संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| द्व्यशीतितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - द्व्यशीतितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत द्व्यशीतितमोऽध्यायः Translation - भाषांतर ऋषिरुवाचदेवासुरमभूद् युद्धं पूर्णमब्दशतं पुरा ।महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥१॥तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥२॥ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।पुरस्कृत्य गतास्तत्र यत्रेश-गरुडध्वजौ ॥३॥यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥४॥सूर्येन्द्रग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठिति ॥५॥स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥६॥एतद्वः कथितं सर्वममरारिविचेष्टितम् ।शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥७॥ऋषिरुवाचइत्थं निशम्य देवानां वचांसि मधुसूदनः ।चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥८॥ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ।निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥९॥अन्येषाञ्चैव देवानां शक्रादीनां शरीरतः ।निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥१०॥अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् ।ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥११॥अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ।एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥१२॥यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।याम्येन चाभवन् केशा बहवो विष्णुतेजसा ॥१३॥सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥१४॥ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा ।वसूनाञ्च कराङ्गुल्यः कौबेरेण च नासिका ॥१५॥तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा ।नयनत्रितयं जज्ञे तथा पावकतेजसा ॥१६॥भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च ।अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥१७॥ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ।तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ॥१८॥ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ।ऊचुर्जयजयेत्युच्चैर्जयन्तीं ते जयैषिणः ॥१९॥शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।चक्रं च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः ॥२०॥शङ्खञ्च वरुणः शक्तिं ददौ तस्यै हुताशनः ।मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥२१॥वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः ।ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात् ॥२२॥कालदण्डाद्यमो दण्डं माशं चाम्बुपतिर्ददौ ।प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥२३॥समस्तरोमकूपेषु निजरश्मीन् दिवाकरः ।कालख्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् ॥२४॥क्षीरोदश्चामलं हारमजरे च तथाम्बरे ।चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥२५॥अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ।अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च ॥२६॥विश्वकर्मा ददौ तस्यै परशुञ्चातिनिर्मलम् ।अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ॥२७॥अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ।अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ॥२८॥हिमवान् वाहनं सिंहं रत्नानि विविधानि च ।ददावशून्यं सुरया पानपात्रं धनाधिपः ॥२९॥शेषश्च सर्वनागेशो महामणिविभूषितम् ।नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ॥३०॥अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ।संमानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ॥३१॥तस्या नादेन घोरेण कृत्स्त्रमापूरितं नभः ।अमायतातिमहता प्रतिशब्दो महानभूत् ॥३२॥चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ।चचाल वसुधा चेलुः सकलाश्च महीधराः ॥३३॥जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ।तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ॥३४॥दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः ।सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ॥३५॥आः किमेतदिति क्रोधादाभाष्य महिषासुरः ।अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ॥३६॥स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ।पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ॥३७॥क्षोभिताशेषपातालां धनुर्ज्यानिः स्वनेन ताम् ।दिशो भुजसहस्रेण समन्ताद् व्याप्य संस्थिताम् ॥३८॥ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ।शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ॥३९॥महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ।युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ॥४०॥रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ।अयुध्यतायुतानाञ्च सहस्रेण महाहनुः ॥४१॥पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ।अयुतानां शतैः षड्भिर्वाष्कलो युयुधे रणे ॥४२॥गजवाजिसहस्रौघैरनेकैरुग्रदर्शनः ।वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ॥४३॥बिडालाक्षोऽयुतानाञ्च पञ्चाशद्भिरथायुतैः ।युयुधे संयुगे तत्र रथानां परिवारितः ॥४४॥वृतः कालो रथानाञ्च रणे पञ्चाशतायुतैः ।युयुधे संयुगे तत्र तावद्भिः परिवारितः ॥४५॥अन्ये च तत्रायुतशो रथनागहयैर्वृताः ।युयुधुः संयुगे देव्या सह तत्र महासुराः ॥४६॥कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ।हयानाञ्च वृतो युद्धे तत्राभून्महिषासुरः ॥४७॥तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ।युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः ॥४८॥केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ।देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ॥४९॥सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ।लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ॥५०॥अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ।मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ॥५१॥सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी ।चचारासुरसैन्येषु वनेष्विव हुताशनः ॥५२॥निश्वसान्मुमुचे यांश्च युध्यमाना रणेऽम्बिका ।त एव सद्यः सम्भूता गणाः शतसहस्रशः ॥५३॥युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ।नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः ॥५४॥अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ।मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ॥५५॥ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ।शड्गादिभिश्च शतशो निजघान महासुरान् ॥५६॥पातयामास चैवान्यान् घण्टास्वनविमोहितान् ।असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् ॥५७॥केचिद् द्विधा कृतास्तीक्ष्णैः खड्गपातैस्तथापरे ।विपोथिता निपातेन गदया भुवि शेरते ॥५८॥वेमुश्च केचिद्रुधिरं मुसले भृशं हताः ।केचिन्नपातिता भूमौ भिन्नाः शूलेन वक्षसि ॥५९॥निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ।शैलानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः ॥६०॥केषाञ्चिद्वाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ।शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ॥६१॥विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ।एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः ॥६२॥छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ।कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ॥६३॥ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ।कबन्धाश्छिन्नखिरसः खड्ग-शक्त्यृष्टिपाणयः ॥६४॥तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः।रुधिरौघविलुप्ताङ्गाः संग्रामे लोमहर्षणे ॥६५॥पातितै रथनागाश्वैरसुरैश्च वसुन्धरा ।अगम्या साभवत् तत्र यत्राभूत् स महारणः ॥६६॥शोणितौघा महानद्यः सद्यस्तत्र विसुस्त्रुवुः ।मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥६७॥क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥६८॥स च सिंहो महानादमुत्सृजन् धुतकेसरः ।शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥६९॥देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः ।यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥७०॥इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्व्यशीतितमोऽध्यायः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP