संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
द्व्यधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - द्व्यधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मार्तण्डोत्पत्तिवर्णनम्
मार्कण्डेय उवाच
ततः स्वतेजसस्तस्मादाविर्भूतो विभावसुः ।
अदृश्यत तदादित्यस्तप्तताम्रोपमप्रभः ॥१॥
अथ तां प्रणतां देवीं तस्य संदर्शनान्मुने ।
प्राह भास्वन्वृणुष्वेष्टवरं मत्तो यमिच्छसि ॥२॥
प्रणता शिरसा सा च जानुपीडितमेदिनी ।
प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥३॥
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम ।
यज्ञभागाश्च दैत्यैश्च दानवैश्च बलाधिकैः ॥४॥
तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ।
अंशेन तेषां भ्रातृत्वं गत्वा नाशय तद्रिपून् ॥५॥
यथा मे तनया भूयो यज्ञभागभुजः प्रभो ।
भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥६॥
तथानुकम्पां पुत्राणां सुप्रसन्नो रवे मम ।
कुरु प्रपन्नार्तिहर स्थितिकर्त्ता त्वमुच्यसे ॥७॥
मार्कण्डेय उवाच
ततस्तामाह भगवान्भास्करो वारितस्करः ।
प्रणतामदितिं विप्र प्रसादसुमुखो विभुः ॥८॥
सहस्रांशेन ते गर्भे सम्भूयाहमशेषतः ।
त्वत्पुत्रशत्रूनदिते नाशयाम्याशु निर्वृतः ॥९॥
इत्युक्त्वा भगवान्भास्वानन्तर्द्धानमुपागमत् ।
निवृत्ता सापि तपसः संतृप्ताखिलवाञ्छिता ॥१०॥
ततो रश्मिसहस्रात्तु सौषुम्नाख्यो रवेः करः ।
विप्रावतारं संचक्रे देवमातुरथोदरे ॥११॥
कृच्छ्रचान्द्रायणादीनि सा च चक्रे समाहिता ।
शुचिः संधारयामास दिव्यं गर्भमिति द्विज ॥१२॥
ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ।
किं मारयसि गर्भाण्डमिति नित्योपवासिनी ॥१३॥
सा च तं प्राह गर्भाण्डमेतत्पश्येति कोपना ।
न मारितं विपक्षाणां मृत्यवे तद्भविष्यति ॥१४॥
मार्कण्डेय उवाच
इत्युक्त्वा तं तदा गर्भमुत्ससर्ज्ज सुरारणिः ।
जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता ॥१५॥
तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्च्चसम् ।
तुष्टाव प्रणतो भूत्वा ऋग्भिराद्याभिरादरात् ॥१६॥
संस्तूयमानः स तदा गर्भाण्डात्प्रकटोऽभवत् ।
पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥१७॥
अथान्तरिक्षादाभाष्य कश्यपं मुनिसत्तमम् ।
सतोयमेघगम्भीरवागुवाचाशरीरिणी ॥१८॥
मारितं ते यतः प्रोक्तमेतदण्डं त्वया मुने ।
तस्मान्मुने सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति ॥१९॥
सूर्याधिकारं च विभुर्जगत्येष करिष्यति ।
हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् ॥२०॥
देवा निशम्येति वचो गगनात्समुपागमन् ।
प्रहर्षमतुलं याता दानवाश्च हतौजसः ॥२१॥
ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ।
सह देवैर्मुदा युक्तो दानवाश्च समभ्ययुः ॥२२॥
तेषां युद्धमभूद्घोरं देवानामसुरैः सह ।
शस्त्रास्त्रदीप्तिसंदीप्तं समस्तभुवनान्तरम् ॥२३॥
तस्मिन्युद्धे भगवता मार्त्तण्डेन निरीक्षिताः ।
तेजसा दह्यमानास्ते भस्मीभूता महासुराः ॥२४॥
ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ।
तुष्टुवुस्तेजसा योनिं मार्त्तण्डमदितिं तथा ॥२५॥
स्वाधिकारांस्तथा प्राप्ता यज्ञभागांश्च पूर्ववत् ।
भगवानपि मार्तण्डः स्वाधिकारमथाकरोत् ॥२६॥
कदम्बपुष्पवद्भास्वानधश्चोर्ध्वं च रश्मिभिः ।
वृत्ताग्निपिण्डसदृशो दध्रे नातिस्फुरद्वपुः ॥२७॥
इति श्रीमार्कण्डेयपुराणे मार्तण्डोत्पत्तिर्नाम द्व्यधिकशततमोऽध्यायः । १०२ ।

N/A

References : N/A
Last Updated : April 02, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP