संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
अष्टसप्ततितमोऽध्यायः

मार्कण्डेयपुराणम् - अष्टसप्ततितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


निधिवर्णनम्
क्रौष्टुकिरुवाच
भगवन्कथितं सर्वं विस्तरेण त्वया मम ।
स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य तु ॥१॥
या तु सा पद्मिनी नाम विद्या भोगोपपादिका ।
तत्संश्रया ये निधयस्तान्मे विस्तरतो वद ॥२॥
अष्टौ ये निधयस्तेषां स्वरूपं द्रव्यसंस्थितिः ।
भवताभिहितं सम्यक्छ्रोतुमिच्छाम्यहं गुरो ॥३॥
मार्कण्डेय उवाच
पद्मिनी नाम या विद्या लक्ष्मीस्तस्याश्च देवता ।
तदाधाराश्च निधयस्तन्मे निगदतः शृणु ॥४॥
यत्र पद्ममहापद्मौ तथा मकरकच्छपौ ।
मुकुन्दो नंदकश्चैव नीलः शङ्खोऽष्टमो निधिः ॥५॥
सत्यामृद्धौ भवन्त्येते सिद्धिस्तेषां हि जायते ।
एते ह्यष्टौ समाख्याता निधयस्तव क्रौष्टुके ॥६॥
देवतानां प्रसादेन साधुसंसेवनेन च ।
एभिरालोकितं वित्तं मानुषस्य सदा मुने ॥७॥
यादृक्स्वरूपं भवति तन्मे निगदतः शृणु ।
पद्मो नाम निधिः पूर्वं स यस्य भवति द्विज ॥८॥
स तस्य तत्सुतानां च तत्पौत्राणां च नित्यशः ।
दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत् ॥९॥
सत्त्वाधारो महाभागो यतोऽसौ सात्त्विको निधिः ।
सुवर्णरूप्यताम्रादिधातूनां च परिग्रहम् ॥१०॥
करोत्यतितरां सोऽथ तेषां च क्रयविक्रयम् ।
करोति च तथा यज्ञान्दक्षिणां च प्रयच्छति ॥११॥
(संपादयति कामांश्च सर्वानेव यथाक्रमम् ।
सभां देवनिकेतांश्च स कारयति तन्मनाः ।
सत्त्वाधारो निधिश्चान्यो महापद्म इति श्रुतः ॥१२॥
सत्त्वप्रधानो भवति तेन चाधिष्ठितो नरः ।
करोति पद्मरागादिरत्नानां च परिग्रहम् ॥१३॥
मौक्तिकानां प्रवालानां तेषां च क्रयविक्रयान् ।
ददाति योगशीलेभ्यस्तेषामावसथांस्तथा ॥१४॥
स कारयति तच्छीलः स्वयमेव च जायते ।
तत्प्रसूतास्तथाशीलाः पुत्रपौत्रक्रमेण च ॥१५॥
पूर्वर्द्धिमात्रः सप्तासौ पुरुषांश्च न मुञ्चति ।
तामसो मकरो नाम निधिस्तेनावलोकितः ॥१६॥
पुरुषोऽथ तमःप्रायः सुशीलोऽपि हि जायते ।
बाणखड्गर्ष्टि धनुषां चर्मणां च परिग्रहम् ॥१७॥
दंशनानां च कुरुते योऽतिमैत्री च राजभिः ।
ददाति शौर्यवृत्तीनां भूभुजां ये च तत्प्रियाः ॥१८॥
क्रयविक्रये च शस्त्राणां नान्यत्र प्रीतिमेति च ।
एकस्यैव भवत्येष नरस्य न सुतानुगः ॥१९॥
द्रव्यार्थं दस्युतो नाशं संग्रामे वापि स व्रजेत् ।
कच्छपश्च निधिर्योऽसौ नरस्तेनाभिवीक्षितः ॥२०॥
तमःप्रधानो भवति यतोऽसौ तामसो निधिः ।
व्यवहारानशेषांस्तु पुण्यजातैः करोति च ॥२१॥
कर्मस्थानखिलांश्चैव न विश्वसिति कस्यचित् ।
समस्तानि यथाङ्गानि संहरत्येव कच्छपः ॥२२॥
तथाविष्टभ्य रत्नानि तिष्ठत्याकुलमानसः ।
न ददाति न वा भुङ्क्ते तद्विनाशभयाकुलः ॥२३॥
निधानमुर्व्यां कुरुते निधिः सोऽप्येकपूरुषः ।
रजोगुणमयश्चान्यो मुकुन्दो नाम यो निधिः ॥२४॥
नरोऽवलोकितस्तेन तद्गुणो भवति द्विज ।
वीणावेणुमृदङ्गानामातोद्यस्य परिग्रहम् ॥२५॥
करोति गायतां वित्तं नृत्यतां च प्रयच्छति ।
बन्दिमागधसूतानां विटानां लास्यपाठिनाम् ॥२६॥
ददात्यहर्निशं भोगान्भुङ्क्ते तैश्च समं द्विज ।
कुलटासु रतिश्चास्य भवत्यन्यैश्च तद्विधैः ॥२७॥
प्रयाति सङ्गमेकं च यं निधिर्भजते नरम् ।
रजस्तमोमयश्चान्यो नन्दो नाम महानिधिः ॥२८॥
उपैति स्तम्भमधिकं नरस्तेनावलोकितः ।
समस्तधातुरत्नानां पुण्यधान्यादिकस्य च ॥२९॥
परिग्रहं करोत्येष तथैव क्रयविक्रयम् ।
आधारः स्वजनानां च आगताभ्यागतस्य च ॥३०॥
सहते नापमानोक्तिं स्वल्पमपि महामुने ।
स्तूयमानश्च महतीं प्रीतिं बध्नाति यच्छति ॥३१॥
यं यमिच्छति .वै कामं मृदुत्वमुपयाति च ।
बह्व्यो भार्या भवन्त्यस्य सूतिमत्योऽतिशोभनाः ॥३२॥
भजते सप्त च नरान्निधिर्नन्दोऽनुवर्तते ।
प्रवर्द्धमानोऽथ नरमष्टभागेन सत्तम ॥३३॥
दीर्घायुष्ट्वं च सर्वेषां पुरुषाणां प्रयच्छति ।
बन्धूनामेव भरणं ये च दूरादुपागताः ॥३४॥
तेषां करोति वै नन्दः परलोके न चादृतः ।
भवत्यस्य न च स्नेहः सहवासिषु जायते ॥३५॥
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ।
तथैव सत्त्वरजसी यो बिभर्ति महानिधिः ॥३६॥
स नीलसंज्ञस्तत्सङ्गी नरस्तच्छीलवान्भवेत् ।
वस्त्रकार्पासधान्यादिफलपुष्पपरिग्रहम् ॥३७॥
मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां तथा मुने ।
काष्ठादीनां करोत्येष यच्चान्यज्जलसम्भवम् ॥३८॥
क्रयविक्रयमन्येषां नान्यत्र रमते मनः ।
तडागान्पुष्करिण्योऽथ तथारामान्करोति च ॥३९॥
बन्धं च सरितां वृक्षांस्तथारोपयते नरः ।
अनुलेपनपुष्पादिभोगभुग्वाभिजायते ॥४०॥
त्रिपौरुषश्चापि निधिर्नीलो नामैष जायते ।
रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः ॥४१॥
तेनापि नीयते विप्र तद्गुणित्वं निधीश्वरः ।
एकस्यैव भवत्येष नरं नान्यमुपैति च ॥४२॥
यस्य शङ्खो निधिस्तस्य स्वरूपं क्रौष्टुके शृणु ।
एक एवात्मना सृष्टमन्नं भुङ्क्ते तथाम्बरम् ॥४३॥
कदन्नभुक्परिजनो न च शोभनवस्त्रधृक् ।
न ददाति सुहृद्भार्याभ्रातृपुत्रस्नुषादिषु ॥४४॥
स्वपोषणपरः शङ्खी नरो भवति सर्वदा ।
इत्येते निधयः ख्याता नराणामर्थदेवताः ॥४५॥
मिश्रावलोकनान्मिश्राः स्वभावफलदायिनः ।
यथाख्यातस्वभावस्तु भवत्येव विलोकनात् ।
सर्वेषामाधिपत्ये च श्रीरेषां द्विजपद्मिनी ॥४६॥
इति श्रीमार्कण्डेयपुराणे निधिवर्णनं नाम अष्टसप्ततितमोऽध्यायः

N/A

References : N/A
Last Updated : March 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP