संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| द्विनवतितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - द्विनवतितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत द्विनवतितमोऽध्यायः Translation - भाषांतर देव्युवाचएभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः ।तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् ॥१॥मधुकैटभानाशं च महिषासुरघातनम् ।कीर्तयिष्यिन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः ॥२॥अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।स्तोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥३॥न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः ।भविष्यति न दारिद्रयं न चैवेष्टवियोजनम् ॥४॥शत्रुतो न भयं तस्य दस्युतो वा न राजतः ।न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति ॥५॥तस्मान्ममैतन्माहात्म्यं पठितव्यं सहाहितैः ।श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥६॥उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥७॥यत्रैतत् पठ्यते सम्यङ्नित्यमायतने मम ।सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम् ॥८॥बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च ॥९॥जानताजानता वापि बलिपूजां तथा कृताम् ।प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम् ॥१०॥शरत्काले महापूजा क्रियते या च वार्षिकी ।तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥११॥सर्वबाधाविनिर्मृक्तो धनधान्यसमन्वितः ।मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥१२॥श्रुत्वा ममैतन्माहात्म्यं तथोत्पत्तीः पृथक् शुभाः ।पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥१३॥रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते ।नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥१४॥शान्तिकर्मणि सर्वत्र तथा दुः स्वप्नदर्शने ।ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥१५॥उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः ।दुः स्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥१६॥बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।संघातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥१७॥दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥१८॥सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ॥१९॥पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ।विप्राणां भोजनैर्हेमैः प्रोक्षणीयैरहर्निशम् ॥२०॥अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ।प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते ॥२१॥श्रुतं हरति पापानि तथाऽरोग्यं प्रयच्छति ।रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ॥२२॥युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ।तस्मिन् श्रुते वैरिकृतं भयं पुंसां न जायते ॥२३॥युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ।ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां गतिम् ॥२४॥अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ।दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ॥२५॥सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ।राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ॥२६॥आघूर्णितो वा वातेन स्थितः पोते महार्णवे ।पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे ॥२७॥सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ।स्मरन्ममैतच्छरितं नरो मुच्येत सङ्कटात् ॥२८॥मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ।दूरादेव पलायन्ते स्मरतश्चरितं मम ॥२९॥ऋषिरुवाचइत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ।पश्यतामेव देवानां तत्रैवान्तरधीयत ॥३०॥तेऽपि देव्या निरातङ्का स्वाधिकारान् यथा पुरा ।यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ॥३१॥दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि ।जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे ।निशुम्भे च महावीर्ये शेषाः पातालमाययुः ॥३२॥एवं भगवती देवी सा नित्यापि पुनः पुनः ।सम्भूय कुरुते भूप जगतः परिपालनम् ॥३३॥तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥३४॥व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ।महाकाल्या महाकाले महाकारीस्वरूपया ॥३५॥सैव काले महामारी सैव सृष्टिर्भवत्यजा ।स्थितिं करोति भूतानां सैव काले सनातनी ॥३६॥भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥३७॥स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिबिस्तथा ।ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॥३८॥इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देवीवाक्यं नाम द्विनवतितमोऽध्यायः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP