संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| षड्विंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - षड्विंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत षड्विंशोऽध्यायः Translation - भाषांतर जड उवाचवर्धमानं सुतं सा तु राजपत्नी दिने दिने ।तमुल्लापादिना बोधमनयन्निर्ममात्मकम् ॥१॥यथायथं बलं लेभे यथा लेभे मतिं पितुः ।तथा तथात्मबोधञ्च सोऽवापन्मातृभाषितैः ॥२॥इत्थं तया स तनयो जन्मप्रभृति बोधितः ।चकार न मतिं प्राज्ञो गार्हस्थ्यं प्रति निर्ममः ॥३॥द्वितीयोऽस्याः सुतो जज्ञे तस्य नामाकरोत्पिता ।सुबाहुरयमित्युक्ते सा जाहस मदालसा ॥४॥तमप्येवं यथापूर्वं बालमुल्लापनादिना ।प्राह बाल्यात् स च प्राप तथा बोधं माहमतिः ॥५॥तृतीयं तनयं जातं स राजा शत्रुमर्दनम् ।यदाह तेन सा सुभ्रुर्जहासातिचिरं पुनः ॥६॥तथैव सोऽपि तन्वङ्ग्या बालत्वादवबोधितः ।क्रियाश्चकार निष्कामो न किञ्चिदुपकारकम् ॥७॥चतुर्थस्य सुतस्याथ चिकीर्षुर्नाम भूमिपः ।ददर्श तां शुभाचारामीषद्धासां मदालसाम् ।तामाह राजा हसतीं किञ्चित् कौतूहलान्वितः ॥८॥राजोवाचक्रियमाणेऽसकृन्नाम्नि कथ्यतां हास्यकारणम् ।विक्रान्तश्च सुबाहुश्च तथान्यः शत्रुमर्दनः ॥९॥शोभनानीति नामानि मया मन्ये कृतानि वै ।योग्यानि क्षत्रबन्धूनां शौर्याटोपयुतानि च ॥१०॥असन्त्येतानि चेद्भद्रे ! यदि ते मनसि स्थितम् ।तदस्य क्रियतां नाम चतुर्थस्य सुतस्य मे ॥११॥मदालसौवाचमयाज्ञा भवतः कार्या महाराज ! यथात्थ माम् ।तथा नाम करिष्यामि चतुर्थस्य सुतस्य ते ॥१२॥अलर्क इति धर्मज्ञः ख्यातिं लोके प्रयास्यति ।कनीयानेष ते पुत्रो मतिमांश्च भविष्यति ॥१३॥तच्छ्रुत्वा नाम पुत्रस्य कृतं मात्रा महीपतिः ।अलर्क इत्यसम्बद्धं प्रहस्येदमथाब्रवीत् ॥१४॥राजोवाचभवत्या यदिदं नाम मत्पुत्रस्य कृतं शुभे ।किमीदृशमसम्बद्धमर्थः कोऽस्य मदालसे ॥१५॥मदालसोवाचकल्पनेयं महाराज ! कृता सा व्यावहारिको ।त्वत्कृतानां तथा नाम्नां शृणु भूप ! निरर्थताम् ॥१६॥वदन्ति पुरुषाः प्राज्ञा व्यापिनं पुरुषं यतः ।क्रान्तिश्च गतिरुद्दिष्टा देशाद्देशान्तरन्तु या ॥१७॥सर्वगो न प्रयातीति व्यापी देहेश्वरो यतः ।ततो विक्रान्तसंज्ञेयं मता मम निरर्थिका ॥१८॥सुबाहुरिति या संज्ञा कृतान्यस्य सुतस्य ते ।निरर्था साप्यमूर्तत्वात् पुरुषस्य महीपते ॥१९॥पुत्रस्य यद् कृतं नाम तृतीयस्यारिमर्दनः ।मन्ये तदप्यसम्बद्धं शृणु चाप्यत्र कारणम् ॥२०॥एक एव शरीरेषु सर्वेषु पुरुषो यदा ।तदास्य राजन् ! क शत्रुः को वा मित्रमिहेष्यते ॥२१॥भूतैर्भूतानि मृद्यन्ते अमूर्तो मृद्यते कथम् ।क्रोधादीनां पृथग्भावात् कल्पनेयं निरर्थिका ॥२२॥यदि संव्यवहारार्थमसन्नाम प्रकल्प्यते ।नाम्नि कस्मादलर्काख्ये नैरर्थ्यं भवतो मतम् ॥२३॥जड उवाचएवमुक्तस्तया साधु महीष्या स महीपतिः ।तथेत्याह महाबुद्धिर्दयितां तथ्यवादिनीम् ॥२४॥तञ्चापि सा सुतं सुभ्रूर्यथा पूर्वसुतांस्तथा ।प्रोवाच बोधजननं तामुवाच स पार्थिवः ॥२५॥करोषि किमिदं मूढे ! ममाभावाय सन्ततेः ।दुष्टावबोधदानेन यथापूर्वं सुतेषु मे ॥२६॥यदि ते मत्प्रियं कार्यं यदि ग्राह्यं वचो मम ।तदेनं तनयं मार्गे प्रवृत्तेः सन्नियोजय ॥२७॥कर्ममार्गः समुच्छेदं नैवं देवि ! गमिष्यति ।पितृपिण्डनिवृत्तिश्च नैवं साध्वि ! भविष्यति ॥२८॥पितरो देवलोकस्थास्तथा तिर्यक्त्वमागताः ।तद्वन्मनुष्यतां याता भूतवर्गे च संस्थिताः ॥२९॥सपुण्यानसपुण्यांश्च क्षुत्क्षामान् तृट्परिप्लुतान् ।पिण्डोदकप्रदानेन नरः कर्मण्यवस्थितः ॥३०॥सदाप्यायते सुभ्रु ! तद्वद्देवातिथोनपि ।देवैर्मनुष्यैः पितृभिः प्रेतैर्भूतैः सगुह्यकैः ॥३१॥वयोभिः कृमिकीटैश्च नर एवोपजीव्यते ।तस्मात् तन्वड्गि ! पुत्रं यत्कार्यं क्षत्रयोनिभिः ॥३२॥ऐहिकामुष्मिकफलं तत् सम्यक् प्रतिपादय ॥३३॥जड उवाचतेनैवमुक्ता सा भर्त्रा वरनारी मदालसा ।अलर्कं नाम तनयमुवाचोल्लापवादिनी ॥३४॥पुत्र वर्धस्व मद्भर्तुर्मनो नन्दय कर्मभिः ।मित्राणामुपकाराय दुर्हृदां नाशनाय च ॥३५॥धन्योऽसि रे यो वसुधामशत्रुर् एकश्चिरं पालयितासि पुत्र ।तत्पालनादस्तु सुखोपभोगो धर्मात् फलं प्राप्स्यसि चामरत्वम् ॥३६॥धरामरान् पर्वसु तर्पयेथाः समीहितं बन्धुषु पूरयेथाः ।हितं परस्मै हृदि चिन्तयेथाः मनः परस्त्रीषु निवर्तयेथाः ॥३७॥यज्ञौरनेकैर्विबुधानजस्त्रम् अर्थैर्द्विजान् प्रीणय संश्रितांश्च ।स्त्रियश्च कामैरतुलैश्चिराय युद्धैश्चारींस्तोषयितासि वीर ॥३८॥बालो मनो नन्दय बान्धवानां गुरोस्तथाज्ञानकरणैः कुमारः ।स्त्रीणां युवा सत्कुलभूषणानां वृद्धो वने वत्स ! वनेचराणाम् ॥३९॥राज्यं कुर्वन् सुहृदो नन्दयेथाः साधून् रक्षंस्तात ! यज्ञैर्यजेथाः ।दुष्टान्निघ्रन् वैरिणश्चाजिमध्ये गोविप्रार्थे वत्स ! मृत्युं व्रजेथाः ॥४०॥इति श्रीमार्कण्डेयपुराणे पुत्रानुशासनं नाम षड्विंशोऽध्यायः27(4)सप्तविंशोऽध्यायःजड उवाचएवमुल्लाप्यमानस्तु स तु मात्रा दिने दिने ।ववृधे वयसा बालो बुद्ध्या चालर्कसंज्ञितः ॥१॥स कौमारकमासाद्य ऋतध्वजसुतस्ततः ।कृतोपनयनः प्राज्ञः प्रणिपत्याह मातरम् ॥२॥मया यदत्र कर्तव्यमैहिकामुष्मिकाय वै ।सुखाय वद तत् सर्वं प्रश्रयावनतस्य मे ॥३॥मदालसोवाचवत्स ! राज्येऽभिषिक्तेन प्रजारञ्जनमादितः ।कर्तव्यमविरोधेन स्वधर्मस्य महीभृता ॥४॥व्यसनानि परित्यज्य सप्त मूलहराणि वै ।आत्मा रिपुभ्यः संरक्ष्यो बहिर्मन्त्रविनिर्गमात् ॥५॥अष्टधा नाशमाप्नोति सुचक्रात् स्यन्दनाद्यथा ।तथा राजाप्यसन्दिग्धं बहिर्मन्त्रविनिर्गमात् ॥६॥दुष्टादुष्टांश्च जानीयादमात्यानरिदोषतः ।चरैश्चरास्तथा शत्रोरन्वेष्टव्याः प्रयत्नतः ॥७॥विश्वासो न तु कर्तव्यो राज्ञा मित्राप्तबन्धुषु ।कार्ययोगादमित्रेऽपि विश्वसीत नराधिपः ॥८॥स्थानवृद्धिक्षयज्ञेन षाड्गुण्यगुणितात्माना ।भवितव्यं नरेन्द्रेण न कामवशवर्तिना ॥९॥प्रागात्मा मन्त्रिणश्चैव ततो भृत्या महीभृता ।जेयाश्चानन्तरं पौरा विरुध्येत ततोऽरिभिः ॥१०॥यस्त्वेतानविजित्यैव वैरिणो विजिगीषते ।सोऽजितात्मा जितामात्यः शत्रुवर्गेण बाध्यते ॥११॥तस्मात् कामादयः पूर्वं जेयाः पुत्र ! महीभुजा ।तज्जये हि जयोऽवश्यं राजा नश्यति तैर्जितः ॥१२॥कामः क्रोधश्च लोभश्च मदो मानस्तथैव च ।हर्षश्च शत्रवो ह्येते विनाशाय महीभृताम् ॥१३॥कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् ।निवर्तयेत्तथा क्रोधादनुह्रादं हतात्मजम् ॥१४॥हतमैलं तथा लोभान्मदाद्वेनं द्विजैर्हतम् ।मानादनायुषापुत्रं बलिं हर्षात् पुरञ्जयम् ॥१५॥एभिर्जितैर्जितं सर्वं मरुत्तेन महात्मना ।स्मृत्वा विवर्जयेदेतान् दोषान् स्वीयान्महीपतिः ॥१६॥काककोकिलभृङ्गाणां मृगव्यालशिखण्डिनाम् ।हंसकुक्कुटलोहानां शिक्षेत चरित नृपः ॥१७॥कीटकस्य क्रियां कुर्यात् विपक्षे मनुजेश्वरः ।चेष्टां पिपीलिकानाञ्च काले भूपः प्रदर्शयेत् ॥१८॥ज्ञेयाग्निविस्फुलिङ्गानां बीजचेष्टा च शाल्मलेः ।चन्द्रसूर्यस्वरूपेण नीत्यर्थे पृथिवीक्षिता ॥१९॥बन्धकीपद्मशरभशूलिकागुर्विणीस्तनात् ।प्रज्ञा नृपेण चादेया तथा गोपालयोषितः ॥२०॥शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः ।रूपाणि पञ्च कुर्वोत महीपालनकर्मणि ॥२१॥यथेन्द्रश्चतुरो मासान् तोयोत्सर्गेण भूगतम् ।आप्याययेत्तथा लोकं परिहारैर्महीपतिः ॥२२॥मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः ।सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिकं नृपः ॥२३॥यथा यमः प्रियद्वेष्ये प्राप्तकाले नियच्छति ।तथा प्रियाप्रिये राजा दुष्टादुष्टे समो भवेत् ॥२४॥पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः ।एवं यत्र प्रजाः सर्वा निर्वत्तास्तच्छशिव्रतम् ॥२५॥मारुतः सर्वभूतेषु निगूढश्चरते यथा ।एवं नृपश्चरेच्चारैः पौरामात्यादिबन्धुषु ॥२६॥न लोभाद्वा न कामाद्वा नार्थाद्वा यस्य मानसम् ।यथान्यैः कृष्यते वत्स ! स राजा स्वर्गमृच्छति ॥२७॥उत्पथग्राहिणो मूढान् स्वधर्माच्चलतो नरान् ।यः करोति निजे धर्मे स राजा स्वर्गमृच्छति ॥२८॥वर्णधर्मा न सीदन्ति यस्य राज्ये तथाश्रमाः ।वत्स ! तस्य सुखं प्रेत्य परत्रेह च शाश्वतम् ॥२९॥एतद्राज्ञः परं कृत्यं तथैतत् सिद्धिकारकम् ।स्वधर्मस्थापनं नृणां चाल्यन्ते ये कुबुद्धिभिः ॥३०॥पालनेनैव भूतानां कृतकृत्यो महीपतिः ।सम्यक् पालयिता भागं धर्मस्याप्नोति यत्नतः ॥३१॥इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तविंशोऽध्यायः N/A References : N/A Last Updated : March 21, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP