संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| द्वितीयोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - द्वितीयोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत द्वितीयोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचअरिष्टनेमिपुत्रोऽभूद् गरुडो नाम पक्षिराट् ।गरुडस्याभवत् पुत्रः सम्पातिरिति विश्रुतः ॥१॥तस्याप्यासीत् सुतः शूरः सुपार्श्वो वायुविक्रमः ।सुपार्श्वतनयः कुन्तिः कुन्तिपुत्रः प्रलोलुपः ॥२॥तस्यापि तनयावास्तां कङ्कः कन्धर एव च ॥३॥कङ्कः कैलासशिखरे विद्युद्रूपेति विश्रुतम् ।ददर्शाम्बुजपत्राक्षं राक्षसं धनदानुगम् ॥४॥आपानासक्तममलस्त्रग्दामाम्बरधारिणम् ।भार्यासहायमासीनं शिलापट्टेऽमले शुभे ॥५॥तद्दृष्टमात्रं कङ्केन रक्षः क्रोधसमन्वितम् ।प्रोवाच कस्मादायातस्त्वमितो ह्यण्डजाधम ॥६॥स्त्रीसन्निकर्षे तिष्ठन्तं कस्मान्मामुपसर्पसि ।नैष धर्मः सुबुद्धीनां मिथोनिष्पाद्यवस्तुषु ॥७॥कङ्क उवाचसाधारणोऽयं शैलेन्द्रो यथा तव तथा मम ।अन्येषां चैव जन्तूनां ममता भवतोऽत्र का ॥८॥मार्कण्डेय उवाचब्रुवाणमित्थं खड्गेन कङ्कं चिन्छेद राक्षसः ।क्षरत्क्षतजबीभत्सं विस्फुरन्तमचेतनम् ॥९॥कङ्कं विनिहतं श्रुत्वा कन्धरः क्रोधमूर्च्छितः ।विद्युद्रूपवधायाशु मनश्चक्रेऽण्डजेश्वरः ॥१०॥स गत्वा शैलशिखरं कङ्को यत्र हतः स्थितः ।तस्य संकलनं चक्रे भ्रातुर्ज्येष्ठस्य खेचरः ।कोपामर्षविवृताक्षो नागेन्द्र इव निः श्वसन् ॥११॥जगामाथ स यत्रास्ते भ्रातृहा तस्य राक्षसः ।पक्षवातेन महता चालयन् भूधरान् वरान् ॥१२॥वेगात् पयोदजालानि विक्षिपन् क्षतजेक्षणः ।क्षणात् क्षयितशत्रुः स पक्षाभ्यां क्रान्तभूधरः ॥१३॥पानासक्तमतिं तत्र तं ददर्श निशाचरम् ।आताम्रवक्त्रनयनं हेमपर्यङ्कमाश्रितम् ॥१४॥स्त्रग्दामापूरितशिखं हरिचन्दनभूषितम् ।केतकीगर्भपत्राभैर्दन्तैर्घोरतराननम् ॥१५॥वामोरुमाश्रितां चास्य ददर्शायतलोचनाम् ।पत्नीं मदनिकां नाम पुंस्कोकिलकलस्वनाम् ॥१६॥ततो रोषपरीतात्मा कन्धरः कन्दरस्थितम् ।तमुवाच सुदुष्टात्मन्नेहि युध्यस्व वै मया ॥१७॥यस्माज्जेष्ठो मम भ्राता विश्रब्धो घाततस्त्वया ।तस्मात्त्वां मदसंसक्तं नयिष्ये यमसादनम् ॥१८॥विश्वस्तघातिनां लोका ये च स्त्रीबालघातिनाम् ।यास्यसे निरयान् सर्वांस्तांस्त्वमद्य मया हतः ॥१९॥मार्कण्डेय उवाचइत्येवं पतगेन्द्रेण प्रोक्तं स्त्रीसन्निधौ तदा ।रक्षः क्रोधसमाविष्टं प्रत्यभाषत पक्षिणम् ॥२०॥यदि ते निहतो भ्राता पौरुषं तद्धि दर्शितम् ।त्वामप्यद्य हनिष्येऽहं खड्गेनानेन खेचर ॥२१॥तिष्ठ क्षणं नात्र जीवन् पतगाधम यास्यसि ।इत्युक्त्वाञ्जनपुञ्जाभं विमलं खड्गमाददे ॥२२॥ततः पतगराजस्य यक्षाधिपभटस्य च ।बभूव युद्धमतुलं यथा गरुड-शक्रयोः ॥२३॥ततः स राक्षसः क्रोधात् खड्गमाविध्य वेगवत् ।चिक्षेप पतगेन्द्राय निर्वाणाङ्गारवर्चसम् ॥२४॥पतगेन्द्रश्च तं खड्गङ्किञ्चिदुत्प्लुत्य भूतलात् ।वक्त्रेण जग्राह तदा गरुडः पन्नगं यथा ॥२५॥वक्त्रपादतलैर्भङ्क्त्वा चक्रे क्षोभमथातुलम् ।तस्मिन् भग्ने ततः खड्गे बाहुयुद्धमवर्तत ॥२६॥ततः पतगराजेन वक्षस्याक्रम्य राक्षसः ।हस्त-पाद-करैराशु शिरसा च वियोजितः ॥२७॥तस्मिन् विनिहते सा स्त्री खगं शरणमभ्यगात् ।किञ्चित् संजातसंत्रासा प्राह भार्या भवामि ते ॥२८॥तामादाय खगश्रेष्ठः स्वकं गृहमगात् पुनः ।गत्वा स निष्कृतिं भ्रातुर्विद्युद्रुपनिपातनात् ॥२९॥कन्धरस्य च सा वेश्म प्राप्येच्छारूपधारिणी ।मेनकातनया सुभ्रूः सौपर्णं रूपमाददे ॥३०॥तस्यां स जनयामास तार्क्षों नाम सुतां तदा ।मुनिशापाग्निविप्लुष्टां वपुमप्सरसां वराम् ।तस्या नाम तदा चक्रे तार्क्षोमिति विहङ्गमः ॥३१॥मन्दपालसुताश्चासंश्चत्वारोऽमितबुद्धयः ।जरितारिप्रभृतयो द्रोणान्ता द्विजसत्तमाः ॥३२॥तेषां जघन्यो धर्मात्मा वेदवेदाङ्गपारगः ।उपयेमे स तां तार्क्षों कन्धरानुमते शुभाम् ॥३३॥कस्यचित्त्वथ कालस्य तार्क्षो गर्भमवाप ह ।सप्तपक्षाहिते गर्भे कुरुक्षेत्रं जगाम सा ॥३४॥कुरु-पाण्डवयोर्युद्धे वर्तमाने सुदारुणे ।भावित्वाच्चैव कार्यस्य रणमध्ये विवेश सा ॥३५॥तत्रापश्यत् तदा युद्धं भगदत्तकिरीटिनोः ।निरन्तरं शरैरासीदाकाशं शलभैरिव ॥३६॥पार्थकोदण्डनिर्मुक्तमासन्नमतिवेगवत् ।तस्या भल्लमहिश्यामं त्वचं चिच्छेद जाठरीम् ॥३७॥भिन्ने कोष्ठे शसाङ्काभं भूमावण्डचतुष्टयम् ।आयुषः सावशेषत्वात् तूलराशाविवापतत् ॥३८॥तत्पातसमकालं च सुप्रतीकाद्गजोत्तमात् ।पपात महती घष्टा बाणसंछिन्नबन्धना ॥३९॥समं समन्तात् प्राप्ता तु निर्भिन्नधरणीतला ।छादयन्ती खगाण्डानि स्थितानि पिशितोपरि ॥४०॥हते च तस्मिन् नृपतौ भगदत्ते नरेश्वरे ।बहून्यहान्यभूद्युद्धं कुरुपाण्डवसैन्ययोः ॥४१॥वृत्ते युद्धे धर्मपुत्रे गते शान्तनवान्तिकम् ।भीष्मस्य गदतोऽशेषान् श्रोतुं धर्मान् महात्मनः ॥४२॥घष्टागतानि तिष्ठन्ति यत्राण्डानि द्विजोत्तम ।आजगाम तमुद्देशं शमीको नाम संयमी ॥४३॥स तत्र शब्दमशृणोच्चिचीकुचीति वाशताम् ।बाल्यादस्फुटवाक्यानां विज्ञानेऽपि परे सति ॥४४॥अथर्षिः शिष्यसहितो घष्टामुत्पाट्य विस्मितः ।अमातृपितृपक्षाणि शिशुकानि ददर्श ह ॥४५॥तानि तत्र तथा भूमौ शमीको भगवान् मुनिः ।दृष्ट्वा स विस्मयाविष्टः प्रोवाचानुगतान् द्विजान् ॥४६॥सम्यगुक्तं द्विजाग्य्रेण शुक्रेणोशनसा स्वयम् ।पलायनपरं दृष्ट्वा दैत्यसैन्यं सुरार्दितम् ॥४७॥न गन्तव्यं निवर्तध्वं कस्माद् व्रजथ कातराः ।उत्सृज्य शौर्ययशसी क्व गता न मरिष्यथ ॥४८॥नश्यतो युध्यतो वापि तावद्भवति जीवितम् ।यावद्धातासृजत् पूर्वं न यावन्मनसेप्सितम् ॥४९॥एके म्रियन्ते स्वगृहे पलायन्तोऽपरे जनाः ।भुञ्जन्तोऽन्नं तथैवापः पिबन्तो निधनं गताः ॥५०॥विलासिनस्तथैवान्ये कामयाना निरामयाः ।अविक्षताङ्गाः शस्त्रैश्च प्रेतराजवशङ्गताः ॥५१॥अन्ये तपस्यभिरता नीताः प्रेतनृपानुगैः ।योगाभ्यासे रताश्चान्ये नैव प्रापुरमृत्युताम् ॥५२॥शम्बराय पुरा क्षिप्तं वज्रं कुलिशपाणिना ।हृदयेऽभिहतस्तेन तथापि न मृतोऽसुरः ॥५३॥तेनैव खलु वज्रेण तेनैनेन्द्रेण दानवाः ।प्राप्ते काले हता दैत्यास्तत्क्षणान्निधनं गताः ॥५४॥विदित्वैवं न सन्त्रासः कर्तव्यो विनिवर्तते ।ततो निवृत्तास्ते दैत्यास्त्यक्त्वा मरणजं भयम् ॥५५॥इति शुक्रवचः सत्यं कृतमेभिः खगोत्तमैः ।ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे ॥५६॥क्वाणाडानां पतनं विप्राः क्व घण्टापतनं समम् ।क्व च मांस-वसा-रक्तैर्भूमेरास्तरणक्रियाः ॥५७॥केऽप्येते सर्वथा विप्रा नैते सामान्यपक्षिणः ।दैवानुकूलता लोके महाभाग्यप्रदर्शिनी ॥५८॥एवमुक्त्वा स तान् वीक्ष्य पुनर्वचनमब्रवीत् ।निवर्तताश्रमं यात गृहीत्वा पक्षिबालकान् ॥५९॥मार्जाराखुभयं यत्र नैषामण्डजजन्मनाम् ।श्येनतो नकुलाद्वापि स्थाप्यन्तां तत्र पक्षिणः ॥६०॥द्विजाः किं वातियत्नेन मार्यन्ते कर्मभिः स्वकैः ।रक्ष्यन्ते चाखिला जीवा यथैते पक्षिबालकाः ॥६१॥तथापि यत्नः कर्तव्यो नरैः सर्वेषु कर्मसु ।कुर्वन् पुरुषकारन्तु वाच्यतां याति नो सताम् ॥६२॥इति मुनिवरचोदितास्ततस्ते मुनितनयाः परिगृह्य पक्षिणस्तान् ।तरुविटपसमाश्रितालिसङ्घं ययुरथ तापसरम्यमाश्रमं स्वम् ॥६३॥स चापि वन्यं मनसाभिकामितं प्रगृह्य मूलं कुसुमं फलं कुशान् ।चकार चक्रायुध-रुद्र-वेधसां सुरेन्द्र-वैवस्वतः जातवेदसाम् ॥६४॥अपाम्पतेर्गोष्पतिवित्तरक्षिणोः समीरणस्यापि तथा द्विजोत्तमाः ।धातुर्विधातुस्त्वथ वैश्वदेविकाः श्रुतिप्रयुक्ता विवधास्तु सत्क्रियाः ॥६५॥इति श्रीमार्कण्डेयपुराणे चटकोत्पत्तिर्नाम द्वितीयोऽध्यायः N/A References : N/A Last Updated : March 13, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP