संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| सप्ततितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - सप्ततितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत सप्ततितमोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचअथारुरोह स्वरथं प्रणिपत्य महामुनिम् ।तेनाख्यातं वनन्तच्च प्रययावुत्पलावतम् ॥१॥यथाख्यातस्वरूपाञ्च भार्यां भर्त्रा द्विजस्य ताम् ।भक्षयन्तीं ददार्शाथ श्रीफलानि नरेश्वरः ॥२॥पप्रच्छ च कथं भद्रे ! त्वमेतद्वनमागता ।स्फुटं ब्रवीहि वैशालेरपि भार्या सुशर्मणः ॥३॥ब्राह्मण्युवाचसुताहमतिरात्रस्य द्विजस्य वनवासिनः ।पत्नी विशालपुत्रस्य यस्य नाम त्वयोदितम् ॥४॥साहं हृता बलाकेन राक्षसेन दुरात्मना ।प्रसुप्ता भवनस्यान्ते भ्रातृमातृवियोजिता ॥५॥भस्मीभवतु तद्रक्षो येनास्म्येवं वियोजिता ।मात्रा भ्रातृभिरन्यैश्च तिष्टाम्यत्र सुदुः खिता ॥६॥अस्मिन् वनेऽतिगहने तेनानीयाहमुज्झिता ।न वेद्मि कारणं कि तन्नोपभुङ्क्ते न खादति ॥७॥राजोवाचअपि तज्ज्ञायते रक्षस्त्वामुत्सृज्य क्व वै गतम् ।अहं भर्त्रा तवैवात्र प्रेषितो द्विजनन्दिनि ॥८॥ब्राह्मण्युवाचअस्यैव काननस्यान्ते स तिष्ठति निशाचरः ।प्रविश्य पश्यतु भवान् न बिभेति ततो यदि ॥९॥मार्कण्डेय उवाचप्रविवेश ततः सोऽथ तया वर्त्मनि दर्शिते ।ददृशे परिवारेण समवेतञ्च राक्षसम् ॥१०॥दृष्टमात्रे ततस्तस्मिन् त्वरमाणः स राक्षसः ।दूरादेव महीं मूर्ध्ना स्पृशन् पादान्तिकं ययौ ॥११॥राक्षस उवाचममात्रागच्छता गेहं प्रसादस्ते महान् कृतः ।प्रशाधि किं करोम्येष वसामि विषये तव ॥१२॥अर्घञ्चेमं प्रतीच्छ त्वं स्थीयताञ्चेदमासनम् ।वयं भृत्या भवान् स्वामी दृढमाज्ञापयस्व माम् ॥१३॥राजोवाचकृतमेव त्वया सर्वं सर्वामेवातिथिक्रियाम् ।किमर्थं ब्राह्मणवधूस्त्वयानीता निशाचर ॥१४॥नेयं सुरूपा सन्त्यन्या भार्यार्थञ्चेद् हृता त्वया ।भक्ष्यार्थं चेत्कथं नात्ता त्वयैतत्कथ्यतां मम ॥१५॥राक्षस उवाचन वयं मानुषाहारा अन्ये ते नृप ! राक्षसाः ।सुकृतस्य फलं यत्तु तदश्नीमो वयं नृप ॥१६॥स्वभावञ्च मनुष्याणां योषिताञ्च विमानिताः ।मानिताश्च समश्नीमो न वयं जन्तुखादकाः ॥१७॥यदस्माभिर्नृणां क्षान्तिर्भुक्ता क्रुध्यन्ति ते तदा ।भुक्ते दुष्टे स्वभावे च गुणवन्तो भवन्ति च ॥१८॥सन्ति नः प्रमदा भूप ! रूपेणाप्सरसां समाः ।राक्षस्यस्तासु तिष्ठत्सु मानुषीषु रतिः कथम् ॥१९॥राजोवाचयद्येषा नोपभोगाय नाहाराय निशाचर ।गृहं प्रविश्य विप्रस्य तत्किमेषा हृता त्वया ॥२०॥राक्षस उवाचमन्त्रवित् स द्विजश्रेष्ठो यज्ञे यज्ञे गतस्य मे ।रक्षोघ्नमन्त्रपठनात् करोत्युच्चाटनं नृप ॥२१॥वयं बुभुक्षितास्तस्य मन्त्रोच्चाटनकर्मणा ।क्व यामः सर्वयज्ञेषु स ऋत्विग् भवति द्विजः ॥२२॥ततोऽस्माभिरिदन्तस्य वैकल्यमुपपादितम् ।पत्न्या विना पुमानिज्याकर्मयोग्यो न जायते ॥२३॥मार्कण्डेय उवाचवैकल्योच्चारणात्तस्य ब्राह्मणस्य महामतेः ।ततः स राजातिभृशं विषण्णः समजायत ॥२४॥वैकल्यमेवं विप्रस्य वदन्मामेव निन्दति ।अनर्हमर्घस्य च मां सोऽप्याह मुनिसत्तमः ॥२५॥वैकल्यं तस्य विप्रस्य राक्षसोऽप्याह मे यथा ।अपत्नीकतया सोऽहं सङ्कटं महदास्थितः ॥२६॥मार्कण्डेय उवाचएवं चिन्तयतस्तस्य पुनरप्याह राक्षसः ।प्रणामनम्रो राजानं बद्धाञ्जलिपुटो मुने ॥२७॥नरेन्द्राज्ञाप्रदानेन प्रसादः क्रियतां मम ।भृत्यस्य प्रणतस्य त्वं युष्मद्विषयवासिनः ॥२८॥राजोवाचस्वभावं वयमश्नीमस्त्वयोक्तं यन्निशाचर ।तदर्थिनो वयं येन कार्येण शृणु तन्मम ॥२९॥अस्यास्त्वयाद्य ब्राह्मण्या दौः शील्यमुपभुज्यताम् ।येन त्वयात्तदौः शील्या तद्विनीता भवेदियम् ॥३०॥नीयतां यस्य भार्येयं तस्य वेश्म निशाचर ।अस्मिन् कृते कृतं सर्वं गृहमभ्यागतस्य मे ॥३१॥मार्कण्डेय उवाचततः स राक्षसस्तस्याः प्रविश्यान्तः स्वमायया ।भक्षयामास दौः शील्यं निजशक्त्या नृपाज्ञया ॥३२॥दौः शील्येनातिरौद्रेण पत्नी तस्य द्विजन्मनः ।तेन सा संपरित्यक्ता तमाह जगतीपतिम् ॥३३॥स्वकर्मफलपाकेन भर्तुस्तस्य महात्मनः ।वियोजिताहं तद्धेतुरयमासीन्निशाचरः ॥३४॥नास्य दोषो न वा तस्य मम भर्तुर्महात्मनः ।ममैव दोषो नान्यस्य सुकृतं ह्युपभुज्यते ॥३५॥अन्यजन्मनि कस्यापि विप्रयोगः कृतो मया ।सोऽयं ममाप्युपगतः को दोषोऽस्य महात्मनः ॥३६॥राक्षस उवाचप्रापयामि तवादेशादिमां भर्तृगृहं प्रभो ।यदन्यत्करणीयन्ते तदाज्ञापय पार्थिव ॥३७॥राजोवाचअस्मिन् कृते कृतं सर्वं त्वया मे रजनीचर ।आगन्तव्यञ्च ते वीर ! कार्यकाले स्मृतेन मे ॥३८॥मार्कण्डेय उवाचनथेत्युक्त्वा तु तद्रक्षस्तामादाय द्विजाङ्गनाम् ।निन्ये भर्तृगृहं शुद्धां दौः शोल्यापगमात्तदा ॥३९॥इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे सप्ततितमोऽध्यायः N/A References : N/A Last Updated : March 26, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP