संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| पञ्चविंशत्यधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - पञ्चविंशत्यधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत पञ्चविंशत्यधिकशततमोऽध्यायः Translation - भाषांतर मरुत्तचरित्रवर्णनम्मार्कण्डेय उवाचततः स राजपुत्रस्तमादाय दयितं सुतम् ।पत्नीं चानुगतो विप्र गन्धर्वैराययौ पुरम् ॥१॥स पितुर्भवनं प्राप्य ववन्दे पितुरादरात् ।चरणौ सा च तन्वङ्गी ह्रीमती नृपते सुता ॥२॥तथाह राजपुत्रोऽसौ गृहीत्वा बालकं सुतम् ।धर्मासनगतं भूपं राज्ञां मध्ये करन्धमम् ॥३॥मुखं पौत्रस्य पश्यैतदुत्सङ्गस्थस्य यन्मया ।किमिच्छके प्रतिज्ञातं तुभ्यं मातुः कृते पुरा ॥४॥इत्युक्त्वा पितुरुत्सङ्गे तं कृत्वा तनयं ततः ।यथावृत्तमशेषं स कथयामास तस्य तत् ॥५॥स परिष्वज्य तं पौत्रमानन्दास्राविलेक्षणः ।स भाग्योऽस्मीत्यथात्मानं प्रशशंस पुनः पुनः ॥६॥ततः सोऽर्घ्यादिना सम्यग्गन्धर्वान्समुपागतान् ।सम्मानयामास मुदा विस्मृतान्यप्रयोजनः ॥७॥ततः पुरे महानासीदानन्दः पौरवेश्मसु ।अस्माकं सन्ततिर्जाता नाथस्येति महामुने ॥८॥हृष्टपुष्टे पुरे तस्मिन्गीतवाद्यैर्वराङ्गनाः ।विलासिन्योऽतिचार्वङ्ग्यो ननृतुर्लास्यमुत्तमम् ॥९॥राजा च द्विजमुख्येभ्यो रत्नानि च वसूनि च ।गावो वस्त्राण्यलङ्कारानददाद्धृष्टमानसः ॥१०॥ततः स बालो ववृधे शुक्लपक्षे यथा शशी ।पितॄणां प्रीतिजनको जनस्येष्टश्च सोऽभवत् ॥११॥आचार्याणां सकाशात्स प्राग्वेदाञ्जगृहे मुने ।ततः शास्त्राण्यशेषाणि धनुर्वेदं ततः परम् ॥१२॥कृतोद्योगो यदा सोऽभूत्खड्गकार्मुककर्मणि ।अन्येषु च तथा वीरः शस्त्रेषु विजितश्रमः ॥१३॥ततोऽस्त्राणि स जग्राह भार्गवाद्भृगुसम्भवात् ।विनयावनतो विप्र गुरोः प्रीतिपरायणः ॥१४॥गृहीतास्त्रः कृती वेदे धनुर्वेदस्य पारगः ।निष्णातः सर्वविद्यासु न बभूव ततः परः ॥१५॥विशालोऽपि सुतावार्त्तामुपलभ्याखिलामिमाम् ।हर्षनिर्भरचित्तोऽभूद्दौहित्रस्य च योग्यताम् ॥१६॥अथ राजा सुतसुतं दृष्ट्वा प्राप्तमनोरथः ।यज्ञाननेकान्निष्याद्य दत्त्वा दानानि चार्थिनाम् ॥१७॥कृतशेषक्रियो युक्तः स वर्णेर्धर्मतो महीम् ।परिपाल्यारिविजयी बलबुद्धिसमन्वितः ॥१८॥स यियासुर्वनं पुत्रमविक्षितमभाषत ।पुत्र वृद्धोऽस्मि गच्छामि वनं राज्यं गृहाण मे ॥१९॥कृतकृत्योऽस्मि नास्त्यन्यत्किञ्चित्त्वदभिषेचनात् ।सुनिष्पन्नमतो राज्यं त्वं गृहाण मयार्पितम् ॥२०॥इत्युक्तः पितरं प्राह सोऽविक्षिन्नृपनन्दनः ।प्रश्रयावनतो भूत्वा यियासुस्तपसे वनम् ॥२१॥नाहं तात करिष्यामि पृथिव्याः परिपालनम् ।नापैति ह्रीर्मे मनसि राज्येऽयं त्वं नियोजय ॥२२॥तातेन मोक्षितो बद्धो न स्ववीर्यादहं यतः ।ततः कियत्पौरुषं मे पुरुषैः पाल्यते मही ॥२३॥योऽहं न पालनायालमात्मनोऽपि वसुन्धराम् ।स कथं पालयिष्यामि राज्यमन्यत्र विक्षिप ॥२४॥स स्त्रीसधर्मा पुरुषो यश्चान्येनावद्रुह्यते ।आत्माऽमोहाय भवता बन्धनाद्येन मोक्षितः ॥२५॥सोऽहं कथं भविष्यामि स्त्रीसधर्मा महीपतिः ।स्त्रियः पुमान्भवेद्भर्त्ता य शूरः स महीपतिः ॥२६॥पितोवाचन भिन्न एव पुत्रस्य पिता पुत्रस्तथा पितुः ।नान्येन मोक्षितो वीर यस्त्वं पित्रा विमोक्षितः ॥२७॥पुत्र उवाचहदयं नान्यथा नेतुं मया शक्यं नरेश्वर ।हृदये ह्रीर्ममातीव यस्त्वहं मोक्षितस्त्वया ॥२८॥पित्रोपात्तां श्रियं भुङ्क्ते पित्रा कृच्छ्रात्समुद्धृतः ।विज्ञायते च यः पित्रा मानवः सोऽस्तु नो कुले ॥२९॥स्वयमर्जितवित्तानां ख्यातिं स्वयमुपेयुषाम् ।स्वयं निस्तीर्णकृच्छ्राणां या गतिः साऽस्तु मे गतिः ॥३०॥मार्कण्डेय उवाचइत्याह बहुशः पित्रा यदाप्युक्त्वाऽप्यसौ मुने ।तदा तस्य सुतं राज्ये मरुत्तमकरोन्नृपः ॥३१॥स पित्रा समनुज्ञातं राज्यं प्राप्य पितामहात् ।चकार सम्यक्सुहृदामानन्दमुपपादयन् ॥३२॥राजा करन्धमश्चापि वीरामादाय तां तथा ।वनं जगाम तपसे यतवाक्कायमानसः ॥३३॥तत्र वर्षसहस्रं स तपस्तप्त्वा सुदुश्चरम् ।विहाय देहं नृपतिः शक्रस्याप सलोकताम् ॥३४॥सास्य पत्नी तदा वीरा वर्षाणामपरं शतम् ।तपश्चचार विप्रर्षे जटिलामलपङ्किनी ॥३५॥सालोक्यमिच्छती भर्त्तुः स्वर्गतस्य महात्मनः ।फलमूलकृताहारा भार्गवाश्रमसंश्रया ॥द्विजातिपत्नीमध्यस्था द्विजशुश्रूषणादृता ॥३६॥इति श्रीमार्कण्डेयपुराणे मरुत्तचरिते पञ्चविंशत्यधिकशततमोऽध्यायः । १२५ । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP