्ञां चक्रुरुद्धताः ।त इमे पूयविण्मूत्र-गर्ते मज्जन्त्यधोमुखाः ॥५२॥देवतातिथिभूतेषु भृत्येष्वभ्यागतेषु च ।अभुक्तवत्सु येऽश्नन्ति तद्वत् पित्रग्निपक्षिषु ॥५३॥दुष्टास्ते पूयनिर्यास-भुजः सूचीमुखास्तु ते ।जायन्ते गिरिवर्ष्माणः पश्यैते यादृशा नराः ॥५४॥एकपङ्क्त्या तु ये विप्रमथवेतरवर्णजम् ।विषमं बोजयन्तीह विड्भुजस्त इमे यथा ॥५५॥एकसार्थप्रयातं ये निः स्वमर्थार्थिनं नरम् ।अपास्य स्वान्नमश्नन्ति त इमे श्लेष्मभोजिनः ॥५६॥गोबाह्मणाग्नयः स्पृष्टा यैरुच्छिष्टैर्नरेश्वर ।तेषामेतेऽग्निकुम्भेषु लेलिह्यन्त्याहिताः कराः ॥५७॥सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैस्तु कामतः ।तेषां याम्यैर्नरैर्नेत्रे न्यस्तो वह्निः समेध्यते ॥५८॥गावोऽग्निर्जननी विप्रोज्येष्ठभ्राता पिता स्वसा ।जामयो गुरवो वृद्धा यैः स्पृष्टास्तु पदा नृभिः ॥५९॥बद्धाङ्घ्रयस्ते निगडैलौहैरग्निप्रतापितैः ।अङ्गारराशिमध्यस्थास्तिष्ठन्त्याजानुदाहिनः ॥६०॥पायसं कृशरं छागो देवान्नानि च यानि वै ।भुक्तानि यैरसंस्कृत्य तेषां नेत्राणि पापिनाम् ॥६१॥निपातितानां भूपृष्ठे उद्वृत्ताक्षि निरीक्षताम् ।सन्दंशैः पश्य कृष्यन्ते नरैर्याम्यैर्मुखात् ततः ॥६२॥गुरु-देव-द्विजातीनां वेदानाञ्च नराधमैः ।निन्दा निशामिता यैश्च पापानामभिनन्दताम् ॥६३॥तेषामयोमयान् कीलानग्निवर्षान् पुनः पुनः ।कर्णेषु प्रेरयन्त्येते याम्या विलपतामपि ॥६४॥यैः प्रपा-देवविप्रौको-देवालयसभाः शुभाः ।भङ्क्त्वा विध्वंसमानीताः क्रोधलोभानुवर्तिभिः ॥६५॥तेषामेतैः शितैः शस्त्रैर्मुहुर्विलपतां त्वचः ।पृथक् कुर्वन्ति वै याम्याः शरीरादतिदारुणाः ॥६६॥गोब्राह्मणार्कमार्गेषु येऽवमेहन्ति मानवाः ।तेषामेतानि कृष्यन्ते गुदेनान्त्राणि वायसैः ॥६७॥दत्त्वा कन्यां च एकस्मै द्वितीयाय प्रयच्छति ।स त्वेवं नैकधाच्छिन्नः क्षारनद्यां प्रवाह्यते ॥६८॥स्वपोषणपरो यस्तु परित्यजति मानवः ।पुत्र-भृत्य-कलत्रादि-बन्धुवर्गमकिञ्चिनम् ॥६९॥दुर्भिक्षे सम्भ्रमे वापि सोऽप्येवं यमकिङ्करैः ।उत्कृत्य दत्तानि मुखे स्वमांसान्यश्नुते क्षुधा ॥७०॥शरणागतान् यस्त्यजति लोभाद् वृत्त्युपजीविनः ।सोऽप्येवं यन्त्रपीडाभिः पीड्यते यमकिङ्करैः ॥७१॥सुकृतं ये प्रयच्छन्ति यावज्जन्म कृतं नराः ।ते पिष्यन्ते शिलापेषैर्यथैते पापकर्मिणः ॥७२॥न्यासापहारिणो बद्धाः सर्वगात्रेषु बन्धनैः ।कृमिवृश्चिककाकोलैर्भुज्यन्तेऽहर्निशं नराः ॥७३॥क्षुत्क्षामास्तृट्पतज्जिह्वा-तालवो वेदनातुराः ।दिवामैथुनिनः पापाः परदारभुजश्च ये ॥७४॥तथैव कण्टकैर्देर्घैरायसैः पश्य शाल्मलिम् ।आरोपिता विभिन्नाङ्गाः प्रभूतासृक्स्त्रवाविलाः ॥७५॥मूषायामपि पश्यैतान् नाश्यमानान् यमानुगैः ।पुरुषैः पुरुषाव्याघ्र ! परदारावमर्षिणः ॥७६॥उपाद्यायमधः कृत्वा स्तब्धो योऽध्ययनं नरः ।गृह्णाति शिल्पमथवा सोऽप्येवं शिरसा शिलाम् ॥७७॥बिभ्रत् क्लेशमवाप्नोति जनमार्गेऽतिपीडितः ।क्षुत्क्षामोऽहर्निशं भारपीडाव्यथितमस्तकः ॥७८॥मूत्र-श्लेष्म-पूरीषाणि यैरुत्सृष्टानि वारिणि ।त इमे श्लेष्मविण्मूत्र-दुर्गन्धं नरकं गताः ॥७९॥परस्परञ्च मांसानि भक्ष्यन्ति क्षुधान्विताः ।भुक्तं नातिथ्यविधिना पूर्वमेभैः परस्परम् ॥८०॥अपविद्धास्तु यैर्वेदा वहनयश्चाहिताग्निभिः ।त इमे शालशृङ्गाग्रात् पात्यन्तेऽधः पुनः पुनः ॥८१॥पुनर्भूपतयो जीर्णा यावज्जीवन्ति ये नराः ।इमे कृमित्वमापन्ना भक्ष्यन्तेऽत्र पिपीलिकैः ॥८२॥पतितप्रतिग्रहादानाद्यजनान्नित्यसेवनात् ।पाषाणमध्यकीटत्वं नरः सततमश्नुते ॥८३॥पश्यतो भृत्यवर्गस्य मित्राणामतिथेस्तथा ।एको मिष्टान्नभुग् भुङ्क्ते ज्वलदङ्गारसञ्चयम् ॥८४॥वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते ।पृष्ठमांसं नृपैतेन यतो लोकस्य भक्षितम् ॥८५॥अन्धोऽथ बधिरो मूको भ्राम्यतेऽयं क्षुधातुरः ।अकृतज्ञोऽधमः पुंसामुपकारेषु वर्तताम् ॥८६॥अयं कृतघ्रो मित्राणामपकारी सुदुर्मतिः ।तत्पकुम्भे निपतति ततो यास्यति पेषणम् ॥८७॥करम्भवालुकां तस्मात् ततो यन्त्रानपीडनम् ।असिपत्रवनं तस्मात् करपत्रेण पाटनम् ॥८८॥कालसूत्रे तथा छेदमनेकाश्चैव यातनाः ।प्राप्य निष्कृतिमेतस्मान्न वेद्मि कथमेष्यति ॥८९॥श्राद्धसङ्गतिनो विप्राः समुत्पत्य परस्परम् ।दुष्टा हि निः सृतं फेनं सर्वाङ्गेभ्यः पिबन्ति वै ॥९०॥सुवर्णस्तेयी विप्रघ्रः सुरापी गुरुतल्पगः ।अधश्चोर्ध्वञ्च दीप्ताग्नौ दह्यमानाः समन्ततः ॥९१॥तिष्ठन्त्यब्दसहस्राणि सुबहूनि ततः पुनः ।जायन्ते मानवाः कुष्ठ-क्षयरोगादिचिह्नताः ॥९२॥मृताः पुनश्च नरकं पुनर्जाताश्च तादृशम् ।व्याधिमृच्छन्ति कल्पान्तपरिमाणं नराधिप ॥९३॥गोघ्रो न्यूरतरं याति नरकेऽथ त्रिजन्मनि ।तथोपपातकानाञ्च सर्वेषामिति निश्चयः ॥९४॥नरकप्रच्युता यानि यैर्यैर्विहितपातकैः ।प्रयान्ति योनिजातानि तन्मे निगदतः शृणु ॥९५॥इति श्रीमार्कण्डेयपुराणे जडोपाख्याने यमकिङ्करसंवादो नाम चतुर्दशोऽध्यायः N/A References : N/A Last Updated : March 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP