संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| एकषष्टितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - एकषष्टितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत एकषष्टितमोऽध्यायः Translation - भाषांतर क्रौष्टुकिरुवाचकथितं भवता सम्यग् यत् पृष्टोऽसि महामुने ।भूसमुद्रादिसंस्थानं प्रमाणानि तथा ग्रहाः ॥१॥तेषाञ्चैव प्रमाणञ्च नक्षत्राणाञ्च संस्थितिः ।भूरादयस्तथा लोकाः पातालान्यखिलान्यपि ॥२॥स्वायम्भुवं तथा ख्यातं मुने ! मन्वन्तरं मम ।तदन्तराण्यहं श्रोतुमिच्छे मन्वन्तराणि वै ।मन्वन्तराधिपान् देवानृषींस्तत्तनयान्नृपान् ॥३॥मार्कण्डेय उवाचमन्वन्तरं मयाख्यातं तव स्वायम्भुवं च यत् ।स्वारोचिषाख्यमन्यत् तु शृणु तस्मादनन्तरम् ॥४॥कश्चिद् द्विजातिप्रवरः पुरेऽभूदरुणास्पदे ।वरुणायास्तटे विप्रो रूपेणात्यश्विनावपि ॥५॥मृदुस्वभावः सद्वृत्तो वेदवेदाङ्गपारगः ।सदातिथिप्रियो रात्रावागतानां समाश्रयः ॥६॥तस्य बुद्धिरियं त्वासीदहं पश्ये वसुन्धराम् ।अतिरम्यवनोद्यानां नानानगरशोभिताम् ॥७॥अथागतो।ञतिथिः कश्चित् कदाचित्तस्य वेश्मनि ।नानौषधिप्रभावज्ञो मन्त्रविद्याविशारदः ॥८॥अभ्यर्थितस्तु तेनासौ श्रद्धापूतेन चेतसा ।तस्याचख्यौ स देशांश्च रम्याणि नगराणि च ॥९॥वनानि नद्यः शैलांश्च पुण्यान्यायतनानि च ।स ततो विस्मयाविष्टः प्राह तं द्विजसत्तमम् ॥१०॥अनेकदेशदर्शित्वेनातिश्रमसमन्वितः ।त्वं नातिवृद्धो वयसा नातिवृत्तश्च यौवनात् ।कथमल्पेन कालेन पृथिवीमटसि द्विज ॥११॥ब्राह्मण उवाचमन्त्रौषधिप्रभावेण विप्राप्रतिहता गतिः ।योजनानां सहस्रं हि दिनार्धेन व्रजाम्यम् ॥१२॥मार्कण्डेय उवाचततः स विप्रस्तं भूयः प्रत्युवाचेदमादरात् ।श्रद्धधानो वचस्तस्य ब्राह्मणस्य विपश्चितः ॥१३॥मम प्रसादं भगवन् ! कुरु मन्त्रप्रभावजम् ।द्रष्टुमेतां मम महीमतीवेच्छा प्रवर्तते ॥१४॥प्रादात् स ब्राह्मणश्चास्मै पादलेपमुदारधीः ।अभिमन्त्रयामास दिशं तेनाख्याताञ्च यत्नतः ॥१५॥तेनानुलिप्तपादोऽथ स द्विजो द्विजसत्तम ।हिमवन्तमगाद् द्रष्टुं नानाप्रस्त्रवणान्वितम् ॥१६॥सहस्रं योजनानां हि दिनार्धेन व्रजामि यत् ।आयास्यामीति सञ्चिन्त्य तदर्धेनापरेण हि ॥१७॥सम्प्राप्तो हिमवत्पृष्ठं नातिश्रान्ततनुर्द्विज ।विचचार ततस्तत्र तुहिनाचलभूतले ॥१८॥पादाक्रान्तेन तस्याथ तुहिनेन विलीयता ।प्रक्षालितः पादलेपः परमौषधिसम्भः ॥१९॥ततो जडगतिः सोऽथ इतश्चेतश्च पर्यटन् ।ददर्शातिमनोज्ञानि सानूनि हिमभूभृतः ॥२०॥सिद्धगन्धर्वजुष्टानि किन्नराभिरतानि च ।क्रीडाविहाररम्याणि देवादीनामितस्ततः ॥२१॥दिव्याप्सरोगणशतैराकीर्णान्यवलोकयन् ।नातृप्यत द्विजश्रेष्ठः प्रोद्भूतपुलको मुने ॥२२॥क्वचित् प्रस्त्रवणाद् भ्रष्टजलपातमनोरमम् ।प्रनृत्यच्छिखिकेकाभिरन्यतश्च निनादितम् ॥२३॥दात्यूहकोयष्टिकाद्यैः क्वचिच्चातिमनोहरैः ।पुंस्कोकिलकलालापैः श्रुतिहारिभिरन्वितम् ॥२४॥प्रफुल्लतरुगन्धेन वासितानिलवीजितम् ।मुदा युक्तः स ददृशे हिमवन्तं महागिरिम् ॥२५॥दृष्ट्वा चैतं द्विजसुतो हिमवन्तं महाचलम् ।श्वो द्रक्ष्यामीति संचिन्त्य मतिञ्चक्रे गृहं प्रति ॥२६॥विभ्रष्टपादलेपोऽथ चिरेण जडितक्रमः ।चिन्तयामास किमिदं मयाज्ञानादनुष्ठितम् ॥२७॥यदि प्रलेपो नष्टो मे विलीनो हिमवारिणा ।शैलोऽतिदुर्गमश्चायं दूरञ्चाहमिहागतः ॥२८॥प्रयास्यामि क्रियाहानिमग्निशुश्रूषणादिकम् ।कथमत्र करिष्यामि सङ्कटं महदागतम् ॥२९॥इदं रम्यमिदं रम्यमित्यस्मिन् वरपर्वते ।शक्तदृष्टिरहं तृप्तिं न यास्येऽब्दशतैरपि ॥३०॥किन्नराणां कलालापाः समन्ताच्छ्रोत्रहारिणः ।प्रफुल्लतरुगन्धांश्च घ्राणमत्यन्तमृच्छति ॥३१॥सुखस्पर्शस्तथा वायुः फलानि रसवन्ति च ।हरन्ति प्रसभं चेतो मनोज्ञानि सरांसि च ॥३२॥एवं गते तु पश्येयं यदि कञ्चित् तपोनिधिम् ।स ममोपदिशेन्मार्गं गमनाय गृहं प्रति ॥३३॥मार्कण्डेय उवाचस एवं चिन्तयन् विप्रो बभ्राम च हिमाचले ।भ्रष्टपादौषधिबलो वैक्लवं परमं गतः ॥३४॥तं ददर्श भ्रमन्तञ्च मुनिश्रेष्ठं वरूथिनी ।वराप्सरा महाभागा मौलेया रूपशालिनी ॥३५॥तस्मिन् दृष्टे ततः साभूद् द्विजवर्ये वरूथिनी ।मदनाकृष्टहृदया सानुरागा हि तत्क्षणात् ॥३६॥चिन्तयामास को न्वेष रमणीयतमाकृतिः ।सफलं मे भवेज्जन्म यदि मां नावमन्यते ॥३७॥अहोऽस्य रूपमाधुर्यमहोऽस्य ललिता गतिः ।अहो गम्भीरता दृष्टेः कुतोऽस्य सदृशो भुवि ॥३८॥दृष्टा देवास्तथा दैत्याः सिद्धगन्धर्वपन्नगाः ।कथमेकोऽपि नास्त्यस्य तुल्यरूपो महात्मनः ॥३९॥यथाहमस्मिन्मय्येष सानुरागस्तथा यदि ।भवेदत्र मया कार्यस्तत्कृतः पुण्यसञ्चयः ॥४०॥यद्येष मयि सुस्त्रिग्धां दृष्टिमद्य निपातयेत् ।कृतपुण्या न मत्तोऽन्या त्रैलोक्ये वनिता ततः ॥४१॥मार्कण्डेय उवाचएवं सञ्चिन्तयन्ती सा दिव्ययोषित् स्मरातुरा ।आत्मानं दर्शयामास कमनीयतराकृतिम् ॥४२॥तान्तु दृष्ट्वा द्विजसुतश्चारुरूपां वरूथिनीम् ।सोपचारं समागम्य वाक्यमेतदुवाच ह ॥४३॥का त्वं कमलगर्भाभे कस्य किं वानुतिष्ठसि ।ब्राह्मणोऽहमिहायातो नगरादरुणास्पदात् ॥४४॥पादलेपोऽत्र मे ध्वस्तो विलीनो हिमवारिणा ।यस्यानुभावादत्राहमागतो मदिरेक्षणे ॥४५॥वरूथिन्युवाचमौलेयाहं महाभागा नाम्ना ख्याता वरूथिनी ।विचरामि सदैवात्र रमणीये महाचले ॥४६॥साहं त्वद्दर्शनाद्विप्र ! कामवक्तव्यताङ्गता ।प्रशाधि यन्मया कार्यं त्वदधीनास्मि साम्प्रतम् ॥४७॥ब्राह्मण उवाचयेनोपायेन गच्छेयं निजगेहं शुचिस्मिते ।तन्ममाचक्ष्व कल्याणि हानिर्नोऽखिलकर्मणाम् ॥४८॥नित्यनैमित्तिकानान्तु महाहानिर्द्विजन्मनः ।भवत्यतस्त्वं हे भद्रे ! मामुद्धर हिमालयात् ॥४९॥प्रशस्यते न प्रवासो ब्राह्मणानां कदाचम ।अपराद्धं न मे भीरु देशदर्शनकौतुकम् ॥५०॥सतो गृहे द्विजाग्र्यस्य निष्पत्तिः सर्वकर्मणाम् ।नित्यनैमित्तिकानाञ्च हानिरेवं प्रवासिनः ॥५१॥सा त्वं किं बहुनोक्तेन तथा कुरु यशस्विनि ।यथा नास्तं गेत सूर्ये पश्यामि निजमालयम् ॥५२॥वरूथिन्युवाचमैवं ब्रूहि महाभाग ! मा भूत्स दिवसो मम ।मां परित्यज्य यत्र त्वं निजगेहमुपैष्यसि ॥५३॥अहो रम्यतरः स्वर्गो न यतो द्विजनन्दन ।अतो वयं परित्यज्य तिष्ठामोऽत्र सुरालयम् ॥५४॥स त्वं सह मया कान्त ! कान्तेऽत्र तुहिनाचले ।रममाणो न मर्त्यानां बान्धवानां स्मरिष्यसि ॥५५॥स्त्रजो वस्त्राण्यलङ्कारान् भोगभोज्यानुलेपनम् ।दास्याम्यत्र तथाहन्ते स्मरेण वशगा हृता ॥५६॥वीणावेणुस्वनं गीतं किन्नराणां मनोरमम् ।अङ्गाह्लादकरो वायुरुष्णान्नमुदकं शुचि ॥५७॥मनोभिलषिता शय्या सुगन्धमनुलेपनम् ।इहासतो महाभाग गृहे किन्ते निजेऽधिकम् ॥५८॥इहासतो नैव जरा कदाचित्ते भविष्यति ।त्रिदशानामियं भूमिर्यौवनोपचयप्रदा ॥५९॥इत्युक्त्वा सानुरागा सा सहसा कमलेक्षणा ।आलिलिङ्ग प्रसीदेति वदन्ती कलमुन्मनाः ॥६०॥ब्राह्मण उवाचमा मां स्प्राक्षीर्व्रजान्यत्र दुष्टे यः सदृशस्तव ।मयान्यथा याचिता त्वमन्यथैवाप्युपैषि माम् ॥६१॥सायं प्रातर्हुतं हव्यं लोकान् यच्छति शाश्वतान् ।त्रैलोक्यमेतदखिलं मूढे इव्ये प्रतिष्ठितम् ॥६२॥वरूथिन्युवाचकिं ते नाहं प्रिया विप्र ! रमणीयो न किं गिरिः ।गन्धर्वान् किन्नरादींश्च त्यक्त्वाभीष्टो हि कस्तव ॥६३॥निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।स्वल्पकालं मया सार्धं भुङ्क्षव भोगान् सुदुर्लभान् ॥६४॥ब्राह्मण उवाचअष्टावात्मगुणा ये हि तेषामादौ दया द्विज ।तां करोषि कथं न त्वं मयि सद्धर्मपालक ॥६६॥त्वद्विमुक्ता न जीवामि तथा प्रीतिमती त्वयि ।नैतद्वदाम्यहं मिथ्या प्रसीद कुलनन्दन ॥६७॥ब्राह्मण उवाचयदि प्रीतिमती सत्यं नोपचाराद्ब्रवीषि माम् ।तदुपायं समाचक्ष्व येन यामि स्वमालयम् ॥६८॥वरूथिन्युवाचनिजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।स्वल्पकालं मया सार्धं भुङ्क्ष्व भोगान् सुदुर्लभान् ॥६९॥ब्राह्मण उवाचन भोगार्थाय विप्राणां शस्यते हि वरूथिनी ।इह क्लेशाय विप्राणां चेष्टा प्रेत्याफलप्रदा ॥७०॥वरूथिन्युवाचसन्त्राणं म्रियमाणाया मम कृत्वा परत्र ते ।पुण्यस्यैव फलं भावि भोगाश्चान्यत्र जन्मनि ॥७१॥एवं च द्वयमप्यत्र तवोपचयकारणम् ।प्रत्याख्यानादहं मृत्युं त्वञ्च पापमवाप्स्यसि ॥७२॥ब्राह्मण उवाचपरस्त्रियं नाभिलषेदित्युचुर्गुरवो मम ।तेन त्वां नाभिवाञ्छामि कामं विलप शुष्य वा ॥७३॥मार्कण्डेय उवाचइत्युक्त्वा स महाभागः स्पृष्ट्वापः प्रयतः शुचिः ।प्राहेदं प्रणिपत्याग्निं गार्हपत्यमुपांशुना ॥७४॥भगवन् ! गार्हपत्याग्ने योनिस्त्वं सर्वकर्मणाम् ।त्वत्त आहवनीयोऽग्निर्दक्षिणाग्निश्च नान्यतः ॥७५॥युष्मदाप्यायनाद् देवा वृष्टिशस्यादिहेतवः ।भवन्ति शस्यादखिलं जगद्भवति नान्यतः ॥७६॥एवं त्वत्तो भवत्येतद्येन सत्येन वै जगत् ।तथाहमद्य स्वं गेहं पश्येयं सति भास्करे ॥७७॥यथा वै वैदिकं कर्म स्वकाले नोज्झितं मया ।तेन सत्येन पश्येयं गृहस्थोऽद्य दिवाकरम् ॥७८॥यथा च न परद्रव्ये परदारे च मे मतिः ।कदाचित् साभिलाषाभूत्तथैतत् सिद्धिमेतु मे ॥७९॥इति श्रीमार्कण्डेयपुराणेठब्राह्मणवाक्यम्ऽ नामैकषष्टितमोऽध्यायः N/A References : N/A Last Updated : March 26, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP