संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| षष्टषष्टितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - षष्टषष्टितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत षष्टषष्टितमोऽध्यायः Translation - भाषांतर ब्राह्मणवाक्यवर्णनम्मार्कण्डेय उवाचएवं निरस्यमानास्ता हरिणेन मृगाङ्गनाः ।श्रुत्वा स्वरोचिरात्मानं मेने स पतितं यथा ॥१॥त्यागे चकार च मनः स तासां मुनिसत्तम ।चक्रवाकीमृगप्रोक्तो मृगचर्याजुगुप्सितः ॥२॥समेत्य ताभिर्भूयश्च वर्द्धमानमनोभवः ।आक्षिप्तनिर्वेदकथो रेमे वर्षशतानि षट् ॥३॥किन्तु धर्माविरोधेन कुर्वन्धर्माश्रिताः क्रियाः ।भुङ्क्ते स्वरोचिर्विषयान्सह ताभिरुदारधीः ॥४॥ततश्च जज्ञिरे तस्य त्रयः पुत्राः स्वरोचिषः ।विजयो मेरुनन्दश्च प्रभावश्च महाबलः ॥५॥मनोरमा च विजयं प्रासूतेन्दीवरात्मजा ।विभावरी मेरुनन्दं प्रभावं च कलावती ॥६॥पद्मिनी नाम या विद्या सर्वभोगोपपादिका ।स तेषां तत्प्रभावेण पिता चक्रे पुरत्रयम् ॥७॥प्राच्यां तु विजयं नाम कामरूपे नगोत्तमे ।विजयाय सुतायादौ स ददौ पुरमुत्तमम् ॥८॥उदीच्यां मेरुनन्दस्य पुरीं नन्दवतीमिति ।ख्यातां चकार प्रोत्तुङ्गवप्रप्राकारमालिनीम् ॥९॥कलावतीसुतस्यापि प्रभावस्य निवेशितम् ।पुरं तालमिति ख्यातं दक्षिणापथमाश्रितम् ॥१०॥एवं निवेश्य पुत्रान्स पुरेषु पुरुषर्षभ ।रेमे ताभिः समं विप्र मनोज्ञास्वद्रिभूमिषु ॥११॥एकदा तु गतोऽरण्ये विहरन्स धनुर्द्धरः ।चकर्ष धनुरालोक्य वराहमतिदूरगम् ॥१२॥अथाह काचिदभ्येत्य तं तदा हरिणाङ्गना ।मय्येव पात्यतां बाणः प्रसीदेति पुनः पुनः ॥१३॥किमनेन हतेनाद्य मामाशु विनिपातय ।त्वया निपातितो बाणो दुःखान्मां मोक्षयिष्यति ॥१४॥स्वरोचिरुवाचन ते शरीरं सरुजमस्माभिरुपलक्ष्यते ।किन्नु तत्कारणं येन त्वं प्राणान्हातुमिच्छसि ॥१५॥मृग्युवाचअन्यास्वासक्तहृदये यस्मिंश्चेतः कृतास्पदम् ।मम तेन विना मृत्युरौषधं किमिहापरम् ॥१६॥स्वरोचिरुवाचकस्त्वां नाभिलषेद्भीरु सानुरागासि कुत्र वा ।यदप्रात्तौ निजान्प्राणान्परित्यक्तुं व्यवस्यसि ॥१७॥मृग्युवाचत्वामेवेच्छामि भद्रं ते त्वया मेऽपहृतं मनः ।वृणोम्यहमतो मृत्युं मयि बाणो निपात्यताम् ॥१८॥स्वरोचिरुवाचत्वं मृगी चञ्चलापाङ्गी नररूपधरा वयम् ।कथं त्वया समं योगो मद्विधस्य भविष्यति ॥१९॥मृग्युवाचयदि सापेक्षितं चित्तं मयि ते मां परिष्वज ।यदि वाऽसाधु चित्तं ते करिष्यामि यथेप्सितम् ॥२०॥एतावताहं भवता भविष्याम्यतिमानिता ॥मार्कण्डेय उवाचआलिलिङ्ग ततस्तां स स्वरोचिर्हरिणाङ्गनाम् ॥२१॥तेन चालिङ्गिता सद्यः साभूद्दिव्यवपुर्धरा ।ततः सविस्मयाविष्टः का त्वमित्थभ्यभाषत ॥२२॥सा चास्मै कथयामास प्रेमलज्जाजडाक्षरम् ।अहमम्यर्थिता देवैः काननस्यास्य देवता ॥२३॥उत्पादनीयो हि मनुस्त्वया मयि महामते ।प्रीतिमत्यां मयि सुतं भूर्लोकपरिपालकम् ॥२४॥तमुत्पादय देवानां त्वामहं वचनाद्वदे |मार्कण्डेय उवाचततः स तस्यां तनयं सर्वलक्षणलक्षितम् ॥२५॥तेजस्विनमिवात्मानं जनयामास तत्क्षणात् ।जातमात्रस्य तस्याथ देववाद्यानि सस्वनुः ॥२६॥जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।सिषिचुः शीकरैर्मेघा ऋषयश्च तपोधनाः ॥२७॥देवाश्च पुष्पवर्षं च मुमुचुश्च समन्ततः ।तस्य तेजः समालोक्य नाम चक्रे पिता स्वयम् ॥२८॥द्युतिमानिति येनास्य तेजसा भासिता दिशः ।स बालो द्युतिमान्नाम महाबलपराक्रमः ॥२९॥स्वरोचिषः सुतो यस्मात्तस्मात्स्वारोचिषोऽभवत् ।स चापि विचरन्रम्ये कदाचिद्गिरिनिर्झरे ॥३०॥स्वरोचिर्ददृशे हंसं निजपत्नीसमन्वितम् ।उवाच स तदा हंसी साभिलाषां पुनः पुनः ॥३१॥उपसंह्रियतामात्मा चिरं ते क्रीडितं मया ।किं सर्वकालं भोगैस्ते आसन्नं चरमं वयः ॥३२॥परित्यागस्य कालो मे तव चापि जलेचरिहंस्युवाचअकालः को हि भोगानां सर्वं भोगात्मकं जगत् ॥३३॥यज्ञाः क्रियन्ते भोगार्थं ब्राह्मणैः संयतात्मभिः ।दृष्टादृष्टांस्तथा भोगान्वाञ्छमाना विवेकिनः ॥३४॥दानानि च प्रयच्छन्ति पूतान्धर्मांश्च कुर्वते ।स त्वं नेच्छसि किं भोगान्भोगश्चेष्टफलं नृणाम् ॥३५॥विवेकिनां तिरश्चां च किं पुनः संयतात्मनाम्हंस उवाचभोगेष्वासक्तचित्तानां परमार्थान्विता मतिः ।भविष्यति कदा सङ्गमुपेतानां च बन्धुषु ॥३६॥पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः ।सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥३७॥किं न पश्यसि वा भद्रे जातसङ्गं स्वरोचिषम् ।आबाल्यात्कामसंसक्तं मग्नं स्नेहाम्बुकर्दमे ॥३८॥यौवनेऽतीव भार्यासु साम्प्रतं पुत्रनप्तृषु ।स्वरोचिषो मनो मग्नमुद्धारं प्राप्स्यते कुतः ॥३९॥नाहं स्वरोचिषस्तुल्यः स्त्रीवश्यो वा जलेचरि ।विवेकवांश्च भोगानां निवृत्तोऽस्मि च साम्प्रतम् ॥४०॥मार्कण्डेय उवाचस्वरोचिरेतदाकर्ण्य जातोद्वेगः खगेरितम् ।आदाय भार्यास्तपसे ययावन्यत्तपोवनम् ॥४१॥तत्र तप्त्वा तपो घोरं सह ताभिरुदारधीः ।जगाम लोकानमलान्निवृत्ताखिलकल्मषः ॥४२॥इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे षष्टषष्टितमोऽध्यायः N/A References : N/A Last Updated : March 26, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP