संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
पञ्चनवतितमोऽध्यायः

मार्कण्डेयपुराणम् - पञ्चनवतितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मालिनीपरिणयवर्णनम्
मार्कण्डेय उवाच
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा ।
प्रम्लोचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥१॥
सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ।
प्रश्रयावनता सुभूः प्रम्लोचा वै वराप्सराः ॥२॥
अतीव रूपिणी कन्या मत्सुता तपतां वर ।
जाता वरुणपुत्रेण पुष्करेण महात्मना ॥३॥
तां गृहाण मया दत्तां भार्यार्थे वरवर्णिनीम् ।
मनुर्महामतिस्तस्यां समुत्पस्यति ते सुतः ॥४॥
मार्कण्डेय उवाच
तथेति तेन साऽप्युक्ता तस्मात्तोयाद्वपुष्मतीम् ।
उज्जहार ततः कन्यां मालिनी नाम नामतः ॥५॥
नद्याश्च पुलिने तस्मिन्स रुचिर्मुनिसत्तमः ।
जग्राह पाणिं विधिवत्समानाय्य महामुनीन् ॥६॥
तस्यां तस्य सुतो जज्ञे महावीर्यो महामतिः ।
रौच्योऽभवत्पितुर्नाम्ना ख्यातोऽत्र वसुधातले ॥७॥
तस्य मन्वन्तरे देवास्तथा सप्तर्षयश्च ये ।
तनयाश्च नृपाश्चैव ते सम्यक्कथितास्तव ॥८॥
धर्मवृद्धिस्तथारोग्यं धनधान्यसुतोद्भवः ।
नृणां भवत्यसन्दिग्धमस्मिन्मन्वन्तरे श्रुते ॥९॥
पितृस्तवं तथा श्रुत्वा पितॄणां च तथा गणान् ।
सर्वान्कामानवाप्नोति तत्प्रसादान्महामुने ॥१०॥
इति श्रीमार्कण्डेयपुराणे मालिनीपरिणयो नाम पञ्चनवतितमोऽध्यायः । ९५ ।
इति रौच्यमन्वन्तरं समाप्तम् ॥

N/A

References : N/A
Last Updated : March 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP