संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| सप्तपञ्चाशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - सप्तपञ्चाशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत सप्तपञ्चाशोऽध्यायः Translation - भाषांतर क्रौष्टुकिरुवाचभगवन् ! कथितन्त्वेतज्जम्बूद्वीपं समासतः ।यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् ॥१॥पापाय वा महाभाग ! वर्जयित्वा तु भारतम् ।इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तञ्च गम्यते ॥२॥न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ।तस्माद्विस्तरशो ब्रह्मन् ! ममैतद्भारतं वद ॥३॥ये चास्य भेदा यावन्तो यथावत् स्थितिरेव च ।वर्षोऽयं द्विजशार्दूल ! ये चास्मिन् देशपर्वताः ॥४॥मार्कण्डेय उवाचभारतस्यास्य वर्षस्य नव भेदान्निबोध मे ।समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥५॥इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् ।नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥६॥अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ।योजनानां हसस्त्रं वै द्वीपोऽयं दक्षिणोत्तरात् ॥७॥पूर्वे किराता यस्यान्ते पश्चिमे यवनास्तथा ।ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्तः स्थिता द्विज ॥८॥इज्याध्यायवणिज्याद्यैः कर्मभिः कृतपावनाः ।तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥९॥स्वर्गापवर्गप्राप्तिश्च पुण्यं पापञ्च वै तदा ।महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥१०॥विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः ।तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥११॥विस्तारोच्छ्रयिणो रम्या विपुलाश्चात्र सानवः ।कोलाहलः सवैभ्राजो मन्दरो दर्दुराचलः ॥१२॥वातस्वनो वैद्युतश्च मैनाकः स्वरसस्तथा ।तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचलः ॥१३॥पुष्पो गिरिर्दुर्जयन्तो रैवतोर्ऽबुद एव च ।ऋष्यमूकः सगोमन्तः कूटशैलः कृतस्मरः ॥१४॥श्रीपर्वतश्चकोरश्च शतशोऽन्ये च पर्वताः ।तैर्विमिश्रा जनपदा म्लेच्छाश्चार्याश्च भागशः ॥१५॥तैः पीयन्ते सरित्श्रेष्ठा यास्ताः सम्यङ्निबोध मे ।गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥१६॥यमुना च शतद्रुश्च वितस्तेरावती कुहुः ।गोमती धूतपापा च बाहुदा सदृशद्वती ॥१७॥विपाशा देविका रङ्क्षुर्निश्चीरा गण्डकी तथा ।कौशिकी चापगा विप्र ! हिमवत्पादनिः सृताः ॥१८॥वेदस्मृतिर्वेदवती वृत्रघ्री सिन्धुरेव च ।वेण्वा सानन्दनी चैव सदानीरा मही तथा ॥१९॥पारा चर्मण्वती नूपी विदिशा वेत्रवत्यपि ।शिप्रा ह्यवर्णो च तथा पारियात्राश्रयाः स्मृताः ॥२०॥शोणो महानदश्चैव नर्मदा सुरथाद्रिजा ।मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥२१॥चित्रोत्पला सतमसा करमोदा पिशाचिका ।तथान्या पिप्पलिश्रोणिर्विपाशा वञ्जुला नदी ॥२२॥सुमेरुजा शुक्तिमती शकुली त्रिदिवाक्रमुः ।(विन्ध्य) (स्कन्ध) पादप्रसूता वै तथान्या वेगवाहिनी ॥२३॥शिप्रा पयोष्णी निर्विन्ध्या तापी सनिषधावती ।वेण्या वैतरणी चैव सिनीवाली कुमुद्वती ॥२४॥करतोया महागौरी दुर्गा चान्तः शिरा तथा ।(ऋक्ष) (विन्ध्य) पादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥२५॥गोदावरी भीमरथा कृष्णा वेण्या तथापरा ।तुङ्गभद्रा सुप्रयोगा वाह्या कावेर्यथापगा ॥२६॥(सह्य) (विन्ध्य) पादविनिष्क्रान्ता इत्येताः सरिदुत्तमाः ।कृतमाला ताम्रपर्णो पुष्पजा सूत्पलावती ॥२७॥मलयाद्रिसमुद्भूता नद्यः शीतजलास्त्विमाः ।पितृसोमर्षिकुल्या च इक्षुका त्रिदिवा च या ॥२८॥लाङ्गूलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ।ऋषिकुल्या कुमारी च मन्दगा मन्दवाहिनी ॥२९॥कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ।सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥३०॥विश्वस्य मातरः सर्वाः सर्वपापहराः स्मृताः ।अन्याः सहस्रशश्चोक्ताः क्षुद्रनद्यो द्विजोत्तम॥ ३१॥प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः ।मत्स्याश्वकूटाः कुल्याश्च कुन्तलाः काशिकोशलाः ॥३२॥अथर्वाश्चार्कलिङ्गाश्च मलकाश्च वृकैः सह ।मध्यदेश्या जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥३३॥सह्यस्य चोत्तरे या तु यत्र गोदावरी नदी ।पृथिव्यामपि कृतस्त्रायां स प्रदेशो मनोरमः ॥३४॥गोवर्धनं पुरं रम्यं भार्गवस्य महात्मनः ।वाह्लीका वाटधानाश्च आभीराः कालतोयकाः ॥३५॥अपरान्ताश्च शूद्राश्च पल्लवाश्चर्मखण्डिकाः ।गान्धारा गबलाश्चैव सिन्धुसौवीरमद्रकाः ॥३६॥शतद्रुजाः कलिङ्गाश्च पारदा हालमूषिकाः ।माठरा बहुभद्राश्च कैकेया दशमालिकाः ॥३७॥क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।काम्बोजा दरदाश्चैव वर्वरा हर्षवर्धनाः ॥३८॥चीनाश्चैव तुखाराश्च बहुला बाह्यतोनराः ।आत्रेयाश्च भरद्वाजाः पुष्कलाश्च कशेरुकाः ॥३९॥लम्पाकाः शूलकाराश्च चूलिका जागुडैः सह ।औषधाश्चानिमद्राश्च किरातानाञ्च जातयः ॥४०॥तामसा हंसमार्गाश्च काश्मीरास्तुङ्गनास्तथा ।शूलिकाः कुहकाश्चैव ऊर्णा दर्वास्तथैव च ॥४१॥एते देशा ह्युदीच्यास्तु प्राच्यान्देशान्निबोध मे ।अध्रारका मुदकरा अन्तर्गिर्या बहिर्गिराः ॥४२॥यथा प्रवङ्गा रङ्गेया मानदा मानवर्तिकाः ।ब्राह्मोत्तराः प्रविजया भार्गवा ज्ञेयमल्लकाः ॥४३॥प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः ।मल्ला मगधगोमन्ताः प्राच्या जनपदाः स्मृताः ॥४४॥अथापरे जनपदा दक्षिणापथवासिनः ।पुण्ड्राश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥४५॥शैलूषा मूषिकाश्चैव कुसुमा नामवासकाः ।महाराष्ट्रा माहिषका कलिङ्गाश्चैव सर्वशः ॥४६॥आभीराः सह वैशिक्या आढक्याः शबराश्च ये ।पुलिन्दा विन्ध्यमौलेया वैदर्भा दण्डकैः सह ॥४७॥पौरिका मौलिकाश्चैव अश्मका भोगवर्धनाः ।नैषिकाः कुन्तला अन्धा उदिभदा वनदारकाः ॥४८॥दाक्षिणात्यास्त्वमी देशा अपरान्तान् निबोध मे ।सूर्पारकाः कालिबला दुर्गाश्चानीकटैः सह ॥४९॥पुलिन्दाश्च सुमीनाश्च रूपपाः स्वापदैः सह ।तथा कुरुमिनश्चैव सर्वे चैव कठाक्षराः ॥५०॥नासिक्यावाश्च ये चान्ये ये चैवोत्तरनर्मदाः ।भीरुकच्छाः समाहेयाः सह सारस्वतैरपि ॥५१॥काश्मीराश्च सुराष्ट्राश्च अवन्त्याश्चार्बुदैः सह ।इत्येते ह्यपरान्ताश्च शृणु विन्ध्यनिवासिनः ॥५२॥सरजाश्च करूषाश्च केरलाश्चोत्कलैः सह ।उत्तमर्णा दशार्णाश्च भोज्याः किष्किन्धकैः सह ॥५३॥तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ।तुम्बुरास्तुम्बुलाश्चैव पटवो नैषधेः सह ॥५४॥अन्नजास्तुष्टिकाराश्च वीरहोत्रा ह्यवन्तयः ।एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः ॥५५॥अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये ।नीहारा हंसमार्गाश्च कुरवो गुर्गणाः खसाः ॥५६॥कुन्तप्रावरणाश्चैव ऊर्णा दार्वाः सकृत्रकाः ।त्रिगर्ता गालवाश्चैव किरातास्तामसैः सह ॥५७॥कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ।एतत्तु भारतं वर्षं चतुः संस्थानसंस्थितम् ॥५८॥दक्षिणापरतो ह्यस्य पूर्वेण च महोदधिः ।हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः ॥५९॥तदेतद् भारतं वर्षं सर्वबीजं द्विजोत्तम ।ब्रह्मत्वममरेशत्वं देवत्वं मरुतस्तथा ॥६०॥मृगपश्वप्सरोयोनिस्तद्वत् सर्वे सरीसृपाः ।स्थावराणाञ्च सर्वेषामितो ब्रह्मन् ! शुभाशुभैः ॥६१॥प्रयाति कर्मभूर्ब्रह्मन् ! नान्या लोकेषु विद्यते ।देवानामपि विप्रर्षे ! सदा एष मनोरथः ॥६२॥अपि मानुष्यमाप्स्यामो देवत्वात् प्रच्युताः क्षितौ ।मनुष्यः कुरुते तत्तु यन्न शक्यं सुरासुरैः ॥६३॥तत्कर्मनिगडग्रस्तैः स्वकर्मख्यापनोत्सुकः ।न किञ्चित् क्रियते कर्म सुखलेशोपबृंहितैः ॥६४॥इति श्रीमार्कण्डेयपुराणेठनद्यादिवर्णनऽ नाम सप्तपञ्चाशोऽध्यायः N/A References : N/A Last Updated : March 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP