संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| अष्टमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - अष्टमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत अष्टमोऽध्यायः Translation - भाषांतर जैमिनिरुवाचभवद्भिरिदमाख्यातं यथाप्रश्नमनुक्रमात् ।महत् कौतूहलं मेऽस्ति हरिश्चन्द्र कथां प्रति ॥१॥अहो महात्मना तेन प्राप्तं कृच्छ्रमनुत्तमम् ।कच्चित् सुखमनुप्राप्तं तादृगेव द्विजोत्तमाः ॥२॥पक्षिण ऊचुःविश्वामित्रवचः श्रुत्वा स राजा प्रययौ शनैः ।शैव्ययानुगतो दुः खी भार्यया बलापुत्रया ॥३॥स गत्वा वसुधापालो दिव्यां वाराणसीं पुरीम् ।नैषा मनुष्यभोग्येति शूलपाणेः परिग्रहः ॥४॥जगाम पद्भ्यां दुः खार्तः सह पत्न्यानुकूलया ।पुरीप्रवेशे ददृशे विश्वामित्रमुपस्थितम् ॥५॥तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ।प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् ॥६॥इमे प्राणाः सुतश्चायमियं पत्नी मुने ! मम ।येन ते कृत्यमस्त्याशु तद्गृहाणार्घ्यमुत्तमम् ॥७॥यद्वान्यत् कार्यमस्माभिस्तदनुज्ञातुमर्हसि ॥८॥विश्वामित्र उवाचपूर्णः स मासो राजर्षे दीयतां मम दक्षिणा ।राजसूयनिमित्तं हि स्मर्यते स्ववचो यदि ॥९॥हरिश्चन्द्र उवाचब्राह्मन्नद्यैव सम्पूर्णो मासोऽम्लानतपोधन ।तिष्ठत्येतद् दनार्धं यत्तत् प्रतीक्षस्व माचिरम् ॥१०॥विश्वामित्र उवाचएवमस्तु महाराज आगमिष्याम्यहं पुनः ।शापं तव प्रदास्यामि न चेदद्य प्रदास्यसि ॥११॥पक्षिण ऊचुःइत्युक्त्वा प्रययौ विप्रो राजा चाचिन्तयत् तदा ।कथमस्मै प्रदास्यामि दक्षिणा या प्रतिश्रुता ॥१२॥कुतः पुष्टानि मित्राणि कुतोर्ऽथः साम्प्रतं मम ।प्रतिग्रहः प्रदुष्टो मे नाहं यायामधः कथम् ॥१३॥किमु प्राणान् विमुञ्चामि कां दिशं याम्यकिञ्चनः ।यदि नाशं गमिष्यामि अप्रदाय प्रतिश्रुतम् ॥१४॥ब्रह्मस्वहृत्कृमिः पापो भविष्याम्यधमाधमः ।अथवा प्रेष्यतां यास्ये वरमेवात्मविक्रयः ॥१५॥पक्षिण ऊचुःराजानं व्याकुलं दीनं चिन्तयानमधोमुखम् ।प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा ॥१६॥त्यज चिन्तां महारजा स्वसत्यमनुपालय ।श्मशानवद् वर्जनीयो नरः सत्यबहिष्कृतः ॥१७॥नातः परतरं धर्मं वदन्ति पुरुषस्य तु ।यादृशं पुरुषव्याघ्र स्वसत्यपरिपालनम् ॥१८॥अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः ।भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम् ॥१९॥सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् ।तारणायानृतं तद्वत् पातनायाकृतात्मनाम् ॥२०॥सप्ताश्वमेधानाहृत्य राजसूयं च पार्थिवः ।कृतिर्नाम च्युतः स्वर्गादसत्यवचनात् सकृत् ॥२१॥राजन् जातमपत्यं मे इत्युक्त्वा प्ररुरोद ह ।बाष्पाम्बुप्लुतनेत्रान्तामुवाचेदं महीपतिः ॥२२॥हरिश्चन्द्र उवाचविमुञ्च भद्रे सन्तापमयं तिष्ठति बालकः ।उच्यतां वक्तुकामासि यद्वा त्वं गजगामिनि ॥२३॥पत्न्युवाचराजन् जातमपत्यं मे सतां पुत्रफलाः स्त्रियः ।स मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम् ॥२४॥पक्षिण ऊचुःएतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः ।प्रतिलभ्य च संज्ञां स विललापातिदुः खितः ॥२५॥महद्दुः खमिदं भद्रे यत् त्वमेवं ब्रवीषि माम् ।किं तव स्मितसंलापा मम पापस्य विस्मृताः ॥२६॥हा हा कथं त्वया शक्यं वक्तुमेतत् शुचिस्मिते ।दुर्वाच्यमेतद्वचनं कर्तुं शक्नोम्यहं कथम् ॥२७॥इत्युक्त्वा स नरश्रेष्ठो धिग्धिगित्यसकृद् ब्रुवन् ।निपपात महीपृष्ठे मूर्च्छयाभिपरिप्लुतः ॥२८॥शयानं भुवि तं दृष्ट्वा हरिश्चन्द्रं महीपतिम् ।उवाचेदं सकरुणं राजपत्नी सुदुः खिता ॥२९॥पत्न्युवाचहा महारजा कस्येदमपध्यानमुपस्थितम् ।यत् त्वं निपतितो भूमौ राङ्कवास्तरणोचितः ॥३०॥येन कोट्यग्रगोवित्तं विप्राणामपवर्जितम् ।स एष पृथिवीनाथो भूमौ स्वपिति मे पतिः ॥३१॥हा कष्टं किं तवानेन कृतं देव ! महीक्षिता ।यदिन्द्रोपेन्द्रतुल्योऽयं नीतः प्रस्वापनीं दशाम् ॥३२॥इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह ।भर्तृदुः खमहाभारेणासह्येन निपीडिता ॥३३॥तौ तथा पतितौ भूमावनाथौ पितरौ शिशुः ।दृष्ट्वात्यन्तं क्षुधाविष्टः प्राह वाक्यं सुदुः खितः ॥३४॥तात तात ! ददस्वान्नमम्बाम्ब ! भोजनं दद ।क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा ॥३५॥पक्षिण ऊचुःएतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः ।दृष्ट्वा तु तं हरिश्चन्द्रं पतितं भुवि मूर्च्छितम् ॥३६॥स वारिणा समभ्युक्ष्य राजानमिदमब्रवीत् ।उत्तिष्ठोतिष्ठ राजेन्द्र तां ददस्वेष्टदक्षिणाम् ॥३७॥ऋणं धारयतो दुः खमहन्यहनि वर्धन्ते ।आप्याय्यमानः स तदा हिमशीतेन वारिणा ॥३८॥अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ।पुनर्मोहं समापेदे स च क्रोधं ययौ मुनिः ॥३९॥स समाश्वास्य राजानं वाक्यमाह द्विजोत्तमः ।दीयतां दक्षिणा सा मे यदि धर्ममवेक्षसे ॥४०॥सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ।सत्यं चोक्तं परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः ॥४१॥अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥४२॥अथवा किं ममैतेन साम्ना प्रोक्तेन कारणम् ।अनार्त्ये पापसङ्कल्पे क्रूरे चानृतवादिनि ॥४३॥त्वयि राज्ञि प्रभवति सद्भावः श्रूयतामयम् ।अद्य मे दक्षिणां राजन् न दास्यति भवान् यदि ॥४४॥अस्ताचलं प्रयातेर्ऽके शप्स्यामि त्वां ततो ध्रुवम् ।इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः ॥४५॥कान्दिग्भूतोऽधमो निः स्वो नृशंसधनिनार्दितः ।भार्यास्य भूयः प्राहेदं क्रियतां वचनं मम ॥४६॥मा शापानलनिर्दग्धः पञ्चत्वमुपयास्यसि ।स तथा चोद्यमानस्तु राजा पत्न्या पुनः पुनः ॥४७॥प्राह भद्रे करोम्येष विक्रयं तव निर्घृणः ।नृशंसैरपि यद् कर्तुं न शक्यं तत् करोम्यहम् ॥४८॥यदि मे शक्यते वाणी वक्तुमीदृक् सुदुर्वचः ।एवमुक्त्वा ततो भार्यां गत्वा नागरमातुरः ।बाष्पापिहितकण्ठाक्षस्ततो वचनमब्रवीत् ॥४९॥राजोवाचभो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ।किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ॥५०॥राक्षसो वातिकठिनस्ततः पापतरोऽपि वा ।विक्रेतुं दयितां प्राप्तो यो न प्राणांस्त्यजाम्यहम् ॥५१॥यदि वः कस्यचित् कार्यं दास्या प्राणेष्टया मम ।स ब्रीवीतु त्वरायुक्तो यावत् सन्धारयाम्यहम् ॥५२॥पक्षिण ऊचुःअथ वृद्धो द्विजः कश्चिदागत्याह नराधिपम् ।समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥५३॥अस्ति मे वित्तमस्तोकं सुकुमारी च मे प्रिया ।गृहकर्म न शक्नोति कर्तुमस्मात् प्रयच्छ मे ॥५४॥कर्मण्यता-वयो-रूप-शीलानां तव योषितः ।अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् ॥५५॥एवमुक्तस्य विप्रेण हरिश्चन्द्रस्य भूपतेः ।व्यदीर्यत मनो दुः खान्न चैनं किञ्चिदब्रवीत् ॥५६॥ततः स विप्रो नृपतेर्वल्कलान्ते दृढं धनम् ।बद्ध्वा केशेष्वथादाय नृपपत्नीमकर्षयत् ॥५७॥रुरोद रोहिताश्वोऽपि दृष्ट्वा कृष्टां तु मातरम् ।हस्तेन वस्त्रमाकर्षन् काकपक्षधरः शिशुः ॥५८॥राजपत्न्युवाचमुञ्चार्य मुञ्च तावन्मां यावत्पश्याम्यहं शिशुम् ।दुर्लभं दर्शनं तात पुनरस्य भविष्यति ॥५९॥पश्यैहि वत्स मामेवं मातरं दास्यतां गताम् ।मां मा स्प्रार्क्षो राजपुत्र ! अस्पृश्याहं तवाधुना ॥६०॥ततः स बालः सहसा दृष्ट्वा कृष्टां तु मातरम् ।समभ्यधावदम्बेति रुदन् सास्त्राविलेक्षणः ॥६१॥तमागतं द्विजः क्रोधाद्वालमभ्याहनत् पदा ।वदंस्तथापि सोऽम्बेति नैवामुञ्चत मातरम् ॥६२॥राजपत्न्युवाचप्रसादं कुरु में नाथ क्रीणीष्वेमं च बालकम् ।क्रीतापि नाहं भवतो विनैनं कार्यसाधिका ॥६३॥इत्थं ममाल्पभाग्यायाः प्रसादसुमुखो भव ।मां संयोजय बालेन वत्सेनेव पयस्विनीम् ॥६४॥ब्राह्मण उवाचगृह्यतां वित्तमेतत् ते दीयतां बालको मम ।स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ।शतं सहस्रं लक्षं च कोटिमूल्यं तथा परैः ॥६५॥पक्षिण ऊचुःतथैव तस्य तद्वित्तं बद्ध्वोत्तरपटे ततः ।प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् ॥६६॥नीयमानौ तु तौ दृष्ट्वा भार्या-पुत्रौ स पार्थिवः ।विललाप सुदुः खार्तो निः श्वस्योष्णं पुनः पुनः ॥६७॥यां न वायुर्न चादित्यो नेन्दुर्न च पृथग्जनः ।दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता ॥६८॥सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः ।सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् ॥६९॥हा प्रिये ! हा शिशो ! नत्स ! ममानार्यस्य दुर्नयैः ।दैवाधीनां दशां प्राप्तो न मृतोऽस्मि तथापि धिक् ॥७०॥पक्षिण ऊचुःएवं विलपतो राज्ञः स विप्रोऽन्तरधीयत ।वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः ॥७१॥विश्वामित्रस्ततः प्राप्तो नृपं वित्तमयाचत ।तस्मै समर्पयामास हरिश्चन्द्रोऽपि तद्धनम् ॥७२॥तद्वित्तं स्तोकमालोक्य दारविक्रयसम्भवम् ।शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥७३॥क्षत्रबन्धो ! ममेमां त्वं सदृशीं यज्ञदक्षिणाम् ।मन्यसे यदि तत् क्षिप्रं पश्य त्वं मे बलं परम् ॥७४॥तपसोऽत्र सुतप्तस्य ब्राह्मण्यस्यामलस्य च ।मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च ॥७५॥अन्यां दास्यामि भगवन् ! कालः कश्चित्प्रतीक्ष्यताम् ।साम्प्रतं नास्ति विक्रीता पत्नी पुत्रश्च बालकः ॥७६॥विश्वामित्र उवाचचतुर्भागः स्थितो योऽयं दिवसस्य नराधिप ।एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥७७॥पक्षिण ऊचुःतमेवमुक्त्वा राजेन्द्रं निष्ठुरं निर्घृणं वचः ।तदादाय धनं तूर्णं कुपितः कौशिको ययौ ॥७८॥विश्वामित्रे गते राजा भयशोकाब्धिमध्यगः ।सर्वाकारं विनिश्चित्य प्रोवाचोच्चैरधोमुखः ॥७९॥वित्तक्रीतेन यो ह्यर्थो मया प्रेष्येण मानवः ।स ब्रवीतु त्वरायुक्तो यावत् तपति भास्करः ॥८०॥अथाजगाम त्वरितो धर्मश्चण्डालरूपधृक् ।दुर्गन्धो विकृतो रूक्षः श्मश्रुलो दन्तुरो घृणी ॥८१॥कृष्णो लम्बोदरः पिङ्गरूक्षाक्षः परुषाक्षरः ।गृहीतपक्षिपुञ्जश्च शवमाल्यैरलङ्कृतः ॥८२॥कपालहस्तो दीर्घास्यो भैरवोऽतिवदन् मुहुः ।श्वगणाभिवृतो घोरो यष्टिहस्तो निराकृतिः ॥८३॥चण्डाल उवाचअहमर्थो त्वया शीघ्रं कथयस्वात्मवेतनम् ।स्तोकेन बहुना वापि येन वै लभ्यते भवान् ॥८४॥पक्षिण ऊचुःतं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिष्ठुरम् ।वदन्तमतिदुः शीलं कस्त्वमित्याह पार्थिवः ॥८५॥चण्डाल उवाचचण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे ।विख्यातो वध्यवधको मृतकम्बलहारकः ॥८६॥हरिश्चन्द्र उवाचनाहं चण्डालदासत्वमिच्छेयं सुविगर्हितम् ।वरं सापाग्निना दग्धो न चण्डालवशं गतः ॥८७॥पक्षिण ऊचुःतस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ।कोपामर्षविवृताक्षः प्राह चेदं नराधैपम् ॥८८॥विश्वामित्र उवाचचण्डालोऽयमनल्पं ते दातुं वित्तमुपस्थितः ।कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा ॥८९॥हरिश्चन्द्र उवाचभगवन् ! सूर्यवंशोत्थमात्मानं वेद्मे कौशिक ।कथं चण्डालदासत्वं गमिष्ये वित्तकामुकः ॥९०॥विश्वामित्र उवाचयदि चण्डालवित्तं त्वमात्मविक्रयजं मम ।न प्रदास्यसि कालेन शाप्स्यामि त्वामसंशयम् ॥९१॥पक्षिण ऊचुःहरिश्चन्द्रस्ततो राजा चिन्तावस्थितजीवितः ।प्रसीदेति वदन् पादावृषेर्जग्राह विह्वलः ॥९२॥दासोऽस्म्यार्तोऽस्मि भीतोऽस्मि त्वद्भक्तश्च विशेषतः ।कुरु प्रसादं विप्रर्षे कष्टश्चण्डालसङ्करः ॥९३॥भवेयं वित्तशेषेण सर्वकर्मकरो वशः ।तवैव मुनिशार्दूल ! प्रेष्यश्चित्तानुवर्तकः ॥९४॥विश्वामित्र उवाचयदि प्रेष्यो मम भवान् चण्डालाय ततो मया ।दासभावमनुप्राप्तो दत्तो वित्तार्बुदेन वै ॥९५॥पक्षिण ऊचुःएकमुक्ते तदा तेन श्वपाको हृष्टमानसः ।विश्वामित्राय तद्द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ॥९६॥दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् ।इष्टबन्धुवियोगार्तमनयन्निजपत्तनम् ॥९७॥हरिश्चन्द्रस्ततो राजा वसंश्चण्डालपत्तने ।प्रातर्मध्याह्नसमये सायञ्चैतदगायत ॥९८॥बाला दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः ।मां स्मरत्यसुखाविष्टा मोचयिष्यति नौ नृपः ॥९९॥उपात्तवित्तो विप्राय दत्त्वा वित्तमतोऽधिकम् ।न सा मां मृगशावाक्षी वेत्ति पापतरं कृतम् ॥१००॥राज्यनाशः सुहृत्त्यागो भर्यातनयविक्रयः ।प्राप्ता चण्डालता चेयमहो दुः खपरम्परा ॥१०१॥एवं स निवसन् नित्यं सस्मार दयितं सुतम् ।आर्याञ्चात्मसमाविष्टां हृतसर्वस्व आतुरः ॥१०२॥कस्यचित्त्वथ कालस्य मृतचेलापहारकः ।हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः ॥१०३॥चण्डालेनानुशिष्टश्व मृतचेलापहारिणा ।शवागमनमन्विच्छन्निह तिष्ठ दिवानिशम् ॥१०४॥इदं राज्ञेऽपि देयञ्च षड्भागन्तु शवं प्रति ।त्रयस्तु मम भागाः स्युर्द्वो भागौ तव वेतनम् ॥१०५॥इति प्रतिसमादिष्टो जगाम शवमन्दिरम् ।दिशन्तु दक्षिणां यत्र वाराणस्यां स्थितं तदा ॥१०६॥श्मशानं घोरसंनादं शिवाशतसमाकुलम् ।शवमौलिसमाकीर्णं दुर्गन्धं बहुधूमकम् ॥१०७॥पिशाच-भूत-वेताल-डाकिनी-यक्षसङ्कुलम् ।गृध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम् ॥१०८॥अस्थिसंघातसङ्कीर्णं महादुर्गन्धसंकुलम् ।नानामृतसुहृन्नाद-रौद्रकोलाहलायुतम् ॥१०९॥हा पुत्र ! मित्र ! हा बन्धो ! भ्रातर्वत्स ! प्रियाद्य मे ।हा पते ! भगिनि ! मातर्हा मातुल ! पितामह ॥११०॥मातामह ! पितः ! क्व गतोऽस्येहि बान्धव ।इत्येवं वदतां यत्र ध्वनिः संश्रुयते महान् ॥१११॥ज्वलन्मांस-वसा-मेदच्छमच्छमितसंकुलम् ॥११२॥अर्धदग्धाः शवाः श्यामा विकसद्दन्तपङ्क्तयः ।हसन्तीवाग्निमध्यस्थाः कायस्येयं दशा त्विति ॥११३॥अग्नेश्चटचटाशब्दो वयसामस्थिपङ्क्तिषु ।बान्धवाक्रान्दशब्दश्च पुक्कसेषु प्रहर्षजः ॥११४॥गायतां भूत-वेताल-पिशाचगणः रक्षसाम् ।श्रूयते सुमहान् घोरः कल्पान्त इव निः स्वनः ॥११५॥महामहिषकारीष-गोशकृद्राशिसङ्कुलम् ।तदुत्थभस्मकूटैश्च वृतं सास्थिभिरुन्नतैः ॥११६॥नानोपहारस्त्रग्दीप-काकविक्षेपकालिकम् ।अनेकशब्दबहुलं श्मशानं नरकायते ॥११७॥सवह्निगर्भैरशिवैः शिवारुतैर् निनादितं भीषणरावगह्वरम् ।भयं भयस्याप्युपसञ्जनैर्भृशं श्मशानमाक्रन्दविरावदारुणम् ॥११८॥स राजा तत्र सम्प्राप्तो दुः खितः शोचनोद्यतः ।हा भृत्या मन्त्रिणो विप्राः तद्राज्यं विधे गतम् ॥११९॥हा शैव्ये पुत्र हा बाल मां त्यक्त्वा मन्दभाग्यकम् ।विश्वामित्रस्य दोषेण गताः कुत्रापि ते मम ॥१२०॥इत्येवं चिन्तयंस्तत्र चण्डालोक्तं पुनः पुनः ।मलिनो रूक्षसर्वाङ्गः केशवान् गन्धवान् ध्वजी ॥१२१॥लकुटी कालकल्पश्च धावंश्चापि ततस्ततः ।अस्मिन् शव इदं मूल्यं प्राप्तं प्राप्स्यामि चाप्युत ॥१२२॥इदं मम इदं राज्ञे मुख्यचण्डालके त्विदम् ।इति धावन् दिशो राजा जीवन् योन्यन्तरं गतः ॥१२३॥जीर्णकर्पण्टसुग्रन्थि-कृतकन्थापरिग्रहः चिताभस्मरजोलिप्त-मुखबाहूदराङिघ्रकः ॥१२४॥नानामेदो-वसा-मज्जा लिप्तपाण्यङ्गुलिः श्वसन् ।नानाशवोदनकृता-हारतृप्तिपरायणः ॥१२५॥तदीयमाल्यसंश्लेषकृतमस्तकमण्डनः ।न रात्रौ न दिवा शेते हा हेति प्रवदन् मुहुः ॥१२६॥एवं द्वादशमासास्तु नीताः शतसमोपमाः ।स कदाचिन्नृपश्रेष्ठः श्रान्तो बन्धुवियोगवान् ॥१२७॥निद्राभिभूतो रूक्षाङ्गो निश्चेष्टः सुप्त एव च ।तत्रापि शयनीये स दृष्टवानद्भुतं हमत् ॥१२८॥श्मशानाभ्यासयोगेन दैवस्य बलवत्तया ।अन्यदेहेन दत्त्वा तु गुरवे गुरुदक्षिणाम् ॥१२९॥तदा द्वादश वर्षाणि दुः खदानात्तु निष्कृतिः ।आत्मानं स ददर्शाथ पुक्कसीगर्भसम्भवम् ॥१३०॥तत्रस्थश्चाप्यसौ राजा सोऽचिन्तयदिदं तदा ।इतो निष्क्रान्तमात्रो हि दानधर्मं करोम्यहम् ॥१३१॥अनन्तरं स जातस्तु तदा पुक्कसबालकः ।श्मशानमृतसंस्कार-करणेषु सदोद्यतः ॥१३२॥प्राप्ते तु सप्तमे वर्षे श्मशानेऽथ मृतो द्विजः ।आनीतो बन्धुभिर्दृष्टस्तेन तत्राधनो गुणी ॥१३३॥मूल्यार्थिना तु तेनापि परिभूतास्तु ब्राह्मणाः ।ऊचुस्ते ब्राह्मणास्तत्र विश्वामित्रस्य चेष्टितम् ॥१३४॥पापिष्ठमशुभं कर्म कुरु त्वं पापकारक ।हरिश्चन्द्रः पुरा राजा विश्वामित्रेण पुक्कसः ॥१३५॥कृतः पुण्यविनाशेन ब्राह्मणस्वापनाशनात् ।यदा न क्षमते तेषां तैः स शप्तो रुषा तदा ॥१३६॥गच्छ त्वं नरकं घोरमधुनैव नराधम ।इत्युक्तमात्रे वचने स्वप्नस्थः स नृपस्तदा ॥१३७॥अपश्यद्यमदूतान् वै पाशहस्तान् भयावहान् ।तैः संगृहीतमात्मानं नीयमानं तदा बलात् ॥१३८॥पश्यति स्म भृशं खिन्नो हा मातः पितरद्य मे ।एवंवादी स नरके तैलद्रोण्यां निपातितः ॥१३९॥क्रकचैः पाट्यमानस्तु क्षुरधाराभिरप्यधः ।अन्धे तमसि दुः खार्तः पूयशोणितभोजनः ॥१४०॥सप्तवर्षं मृतात्मानं पुक्कसत्वे ददर्श ह ।दिनं दिनन्तु नरके दह्यते पच्यतेऽन्यतः ॥१४१॥खिद्यते क्षोभ्यतेऽन्यत्र मार्यते पाट्यतेऽन्यतः ।क्षार्यते दीप्यतेऽन्यत्र शीतवाताहतोऽन्यतः ॥१४२॥एवं दिनं वर्षशत-प्रमाणं नरकेऽभवत् ।तथा वर्षशतं तत्र श्रीवितं नरके भटैः ॥१४३॥ततो निपातितो भूमौ विष्ठाशी श्वा व्यजायत ।वान्ताशी शीतदग्धश्च मासमात्रे मृतोऽपि सः ॥१४४॥अथापश्यत् खरं देहं हस्तिनं वानरं पशुम् ।छागं विडालं कङ्कञ्च गामविं पक्षिणं कृमिम् ॥१४५॥मत्स्यं कूर्मं वराहञ्च श्वाविधं कुक्कुटं शुकम् ।शारिकां स्थावरांश्चैव सर्पमन्यांश्व देहिनः ॥१४६॥दिवसे दिवसे जन्म प्राणिनः प्राणिनस्तदा ।अपश्यद् दुः खसन्तप्तो दिनं वर्षशतं तथा ॥१४७॥एवं वर्षशतं पूर्णं गतं तत्र कुयोनिषु ।अपश्यच्च कदाचित् स राजा तत् स्वकुलोद्भवम् ॥१४८॥तत्र स्थितस्य तस्यापि राज्यं द्यूतेन हारितम् ।भार्या हृता च पुत्रश्च स चैकाकी वनं गतः ॥१४९॥तत्रापश्यत स सिंहं वै व्यादितास्यं भयावहम् ।बिभक्षयिषुमायातं शरभेण समन्वितम् ॥१५०॥पुनश्च भक्षितः सोऽपि भार्यां शोचितुमुद्यतः ।हा शैव्ये ! क्व गतास्यद्य मामिहापास्य दुः खितम् ॥१५१॥अपश्यत् पुनरेवापि भार्यां स्वं सहपुत्रकाम् ।त्रायस्व त्वं हरिश्चन्द्र किं द्यूतेन तव प्रभो ॥१५२॥पुत्रस्ते शोच्यतां प्राप्तो भर्यंया शैव्यया सह ।स नापश्यत् पुनरपि धावमानः पुनः पुनः ॥१५३॥अथापश्यत् पुनरपि स्वर्गस्थः स नराधिपः ।नीयते मुक्तकेशी सा दीना विवसना बलात् ॥१५४॥हाहावाक्यं प्रमुञ्चन्ती त्रायस्वेत्यसकृत्स्वना ।अथापश्यत् पुनस्तत्र धर्मराजस्य शासनात् ॥१५५॥आक्रान्दन्त्यन्तरीक्षस्था आगच्छेह नराधिप ।विश्वामित्रेण विज्ञप्तो यमो राजंस्तवार्थतः ॥१५६॥इत्युक्त्वा सर्पपाशैस्तु नीयते बलवद्विभुः ।श्राद्धदेवेन कथितं विश्वामित्रस्य चेष्टितम् ॥१५७॥तत्रापि तस्य विकृतिर्नाधर्मोत्था व्यवर्धत ।एताः सर्वा दशास्तस्य याः स्वप्ने सम्प्रदर्शिताः ॥१५८॥सर्वास्तास्तेन सम्भुक्ता यावद्वर्षाणि द्वादश ।अतीते द्वादशे वर्ष नीयमानो भटैर्बलात् ॥१५९॥यमं सोऽपश्यदाकारादुवाच च नराधिपम् ।विश्वामित्रस्य कोपोऽयं दुर्निवार्यो महात्मनः ॥१६०॥पुत्रस्य ते मृत्युमपि प्रदास्यति स कौशिकः ।गच्छ त्वं मानुषं लोकं दुः खशेषञ्च भुङ्क्ष्व वै ।गतस्य तत्र राजेन्द्र श्रेयस्तव भविष्यति ॥१६१॥व्यतीते द्वादशे वर्षे दुः खस्यान्ते नराधिपः ।अन्तरीक्षाच्च पतितो यमदूतैः प्रणोदितः ॥१६२॥पतितो यमलोकाच्च विबुद्धो भयसम्भ्रमात् ।अहो कष्टमिति ध्यात्वा क्षते क्षारावसेवनम् ॥१६३॥स्वप्ने दुः खं महद्दृष्टं यस्यान्तो नोपलभ्यते ।स्वप्ने दृष्टं मया यत्तु किं नु मे द्वादशाः समाः ॥१६४॥गतेत्यपृच्छत् तत्रस्थान् पुक्कसांस्तु स सम्भ्रमात् ।नेत्युचुः केचित् तत्रस्था एवमेवापरेऽब्रुवन् ॥१६५॥श्रुत्वा दुः खी तदा राजा देवान् शरणमीयिवान् ।स्वस्ति कुर्वन्तु मे देवाः शैव्याया बालकस्य च ॥१६६॥नमो धर्माय महते नमः कृष्णाय वेधसे ।परावराय शुद्धाय पुराणायाव्ययाय च ॥१६७॥नमो बृहस्पते तुभ्यं नमस्ते वासवाय च ।एवमुक्त्वा स राजा तु युक्तः पुक्कसकर्मणि ॥१६८॥शवानां मूल्यकरणे पुनर्नष्टस्मृतिर्यथा ।मलिनो जटिलः कृष्णो लकुटी विह्वलो नृपः ॥१६९॥नैव पुत्रो न भार्या तु तस्य वै स्मृतिगोचरे ।नष्टोत्साहो राज्यनाशात् श्मशाने निवसंस्तदा ॥१७०॥अथाजगाम स्वसुतं मृतमादाय लापिनी ।भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् ॥१७१॥हा वत्स ! हा पुत्र ! शिशो ! इत्येवं वदती मुहुः ।कृशा विवर्णा विमनाः पांशुध्वस्तशिरोरुहा ॥१७२॥राजपत्न्युवाचहा राजन्नद्य बालं त्वं पश्य सोमं महीतले ।रममाणं पुरा दृष्टं दुष्टाहिना मृतम् ॥१७३॥तस्या विलापशब्दं तमाकर्ण्य स नराधिपः ।जगाम त्वरितोऽत्रेति भविता मृतकम्बलः ॥१७४॥स तां रोरुदतीं भार्यां नाभ्यजानात्तु पार्थिवः ।चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम् ॥१७५॥सापि तं चारुकेशान्तं पुरा दृष्ट्वा जटालकम् ।नाभ्यजानान्नृपसुता शुष्कवृक्षोपमं नृपम् ॥१७६॥सोऽपि कृष्णपटे बालं दृष्ट्वाशीविषपीडितम् ।नरेन्द्रलक्षणोपेतं चिन्तामाप नरेश्वरः ॥१७७॥अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ।जातो नीतः कृतान्तेन कामप्याशां दुरात्मना ॥१७८॥एवं दृष्ट्वा हि मे बालं मातुरुत्सङ्गशायिनम् ।स्मृतिमभ्यागतो बालो रोहिताश्वोऽब्जलोचनः ॥१७९॥सोऽप्येतामेव मे वत्सो वयोऽवस्थामुपागतः ।नीतो यदि न घोरेण कृतान्तेनात्मनो वशम् ॥१८०॥राजपत्न्युवाचहा वत्स ! कस्य पापस्य अपध्यानादिदं महत् ।दुः खमापतितं घोरं यस्यान्तो नोपलभ्यते ॥१८१॥हा नाथ ! राजन् ! भवता मामनाश्वास्य दुः खिताम् ।क्वापि सन्तिष्ठता स्थाने विश्रब्धं स्थीयते कथम् ॥१८२॥राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ।हरिश्चन्द्रस्य राजर्षेः किं विधे ! न कृतं त्वया ॥१८३॥इति तस्या वचः श्रुत्वा राजा स्वस्थानतश्च्युतः ।प्रत्यभिज्ञाय दयितां पुत्रञ्च निधनं गतम् ॥१८४॥कष्टं शैव्येयमेषा हि स बालोऽयमितीरयन् ।रुरोद दुः खसन्तप्तो मूर्च्छामभिजगाम च ॥१८५॥सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ।मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले ॥१८६॥चेतः सम्प्राप्य राजेन्द्रो राजपत्नी च तै समम् ।विलेपतुः सुसन्तप्तौ शोकभारावपीडितौ ॥१८७॥राजोवाचहा वत्स ! सुकुमारं ते स्वक्षिभ्रूनासिकालकम् ।पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते ॥१८८॥तात ! तातेति मधुरं ब्रुवाणं स्वयमागतम् ।उपगुह्य वदिष्ये कं वत्स ! वत्सेति सौहृदात् ॥१८९॥कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ।ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति ॥१९०॥अङ्गप्रत्यङ्गसम्भूतो मनोहृदयनन्दनः ।मया कुपित्रा हा वत्स ! विक्रीतो येन वस्तुवत् ॥१९१॥हृत्वा राज्यमशेषं मे ससाधनधनं महत् ।दैवाहिना नृशंसेन दष्टो मे तनयस्ततः ॥१९२॥अहं दैवाहिदष्टस्य पुत्रस्याननपङ्कजम् ।निरीक्षन्नपि घोरेण विषेणान्धीकृतोऽधुना ॥१९३॥एकमुक्त्तवा तमादाय बालकं बाष्पगद्गदः ।परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह ॥१९४॥राजपत्न्युवाचअयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते ।विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥१९५॥तथास्य नासिका तुङ्गा अग्रतोऽधोमुखं गता ।दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥१९६॥श्मशानमागतः कस्मादद्यैष स नरेश्वरः ।अपहाय पुत्रशोकं सापश्यत् पतितं पतिम् ॥१९७॥प्रकृष्टा विस्मिता दीना भर्तृपुत्राधिपीडिता ।वीक्षन्ती सा ततोऽपश्यद् भर्तृदण्डं जुगुप्सितम् ॥१९८॥श्वपाकार्हमतो मोहं जगामायतलोचना ।प्राप्य चेतश्च शनकैः सगद्गदमभाषत ॥१९९॥धिक् त्वां दैवातिकरुणां निर्मर्यादं जुगुप्सितम् ।येनायममरप्रख्यो नीतो राजा श्वपाकताम् ॥२००॥राज्यनाशं सुहृत्त्यागं भार्या-तनयविक्रयम् ।प्रापयित्वापि नो कुक्तश्चण्डालोऽयं कृतो नृपः ॥२०१॥हा राजन् ! जातसन्तापामित्थं मां धरणीतलात् ।उत्थाप्य नाद्य पर्यङ्कमारोहेति किमुच्यते ॥२०२॥नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः ।चामरं व्यजनञ्चापि कोऽयं विधिविपर्ययः ॥२०३॥यस्याग्रे व्रजतः पूर्वं राजानो भृत्यतां गताः ।स्वोत्तरीयैरकुर्वन्त नीरजस्कं महीतलम् ॥२०४॥सोऽयं कपालसंलग्न-घटीघटनिरन्तरे ।मृतनिर्माल्यसूत्रान्तर्गूग्केशे सुदारुणे ॥२०५॥वसानिस्यन्दसंशुष्क-महीपुटकमण्डिते ।भस्माङ्गारार्धदग्धास्थि-मज्जासङ्घट्टभीषणे ॥२०६॥गृध्र-गोमायुनादार्तनष्टक्षुद्रविहङ्गमे ।चिताधूमाततिरुचा नीलीकृतदिगन्तरे ॥२०७॥कुणपास्वादनमुदा सम्प्रहृष्टनिशाचरे ।चरत्यमेध्ये राजेन्द्रः श्मशाने दुः खपीडितः ॥२०८॥एवमुक्त्वा समाश्लिष्य कण्ठं राज्ञो नृपात्मजा ।कष्टशोकशताधारा विललापार्तया गिरा ॥२०९॥राजपत्न्युवाचराजन् ! स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ।तत् कथ्यतां महाभाग मनो वै मुह्यते मम ॥२१०॥यद्येतदेवं धर्मज्ञ नास्ति धर्मे सहायता ।तथैव विप्रदेवादिपूजने पालने भुवः ॥२११॥नास्ति धर्मः कुतः सत्यमार्जवं चानृशंसता ।यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः ॥२१२॥इति तस्या वचः श्रुत्वा निश्वस्योष्णं सगद्गदम् ।कथयामास तन्वङ्ग्या यथा प्राप्ता श्वपाकता ॥२१३॥रुदित्वा सापि सुचिरं निश्वस्योष्णञ्च दुः खिता ।स्वपुत्रमरणं भीरुर्यथावृत्तं न्यवेदयत् ॥२१४॥राजोवाचप्रिये ! न रोचये दीर्घं कालं क्लेशमुपासितुम् ।नात्मायत्तश्च तन्वङ्गि पश्य मे मन्दभाग्यताम् ॥२१५॥चण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ।चण्डालदासतां यास्ये पुनरप्यन्यजन्मनि ॥२१६॥नरके च तपिष्यामि कोटकः कृमिभोजनः ।वैतरण्यां महापूय-वसासृक्-स्नायुपिच्छिले ॥२१७॥असिपत्रवने प्राप्य छेदं प्राप्स्यामि दारुणम् ।तापं प्राप्स्यामि वा प्राप्य महारौरवरौरवौ ॥२१८॥मग्नस्य दुः खजलधौ पारः प्राणवियोजनम् ।एकोऽपि बालको योऽयमासीद्वंशकरः सुतः ॥२१९॥मम दैवाम्बुवेगेन मग्नः सोऽपि बलीयसा ।कथं प्राणान् विमुञ्चामि परायत्तोऽस्मि दुर्गतः ॥२२०॥अथवा नार्तिना क्लिष्टो नरः पापमवेक्षते ।तिर्यक्त्वे नास्ति तद्दुः शं नासिपत्रवने तथा ॥२२१॥वैतरण्याङ्कुतस्तादृग् यादृशं पुत्रविप्लवे ।सोऽहं सुतशिरीरेण दीप्यमाने हुताशने ॥२२२॥निपतिष्यामि तन्वङ्गि क्षन्तव्यं कुकृतं मम ।अनुज्ञाता च गच्छ त्वं विप्रवेश्म सुछिस्मिते ॥२२३॥मम वाक्यञ्च तन्वङ्गि निबोधादृतमानसा ।यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥२२४॥परत्र सङ्गमो भूयात् पुत्रेण सह च त्वया ।इह लोके कुतस्त्वेतद् भविष्यति ममेङ्गितम् ॥२२५॥त्वया सह मम श्रेयो गमनं पुत्रमार्गणे ।यन्मया हसता किञ्चिद्रहस्ये वा शुचिस्मिते ॥२२६॥अश्लीलमुक्तं तत् सर्वं क्षन्तव्यं मम याचतः ।राजपत्नीति गर्वेण नावज्ञेयः स ते द्विजः ।सर्वयत्नेन ते तोष्यः स्वामिदैवतवच्छुभे ॥२२७॥राजपत्न्युवाचअहमप्यत्र राजर्षे दीप्यमाने हुताशने ।दुः खभारासहाद्यैव सह यास्यामि वै त्वया ॥२२८॥पक्षिण ऊचुःततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् ।भार्यया सहितश्चासौ बद्धाञ्जलिपुटस्तदा ॥२२९॥चिन्तयन् परमात्मानमीशं नारायणं हरिम् ।हृत्कोटरगुहासीनं वासुदेवं सुरेश्वरम् ।अनादिनिधनं ब्रह्म कृष्णं पीताम्बरं शुभम् ॥२३०॥तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः ।धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः ॥२३१॥आगत्य सर्वे प्रोचुस्ते भो भो राजन् ! शृणु प्रभो ।अयं पितामहः साक्षाद्धर्मश्च भगवान् स्वयम् ॥२३२॥साध्याश्च विश्वे मरुतो लोकपालाः सवाहनाः ।नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ ॥२३३॥एते चान्ये च बहवो विश्वामित्रस्तथैव च ।विश्वत्रयेण यो मित्रं कर्तुं न शकितः पुरा ॥२३४॥विश्वामित्रस्तु ते मैत्रीमिष्टञ्चाहर्तुमिच्छति ।आरुरोह ततः प्राप्तो धर्मः शक्रोऽथ गाधिजः ॥२३५॥धर्मि उवाचमा राजन् ! साहसं कार्षोर्धर्मोऽहं त्वामुपागतः ।तितिक्षा-दम-सत्याद्यैः स्वगुणैः परितोषितः ॥२३६॥इन्द्र उवाचहरिश्चन्द्र माहभाग ! प्राप्तः शक्रोऽस्मितेऽन्तिकम् ।त्वया सभार्यपुत्रेण जिता लोकाः सनातनाः ॥२३७॥आरोह त्रिदिवं राजन् ! भार्यापुत्रसमन्वितः ।सुदुष्प्राप्तं नरैरन्यैर्जितमात्मीयकर्मभिः ॥२३८॥पक्षिण ऊचुःततोऽमृतमयं वर्षमपमृत्युविनाशनम् ।इन्द्रः प्रासृजदाकाशाच्चितास्थानगतः प्रभुः ॥२३९॥पुष्पवर्षञ्च सुमहद्देवदुन्दुभिनिस्वनम् ।ततस्ततो वर्तमाने समाजे देवसंकुले ॥२४०॥समुत्तस्थौ ततः पुत्रो राज्ञस्तस्य महात्मनः ।सुकुमारतनुः सुस्थः प्रसन्नेन्द्रियमानसः ॥२४१॥ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं क्षणात् ।सभार्यः स श्रिया युक्तो दिव्यमाल्याम्बरान्वितः ॥२४२॥सुस्थः सम्पूर्णहृदयो मुदा परमया युतः ।बभूव तत्क्षणादिन्द्रो भूयश्चैनमभाषत ॥२४३॥सभार्यस्त्वं सपुत्रश्च प्राप्स्यसे सद्गतिं पराम् ।समारोह माहभाग निजानां कर्मणां फलैः ॥२४४॥हरिश्चन्द्र उवाचदेवराजाननुज्ञातः स्वामिना श्वपचेन वै ।अगत्वा निष्कृतिं तस्य नारोक्ष्येऽहं सुरालयम् ॥२४५॥धर्म उवाचतवैनं भाविनं क्लेशमवगम्यात्ममायया ।आत्मा श्वपाकतां नीतो दर्शितं तच्च चापलम् ॥२४६॥इन्द्र उवाचप्रार्थ्यते यत् परं स्थानं समस्तैर्मनुजैर्भुवि ।तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम् ॥२४७॥हरिश्चन्द्र उवाचदेवाराज ! नमस्तुभ्यं वाक्यञ्चैतन्निबोध मे ।प्रसादसुमुखं यत् त्वां ब्रवीमि प्रश्रयान्वितः ॥२४८॥मच्छोकमग्नमनसः कोशलानगरे जनाः ।तिष्ठन्ति तानपोह्याद्य कथं यास्याम्यहं दिवम् ॥२४९॥ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा ।तुल्यमेभिर्महापापं भक्तत्यागेऽप्युदाहृतम् ॥२५०॥भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः सुखम् ।नेह नामुत्र पश्यामि तस्माच्छक्र ! दिवं व्रज ॥२५१॥यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर ।ततोऽहमपि यास्यामि नरकं वापि तैः सह ॥२५२॥इन्द्र उवाचबहूनि पुण्यपापानि तेषां भिन्नानि वै पृथक् ।कथं सङ्घातभोग्यं त्वं भूयः स्वर्गमवाप्स्यसि ॥२५३॥हरिश्चन्द्र उवाचशक्र भुङ्क्ते नृपो राज्यं प्रभावेण कुटुम्बिनाम् ।यजते च महायज्ञैः कर्म पौर्तं करोति च ॥२५४॥तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ।उपकर्तॄन् न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया ॥२५५॥तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् ।दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः ॥२५६॥बहुकालोपभोग्यं हि फलं यन्मम कर्मणः ।तदस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः ॥२५७॥पक्षिण ऊचुःएवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ।प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः ॥२५८॥विमानकोटिसम्बद्धं स्वर्गलोकान्महीतलम् ।गत्वायोध्याजनं प्राह दिवमारुह्यतामिति ॥२५९॥तदिन्द्रस्य वचः श्रुत्वा प्रीत्या तस्य च भूपतेः ।आनीय रोहिताश्चञ्च विश्वामित्रो महातपाः ॥२६०॥अयोध्याख्ये पुरे रम्ये सोऽभ्यसिञ्चन्नृपात्मजम् ।देवैश्च मुनिभिः सिद्धैरभिषिच्य नराधिपम् ॥२६१॥राज्ञा सह तदा सर्वे हृष्टपुष्टसुहृज्जनाः ।सपुत्रभृत्यदारास्ते दिवमारुरुहुर्जनाः ॥२६२॥पदे पदे विमानात् ते विमानमगमन् नराः ।तदा सम्भूतहर्षोऽसौ हरिश्चन्द्रश्च पार्थिवः ॥२६३॥सम्प्राप्य भूतिमतुलां विमानैः स महीपतिः ।आसाञ्चक्रे पुराकारे वप्रप्राकारसंवृते ॥२६४॥ततस्तस्यर्धिमालोक्य श्लोकं तत्रोशना जगौ ।दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित् ॥२६५॥शुक्र उवाचहरिश्चन्द्रसमो राजा न भूतो न भविष्यति ।यः शृणोति स्वदुः खार्तः स सुखं महदाप्नुयात् ॥२६६॥स्वर्गार्थोप्राप्नुयात् स्वर्गं पुत्रार्थो पुत्रमाप्नुयात् ।भार्यार्थो प्राप्नुयाद्भार्यां राज्यार्थो राज्यमाप्नुयात् ॥२६७॥अहो तितिक्षामाहात्म्यमहो दानफलं महत् ।यदागतो हरिश्चन्द्रः पुरीञ्चेन्द्रत्वमाप्तवान् ॥२६८॥पक्षिण ऊचुःएतत् ते सर्वमाख्यातं हरिश्चन्द्रविचेष्टितम् ।अतः परं कथाशेषः श्रूयतां मुनिसत्तम ॥२६९॥विपाको राजसूयस्य पृथिवीक्षयकारणम् ।तद्विपाकनिमित्तञ्च युद्धमाडिबकं महत् ॥२७०॥इति श्रीमार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानं नामाष्टमोऽध्यायः N/A References : N/A Last Updated : March 14, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP