संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| पञ्चत्रिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - पञ्चत्रिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत पञ्चत्रिंशोऽध्यायः Translation - भाषांतर मदालसोवाचअतः परं शृणुष्व त्वं वर्ज्यावर्ज्यप्रतिक्रियाम् ।भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसंभृतम् ॥१॥अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः ।शशकः कच्छपो गोधा श्वावित् खड्गोऽथ पुत्रक ॥२॥भक्ष्या ह्येते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ।पितृदेवादिशेषश्च श्राद्धे ब्राह्मणकाम्यया ॥३॥प्रोक्षितञ्चौषधार्थञ्च खादन्मांसं न दुष्यति ।शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् ॥४॥शाकमूलफलानाञ्च तथा विदलचर्मणाम् ।मणिवज्रप्रवालानान्तथा मुक्ताफलस्य च ॥५॥गात्राणाञ्च मनुष्याणामम्बुना शौचमिष्यते ।यथायसानां तोयेन ग्राव्णः सङ्घर्षणेन च ॥६॥सस्त्रेहानाञ्च भाण्डानां शुद्धिरुष्णेन वारिणा ।शूर्पधान्याजिनानाञ्च मुषलोलूखलस्य च ॥७॥संहतानाञ्च वस्त्राणां प्रोक्षणात् सञ्चयस्य च ।वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते ॥८॥तृणकाष्ठौषधीनाञ्च प्रोक्षणात् शुद्धिरिष्यते ।आविकानां समस्तानां केशानाञ्चापि मेध्यता ॥९॥सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।साम्बुना तात ! भवति उपघातवतां सदा ॥१०॥तथा कार्पासिकानाञ्च विशुद्धिर्जलभस्मना ।दारुदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते ॥११॥पुनः पाकेन भाण्डानां पार्थिवानाञ्च मेध्यता ।शुचिर्भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा ॥१२॥रथ्यागतमविज्ञातं दासवर्गादिनाहृतम् ।वाक्रप्रशास्तं चिरातीतमनेकान्तरितं लघु ॥१३॥अतिप्रभूतं बालञ्च वृद्धातुरविचेष्टितम् ।कर्मान्ताङ्गाराशालाश्च स्तनन्धयसुताः स्त्रियः ॥१४॥शुचिन्यश्च तथैवापः स्त्रन्त्योऽगन्धबुद्बुदाः ।भूमिर्विशुध्यते कालाद्दाहमार्जनगोक्रमैः ॥१५॥लेपादुल्लेखनात् सेकाद्वेश्मसंमार्जनार्चनात् ।केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥१६॥मृदम्बुभस्मना तात ! प्रोक्षितव्यं विशुद्धये ।औदुम्बराणामम्लेन क्षारेण त्रपुसीसयोः ॥१७॥भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावाद् द्रवस्य च ।अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ॥१८॥अन्येषाञ्चैव तद्द्रव्यैर्वर्णगन्धापहारतः ।शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ॥१९॥तथा मांसञ्च चण्डालक्राव्यादादिनिपातितम् ।रथ्यागतञ्च चेलादि तात ! वातात् शुचि स्मृतम् ॥२०॥रजोऽग्निरश्वो गौश्छाया रश्मयः पवनो मही ।विप्रुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः ॥२१॥अजाश्वौ मुखतो मेध्यौ न गोर्वत्सस्य चाननम् ।मातुः प्रस्त्रवणं मेध्यं शकुनिः फलपातने ॥२२॥आसनं शयनं यानं नावः पथि तृणानि च ।सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् ॥२३॥रथ्यावसर्पण-स्त्रान-क्षुत्पान-म्लानकर्मसु ।आचामेत यथान्यायं वासो विपरिधाय च ॥२४॥स्पृष्टानामप्यसंसर्गैर्विरथ्याकर्दमाम्भसाम् ।पक्वेष्टरचितानाञ्च मेध्यता वायुसङ्गमात् ॥२५॥प्रभूतोपहतादन्नादग्रमुद्धृत्य सन्त्यजेत् ।शेषस्य प्रोक्षणं कुर्यादाचम्यादिभस्तथा मृदा ॥२६॥उपवासस्त्रिरात्रन्तु दुष्टभक्ताशिनो भवेत् ।अज्ञाते ज्ञानपूर्वन्तु तद्दोषोपशमेन तु ॥२७॥उदक्याश्वशृगालादीन् सूतिकान्त्यावसायिनः ।स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥२८॥नारं स्पृष्ट्वास्थि सस्त्रेहं स्त्रातः शुध्यति मानवः ।आचम्यैव तु निः स्त्रेहं गामालभ्यार्कमीक्ष्य वा ॥२९॥न लङ्घयेत् तथैवासृक्ष्ठीवनोद्वर्तनानि च ।नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन ॥३०॥न चालपेज्जनद्विष्टां वीरहीनान्तथा स्त्रियम् ।गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्वहिः ॥३१॥पञ्च पिण्डाननुधृत्य न स्त्रायात् परवारिणि ।स्त्रायीत देवखातेषु गङ्गा-ह्रदृसरित्सु च ॥३२॥देवता-पितृ-सच्छास्त्र-यज्ञ-मन्त्रादिनिन्दकैः ।कृत्वा तु स्पर्शनालापं शुध्येतार्कावलोकनात् ॥३३॥अवलोक्य तथोदक्यामन्त्यजं पतितं शवम् ।विधर्मि-सूतिका-षण्ड-विवस्त्रान्त्यावसायिनः ॥३४॥सूतनिर्यातकांश्चैव परदाररताश्च ये ।एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः ॥३५॥अभोज्यं सूतिका-षण्ड-मार्जाराखुश्वकुक्कुटान् ।पतिताविद्धचण्डाल-मृतहारांश्च धर्मवित् ॥३६॥संस्पृश्य शुध्यते स्त्रानादुदक्या ग्रामशूकरौ ।तद्वच्च सूतिकाशौचदूषितौ पुरुषावपि ॥३७॥यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः ।यश्च ब्राह्मणसन्त्यक्तः किल्विषी स नराधमः ॥३८॥नित्यस्य कर्मणो हानिं न कुर्वोत कदाचन ।तस्य त्वकरणे बन्धः केवलं मृतजन्मसु ॥३९॥दशाहं ब्राह्मणस्तिष्ठेद्दानहोमादिवर्जितः ।क्षत्रियो द्वादशाहञ्च वैश्यो मासार्धमेव च ॥४०॥शूद्रस्तु मासमासीत निजकर्मविवर्जितः ।ततः परं निजं कर्म कुर्युः सर्वे यथोदितम् ॥४१॥प्रोताय सलिलं देयं बहिर्दग्ध्वा तु गोत्रिकैः ।प्रथमेऽह्नि चतुर्थे च सप्तमे नवमे तथा ॥४२॥भस्मास्थिचयनं कार्यं चतुर्थे गोत्रिकैर्दिने ।उर्ध्वं संचयनात् तेषामङ्गस्पर्शो विधीयते ॥४३॥सोदकैस्तु क्रियाः सर्वाः कार्याः संचयनात्परम् ।स्पर्श एव सपिण्डानां मृताहनि तथोभयोः ॥४४॥अन्वेकमृक्षमाशस्त्र-तोयोद्बन्धन-वह्निषु ।विषप्रपातादिमृते प्रायोनाशकयोरपि ॥४५॥बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ।सद्यः शौचमथान्यैश्च त्र्यहमुक्तमशौचकम् ॥४६॥सपिण्डानां सपिण्डस्तु मृतेऽन्यस्मिन्मृतो यदि ।पूर्वाशौचसमाख्यातैः कार्यास्त्वत्र दिनैः क्रियाः ॥४७॥एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके ।सपिण्डानां सपिण्डेषु यथावत्सोदकेषु च ॥४८॥जाते पुत्रे पितुः स्त्रानं सचेलन्तु विधीयते ।तत्रापि यदि चान्यस्मिन् जाते जायेत चापरः ॥४९॥तत्रापि शुद्धिरुद्दिष्टा पूर्वजन्मवतो दिनैः ।दशद्वादशमासार्ध-माससंख्यैर्दिनैर्गतैः ॥५०॥स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ।प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टं ततः परम् ॥५१॥दाननि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ।यद्यदिष्टतमं लोके यच्चापि ययितं गृहे ॥५२॥तत्तद् गुणवते देयं तदेवाक्षयमिच्छता ।पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधम् ॥५३॥प्रतोददण्डौ च तथा सम्यग्वर्णाः कृतक्रियाः ।स्ववर्णधर्मनिर्दिष्टमुपादानं तथा क्रियाः ॥५४॥कुर्युः समस्ताः शुचिनः परत्रेह च भूतिदाः ।अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥५५॥धर्मतो धनमाहार्यं यष्टव्यञ्चापि यत्नतः ।यच्चापि कुर्वतो नात्मा जुगुप्सामेति पुत्रक ! ॥५६॥तत्कर्तव्यमशङ्केन यन्न गोप्यं महाजने ।एवमाचरतो वत्स ! पुरुषस्य गृहे सतः ।धर्मार्थकामसंप्राप्त्या परत्रेह च शोभनम् ॥५७॥इति श्रीमार्कण्डेयपुराणेऽलर्कानुशासने वर्ज्यावर्ज्यनामा पञ्चत्रिंशोऽध्यायः N/A References : N/A Last Updated : March 21, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP