संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
नवाधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - नवाधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


पृषध्रोपाख्यानवर्णनम्
मार्कण्डेय उवाच
पृषध्राख्यो मनोः पुत्रो मृगयामगमद्वनम् ।
तत्र चंक्रममाणोऽसौ विपिने निर्जने वने ॥१॥
नाससाद मृगं कञ्चिद्भानुदीधितितापितः ।
क्षुत्तृट्तापपरीताङ्गः इतश्चेतश्च चंक्रमन् ॥२॥
स ददर्श तदा तत्र होमधेनुं मनोहराम् ।
लतान्तर्देहछिन्नार्धां ब्राह्मणस्याग्निहोत्रिणः ॥३॥
स मन्यमानो गवयमिषुणा तामताडयत् ।
पपात सापि तद्बाणविभिन्नहृदया भुवि ॥४॥
ततोऽग्निहोत्रिणः पुत्रो ब्रह्मचारी तपोरतिः ।
शप्तवान्स पितुर्दृष्ट्वा होमधेनुं निपातिताम् ॥५॥
गोपालः प्रेषितः पुत्रो बाभ्रव्यो नाम नामतः ।
कोपामर्षपराधीनचित्तवृत्तिस्ततो मुने ॥६॥
चुकोप विगलत्स्वेदजललोलाविलेक्षणः ।
तं क्रुद्धं प्रेक्ष्य स नृपः पृषध्रो मुनिदारकम् ॥७॥
प्रसीदेति जगौ कस्माच्छूद्रवत्कुरुषे रुषम् ।
न क्षत्रियो न वा वैश्य एवं क्रोधमुपैति वै ॥
यथा त्वं शूद्रवज्जातो विशिष्टे ब्रह्मणः कुले ॥८॥
मार्कण्डेय उवाच
इति निर्भत्सितस्तेन स राज्ञा मौलिनः सुतः ।
शशाप तं दुरात्मानं शूद्र एव भविष्यसि ॥९॥
प्रयास्यति क्षयं ब्रह्मन्यत्तेऽधीतं गुरोर्मुखात् ।
होमधेनुर्मम गुरोर्यदियं हिंसिता त्वया ॥१०॥
एवं शप्तो नृपः क्रुद्धस्तच्छापपरिपीडितः ।
प्रतिशापपरो विप्र तोयं जग्राह पाणिना ॥११॥
सोऽपि राज्ञो विनाशाय कोपं चक्रे द्विजोत्तमः ।
तमभ्येत्य त्वरायुक्तो वारयामास वै पिता ॥१२॥
वत्सालमलमत्यर्थं कोपेनातीव वैरिणा ।
ऐहिकामुष्मिकहितः शम एव द्विजन्मनाम् ॥१३॥
कोपस्तपो नाशयति क्रुद्धो भ्रश्यत्यथायुषः ।
क्रुद्धस्य गलते ज्ञानं क्रुद्धश्चार्थाच्च हीयते ॥१४॥
न धर्मः क्रोधशीलस्य नार्थं चाप्नोति रोषणः ।
नालं सुखाय कामास्ति कोपेनाविष्टचेतसाम् ॥१५॥
यदि राज्ञा हता धेनुरियं विज्ञानिना सता ।
युक्तमत्र दयां कर्तुमात्मनो हितबोधिना ॥१६॥
अथवाऽजानता धेनुरियं व्यापादिता मम ।
तत्कथं शापयोग्योऽयं दुष्टं नास्य मनो यतः ॥१७॥
आत्मनो हितमन्विच्छन्बाधते योऽपरं नरः ।
कर्तव्या मूढविज्ञाने दया तत्र दयालुभिः ॥१८॥
अज्ञानतः कृते दण्डं पातयन्ति बुधा यदि ।
बुधेभ्यस्तमहं मन्ये वरमज्ञानिनो नराः ॥१९॥
नाद्य शापस्त्वया देयः पार्थिवस्यास्य पुत्रक ।
स्वकर्मणैव पतिता गौरेषा दुःखमृत्युना ॥२०॥
मार्कण्डेय उवाच
पृषध्रोऽपि मुनेः पुत्रं प्रणम्यानम्रकन्धरः ।
प्रसीदेति जगादोच्चैरज्ञानाद्घातितेति च ॥२१॥
मया गवयबुद्ध्या गौरवध्या घातिता मुने ।
अज्ञानाद्धोमधेनुस्ते प्रसीद त्वं च नो मुने ॥२२॥
ऋषिपुत्र उवाच
आजन्मनो महीपाल न मया व्याहतं मृषा ।
क्रोधश्चाद्य महाभाग नान्यथा मे कदाचन ॥२३॥
तन्नाहमेनं शक्नोमि शापं कर्तुं नृपान्न्यथा ।
यस्ते समुद्यतः शापो द्वितीयः स निवर्तितः ॥२४॥
इत्युक्तवन्तं तं बालमादाय स पिता ततः ।
जगाम स्वाश्रमं सोऽपि पृषध्रः शूद्रतामगात् ॥२५॥
इति श्रीमार्कण्डेयपुराणे वंशानुचरिते पृषध्रोपाख्याने नवाधिकशततमोऽध्यायः । १०९।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP