संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
नवनवतितमोऽध्यायः

मार्कण्डेयपुराणम् - नवनवतितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मार्तण्डमाहात्म्यवर्णनम्
मार्कण्डेय उवाच
तस्मादण्डाद्विभिन्नात्तु ब्रह्मणोऽव्यक्तजन्मनः ।
ऋचो बभूवुः प्रथमं प्रथमाद्वदनान्मुने ॥१॥
जपापुष्पनिभाः सद्यस्तेजोरूपा ह्यसंहताः ।
पृथक्पृथग्विभिन्नाश्च रजोरूपवहास्ततः ॥२॥
यजूंषि दक्षिणाद्वक्त्रादनिरुद्धानि कानिचित् ।
यादृग्वर्णं तथा वर्णान्यसंहतिधराणि च ॥३॥
पश्चिमं यद्विभोर्वक्त्रं ब्रह्मणः परमेष्ठिनः ।
आविर्भूतानि सामानि तत्तच्छन्दांसि तान्यथ ॥४॥
अथर्वणामशेषं च भृङ्गाञ्जनचयप्रभम् ।
यावद्धोरस्वरूपं तदाभिचारिकशान्तिकम् ॥५॥
उत्तरात्प्रकटीभूतं वदनात्तस्य वेधसः ।
सुखसत्त्वतमःप्रायं सौम्यासौम्यस्वरूपवत् ॥६॥
ऋचो रजोगुणाः सत्त्वं यजुषां च गुणा मुने ।
तमोगुणानि सामानि तमःसत्त्वमथर्वसु ॥७॥
एतानि ज्वलमानानि तेजसाऽप्रतिमेन वै ।
पृथक्पृथगवस्थानभाञ्जि पूर्वमिवाभवन् ॥८॥
ततस्तदाद्यं यत्तेज ओमित्युक्त्वाभिशब्द्यते ।
तस्य स्वभावाद्यत्तेजस्तत्समावृत्य संस्थितम् ॥९॥
यथा यजुर्मयं तेजस्तद्वत्साम्नां महामुने ।
एकत्वमुपयातानि परे तेजस संश्रये ॥१०॥
शान्तिकं पौष्टिकं चैव तथा चैवाभिचारिकम् ।
ऋगादिषु लयं ब्रहमंस्त्रितयं त्रिष्वथागमत् ॥११॥
ततो विश्वमिदं सद्यस्तमोनाशात्सुनिर्मलम् ।
विभावनीयं विप्रर्षे तिर्यगूर्ध्वमधस्तथा ॥१२॥
ततस्तन्मण्डलीभूतं छान्दसं तेज उत्तमम् ।
परेण तेजसा ब्रह्मन्नेकत्वमुपगम्य तत् ॥१३॥
आदित्यसंज्ञामगमदादावेव यतोऽभवत् ।
विश्वस्यास्य महाभाग कारणं चाव्ययात्मकम् ॥१४॥
प्रातर्मध्यन्दिने चैव तथा चैवापराह्णिके ।
त्रयी तपति सा काले ऋग्यजुःसामसंज्ञिता ॥१५॥
ऋचस्तपन्ति पूर्वाह्णे मध्याह्ने च यजूंषि वै ।
सामानि चापराह्णे वै तपन्ति मुनिसत्तम ॥१६॥
शान्तिकमृक्षु पूर्वाह्णे यजुःष्वेव च पौष्टिकम् ।
विन्यस्तं साम्नि सायाह्ने ह्याभिचारिकमन्ततः ॥१७॥
मध्यन्दिनेऽपराह्णे च समे चैवाभिचारिकम् ।
अपराह्णे पितॄणां तु साम्ना कार्याणि तानि वै ॥१८॥
विसृष्टौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः ।
रुद्रः साममयोऽन्ते च तस्मात्तस्याशुचिर्ध्वनिः ॥१९॥
तदेवं भगवान्भास्वान्वेदात्मा वेदसंस्थितः ।
वेदविद्यात्मकश्चैव परः पुरुष उच्यते ॥२०॥
सर्गस्थित्यन्तहेतुश्च रजःसत्त्वादिकान्गुणान् ।
आश्रित्य ब्रह्मविष्ण्वादिसंज्ञामभ्येति शाश्वतः ॥२१॥
देवैः सदेड्यः स तु वेदमूर्तिरमूर्तिराद्योऽखिलमर्त्यमूर्तिः ।
विश्वाश्रयं ज्योतिरवेद्यधर्मा वेदान्तगम्यः परमः परेशः ॥२२॥
इति श्रीमार्कण्डेयपुराणे मार्त्तण्डमाहात्म्ये नवनवतितमोऽध्यायः । ९९ ।

N/A

References : N/A
Last Updated : March 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP