संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| अष्टपञ्चाशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - अष्टपञ्चाशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत अष्टपञ्चाशोऽध्यायः Translation - भाषांतर क्रौष्टुकिरुवाचभगवन् ! कथितं सम्यक् भवता भारतं मम ।सरितः पर्वता देशा ये च तत्र वसन्ति वै ॥१॥किन्तु कूर्मस्त्वया पूर्वं भारते भगवान् हरिः ।कथितस्तस्य संस्थानं श्रोतुमिच्छाम्यशेषतः ॥२॥कथं स संस्थितो देवः कूर्मरूपी जनार्दनः ।शुभाशुभं मनुष्याणां व्यज्यते च ततः कथम् ।यथामुखं यथापादन्तस्य तद् ब्रूह्यशेषतः ॥३॥मार्कण्डेय उवाचप्राङ्मुखो भगवान् ! देवः कूर्मरूपी व्यवस्थितः ।आक्रम्य भारतं वर्षं नवभेदमिदं द्विज ॥४॥नवधा संस्थितान्यस्य नक्षत्राणि समन्ततः ।विषयाश्च द्विजश्रेष्ठ ! ये सम्यक् तान्निबोध मे ॥५॥वेदमन्त्रा विमाण्डव्याः शाल्वनीपास्तथा शकाः ।उज्जिहानास्तथा वत्स ! घोषसंख्यास्तथा खसाः ॥६॥मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः ।धर्मारण्या ज्योतिषिका गौरग्रीवा गुडाश्मकाः ॥७॥कालकोटिसपाषण्डाः पारियात्रनिवासिनः ।कापिङ्गलाः कुरुर्बाह्यस्तथैवोडुम्बरा जनाः ॥८॥वैदेहकाः सपाञ्चालाः संकेताः कङ्कमारुताः ।गजाह्वयाश्च कूर्मस्य जलमध्यनिवासिनः ॥९॥कृत्तिका रोहिणी सौम्या एतेषां मध्यवासिनाम् ।नक्षत्रत्रितयं विप्र ! शुभाशुभविपाकदम् ॥१०॥वृषध्वजोऽञ्जनश्चैव जम्ब्वाख्यो मानवाचलः ।शूर्पकर्णो व्याघ्रमुखः खर्मकः कर्वटाशनः ॥११॥तथा चन्द्रेश्वराश्चैव खशाश्च मगधास्तथा ।गिरयो मैथिलाः शुभ्रास्तथा वदनदन्तुराः ॥१२॥प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषादकाः ।पुर्णोत्कटो भद्रगौरस्तथोदयगिरिर्द्विज ! ॥१३॥कशाया मेखलामुष्टास्ताम्रलिप्तैकपादपाः ।वर्धमाना कोशलाश्च मुखे कूर्मस्य संश्थिताः ॥१४॥रौद्रः पुनर्वसुः पुष्यो नक्षत्रत्रितयं मुखे ।पादे तु दक्षिणे देशाः क्रौष्टुके वदतः शृणु ॥१५॥कलिङ्गवङ्गजठराः कोशला मूषिकास्तथा ।चेदयश्चोर्ध्वकर्णाश्च मत्स्याद्या विन्ध्यवासिनः ॥१६॥विदर्भा नारिकेलाश्च धर्मद्वीपास्तथैलिकाः ।व्याघ्रग्रीवा महाग्रीवास्त्रैपुराः श्मश्रुधारिणः ॥१७॥कैष्किन्ध्या हैमकूटाश्च निषधाः कटकस्थलाः ।दशार्णाहारिका नग्ना निषादाः काकुलालकाः ॥१८॥तथैव पर्णशबराः पादे वै पूर्वदक्षिणे ।आश्लेषर्क्षं तथा पैत्र्यं फाल्गुण्यः प्रथदमास्तथा ॥१९॥नक्षत्रत्रितयं पादमाश्रितं पूर्वदक्षिणम् ।लङ्का कालाजिनाश्चैव शैलिका निकटास्तथा ॥२०॥महेन्द्रमलयाद्रौ च दुर्दुरे च वसन्ति ये ।कर्कोटकवने ये च भृगुकच्छाः सकोङ्कणा ॥२१॥सर्वाश्चैव तथाभीरा वेण्यास्तीरनिवासिनः ।अवन्तयो दासपुरास्तथैवाकणिनो जनाः ॥२२॥महाराष्ट्राः सकर्णाटा गोनर्दाश्चित्रकूटकाः ।चोलाः कोलगिराश्चैव क्रौञ्चद्वीपजटाधराः ॥२३॥कावेरी ऋष्यमूकस्था नासिक्याश्चैव ये जनाः ।शङ्खशुक्त्यादिवैदूर्यशैलप्रान्तचराश्च ये ॥२४॥तथा वारिचराः कोलाः चर्मपट्टनिवासिनः ।गणबाह्याः पराः कृष्णा द्वीपवासनिवासिनः ॥२५॥सूर्याद्रौ कुमुदाद्रौ च ते वसन्ति तथा जनाः ।औखावनाः सपिशिकास्तथा ये कर्मनायकाः ॥२६॥तक्षिणाः कौरुषा ये च ऋषिकास्तापसाश्रमाः ।ऋषभाः सिहलाश्चैव तथा काञ्चीनिवासिनः ॥२७॥तिलङ्गा कुञ्जारदरीकच्छवासाश्च ये जनाः ।ताम्रपर्णो तथा कुक्षिरिति कूर्मस्य दक्षिणः ॥२८॥फाल्गुन्यश्चोत्तरा हस्ता चित्रा चर्क्षत्रयं द्विज ।कूर्मस्य दक्षिणे कुक्षौ बाह्यपादस्तथापरम् ॥२९॥काम्बोजाः पह्लवाश्चैव तथैव वहवामुखाः ।तथा च सिन्दुसौवीराः सानर्ता वनितामुखाः ॥३०॥द्रावणाः मार्गिकाः शूद्रा कर्णप्राधेयवर्वराः ।किराताः पारदाः पाण्ड्यास्तथा पारशवाः कलाः ॥३१॥धूर्तका हैमगिरिकाः सिन्धुकालकवैरताः ।सौराष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः ॥३२॥एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे ।स्वात्यो विशाखा मैत्रञ्च नक्षत्रत्रयमेव च ॥३३॥मणिमेघः क्षुराद्रिश्च खञ्जनोऽस्तगिरिस्तथा ।अपरान्तिका हैहयाश्च शान्तिका विप्रशस्तकाः ॥३४॥कौङ्कणाः पञ्चनदका वामना ह्यवरास्तथा ।तारक्षुरा ह्यङ्गतकाः कर्कराः शाल्मवेश्मकाः ॥३५॥गुरुस्विराः फल्गुणका वेणुमत्याञ्च ये जनाः ।तथा फल्गुलुका घोरा गुरुहाश्च कलास्तथा ॥३६॥एकेक्षणा वाजिकेशा दीर्घग्रीवाः सचूलिकाः ।अश्वकेशास्तथा पुच्छे जनाः कूर्मस्य संस्थिताः ॥३७॥ऐन्द्रं मूलन्तथाषाग नक्षत्रत्रयमेव च ।माण्डव्याश्चण्डखाराश्च अश्वकालनतास्तथा ॥३८॥कुन्यतालडहाश्चैव स्त्रीबाह्या बालिक्रास्तथा ।नृसिंहा वेणुमत्याञ्च बलावस्थास्तथापरे ॥३९॥धर्मबद्धास्तथालूका उरुकर्मस्थिता जनाः ।वामपादे जनाः पार्श्वे स्थिताः कूर्मस्य भागुरे ॥४०॥आषाढाश्रवणे चैव धनिष्ठा यत्र संस्थिता ।कैलासो हिमवांश्चैव धनुष्मान् वसुमांस्तथा ॥४१॥क्रौञ्चाः कुरुवकाश्चैव क्षुद्रवीणाश्च ये जनाः ।रसालया सकैकेया भोगप्रस्थाः सयामुनाः ॥४२॥अन्तर्द्वोपास्त्रिगर्ताश्च अग्नीज्याः सार्दना जनाः ।तथैवाश्वमुखाः प्राप्ताश्चिविडाः केशधारिणः ॥४३॥दासेरका वाटधानाः शवधानास्तथैव च ।पुष्कलाधमकैरातास्तथा तक्षशिलाश्रयाः ॥४४॥अम्बाला मालवा मद्रा वेणुकाः सवदन्तिकाः ।पिङ्गला मानकलहा हूणाः कोहलकास्तथा ॥४५॥माण्डव्या भूतियुवकाः शातका हेमतारकाः ।यशोमत्याः सगान्धाराः खरसागरराशयः ॥४६॥यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा ।क्षेमधूर्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः ॥४७॥वारुणञ्चात्र नक्षत्रं तत्र प्रौष्ठपदाद्वयम् ।येन किन्नरराज्यञ्च पुशुपालं सकीचकम् ॥४८॥काश्मीरकं तथा राष्ट्रमभिसारजनस्तथा ।दवदास्त्वङ्गनाश्चैव कुलटा वनराष्ट्रकाः ॥४९॥सैरिष्ठा ब्रह्मपुरकास्तथैव वनवाह्यकाः ।किरातकौशिका नन्दा जनाः पह्णवलोलनाः ॥५०॥दार्वादा मरकाश्चैव कुरटाश्चान्नदारकाः ।एकपादा खशा घोषाः स्वर्गभौमानवद्यकाः ॥५१॥तथा सयवना हिङ्गाश्चीरप्रावरणाश्च ये ।त्रिनेत्राः पौरवाश्चैव गन्धर्वाश्च द्विजात्तम ॥५२॥पूर्वोत्तरन्तु कूर्मस्य पदामेते समाश्रिताः ।रेवत्यश्चाश्विदैवत्यं याम्यञ्चर्क्षमिति त्रयम् ॥५३॥तत्र पादे समाख्यातं पाकाय मुनिसत्तम ।देशेष्वेतेषु चैतानि नक्षत्राण्यपि वै द्विज ॥५४॥एतत्पीडा अमी देशाः पीड्यन्ते ये क्रमोदिताः ।यान्ति चाभ्युदयं विप्र ! ग्रहैः सम्यगवस्थितैः ॥५५॥यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्भावितो भयम् ।तद्देशस्य मुनिश्रेष्ठ ! तदुत्कर्षे शुभागमः ॥५६॥प्रत्येकं देशसामान्यं नक्षत्रग्रहसम्भवम् ।भयं लोकस्य भवति शोभनं वा द्विजोत्तम ॥५७॥स्वर्क्षैरशोभनैर्जन्तोः सामान्यमिति भीतिदम् ।ग्रहैर्भवति पीडोत्थमल्पायासमशोभनम् ॥५८॥तथैव शोभनः पाको दुः स्थितैश्च तथा ग्रहैः ।अल्पोपकाराय नृणां देशज्ञैश्चात्मनो बुधैः ॥५९॥द्रव्ये गोष्ठेऽथ भृत्येषु सुहृत्सु तनयेषु वा ।भार्यायाञ्च ग्रहे दुस्थे भयं पुण्यवतां नृणाम् ॥६०॥आत्मन्यथाल्पपुण्यानां सर्वत्रैवातिपापिनाम् ।नैकत्रापि ह्यपापानां भयमस्ति कदाचन ॥६१॥दिग्देशजनसामान्यं नृपसामान्यमात्मजम् ।नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम् ॥६२॥परस्पराभिरक्षा च ग्रहादौस्थ्येन जायते ।एतेभ्य एव विप्रेन्द्र ! शुभहानिस्तथाशुभैः ॥६३॥यदेतत् कूर्मसंस्थानं नक्षत्रेषु मयोदितम् ।एतत् तु देशसामान्यमशुभं शुभमेव च ॥६४॥तस्माद्विज्ञाय देशर्क्षं ग्रहपीडान्तथात्मनः ।कुर्वोत शान्तिं मेधावी लोकवादांश्च सत्तम ॥६५॥आकाशाद्देवतानाञ्च दैत्यादीनाञ्च दौर्हृदाः ।पृथ्व्यां पतन्ति ते लोके लोकवादा इति श्रुताः ॥६६॥तां तथैव बुधः कुर्यात् लोकवादान्न हापयेत् ।तेषान्तत्करणान्नॄणां युक्तो दुष्टागमक्षयः ॥६७॥शुभोदयं प्रहानिञ्च पापानां द्विजसत्तम ।प्रज्ञाहानिं प्रकुर्युस्ते द्रव्यादीनाञ्च कुर्वते ॥६८॥तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ।लोकवादांश्च शान्तीश्च ग्रहपीडासु कारयेत् ॥६९॥अद्रोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् ।जपं होमं तथा दानं स्त्रानं क्रोधादिवर्जनम् ॥७०॥अद्रोहः सर्वभूतेषु मैत्रीं कुर्याच्च पण्डितः ।वर्जयेदसतीं वाचमतिवादांस्तथैव च ॥७१॥ग्रहपूजाञ्च कुर्वोत सर्वपीडासु मानवः ।एवं शाम्यन्त्यशेषाणि घोराणि द्विजसत्तम ॥७२॥प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यशेषतः ।एष कूर्मो मया ख्यातो भारते भगवान् विभुः ॥७३॥नारायणो ह्यचिन्त्यात्मा यत्र सर्वं प्रतिष्ठितम् ।तत्र देवाः स्थिताः सर्वे प्रतिनक्षत्रसंश्रयाः ॥७४॥तथा मध्ये हुतवहः पृथ्वी सोमश्च वै द्विज ।मेषादयस्त्रयो मध्ये मुखे द्वौ मिथुनादिकौ ॥७५॥प्राग्दक्षिणे तथा पादे कर्कसिंहौ व्यवस्थितौ ।सिंहकन्यातुलाश्चैव कुक्षौ राशैत्रयं स्थितम् ॥७६॥तुलाथ वृश्चिकाश्चोभौ पादे दक्षिणपश्चिमे ।पृष्ठे च वृश्चिकेनैव सह धन्वी व्यवस्थितः ॥७७॥वायव्ये चास्य वै पादे धनुर्ग्राहादिकं त्रयम् ।कुम्भमीनौ तथैवास्य उत्तरां कुक्षिमाश्रितौ ॥७८॥मीनमेषौ द्विजश्रेष्ठ ! पादे पूर्वोत्तरे स्थितौ ।कूर्मे देशास्तथर्क्षाणि देशेष्वेतेषु वै द्विज ॥७९॥राशयश्च तथर्क्षेषु ग्रहराशिष्ववस्थिताः ।तस्माद् ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ॥८०॥तत्र स्त्रात्वा प्रकुर्वोत दानहोमादिकं विधिम् ।स एष वैष्णवः पादो ब्रह्मा मध्ये ग्रहस्य यः ।नारायणाख्योऽचिन्त्यात्मा कारणं जगतः प्रभुः ॥८१॥इति श्रीमार्कण्डेयपुराणे कूर्मनिवेशो नामाष्टपञ्चाशोऽध्यायः N/A References : N/A Last Updated : March 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP