संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| अथाष्टाविंशत्यधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - अथाष्टाविंशत्यधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत अथाष्टाविंशत्यधिकशततमोऽध्यायः Translation - भाषांतर मरुत्तचरितवर्णनम्मार्कण्डेय उवाचस तु तत्र सुतं दृष्ट्वा गृहीतवरकार्मुकम् ।धनुः शस्त्रं च तस्योग्रं ज्वालाव्याप्तदिगन्तरम् ॥१॥उद्गिरन्तं महावह्निं दीपिताखिलभूतलम् ।पातालान्तर्गतं प्राप्तमसह्यं घोरभीषणम् ॥२॥स तं दृष्ट्वा महीपालं भृकुटीकुटिलाननम् ।मा क्रुधस्त्वं मरुत्तास्त्रमुपसंह्रियतामिति ॥३॥प्राहासकृच्चानुलुप्तवर्णक्रममुदारधीः ।स निशम्य गुरोर्वाक्यं दृष्ट्वा तं च पुनः पुनः ॥४॥गृहीतकार्मुकः पित्रोः प्रणिपत्य सगौरवम् ।प्रत्युवाचापराद्धा मे सुभृशं पन्नगाः पितः ॥५॥शासतीमां मयि महीं परिभूय बलं मम ।सप्ताश्रममुपागम्य दष्टा मुनिकुमारकाः ॥६॥ऋषीणामाश्रमस्थानाममीषामवनीपते ।मयि शासति दुर्वृत्तैर्दूषितानि हवींषि च ॥७॥जलाशयास्तथाप्येतैः सर्व एव हि दूषिताः ।तदेत्कारणं किञ्चिन्न वक्तव्यं त्वया पितः ॥न निवारयितव्योऽहं ब्रह्मघ्नान्प्रतिपन्नगान् ॥८॥अविक्षिदुवाचयद्येभिर्निहता विप्रा यास्यन्ति नरकं मृताः ।ममैतत्कियतां वाक्यं विरमास्त्रप्रयोगतः ॥९॥मरुत्त उवाचनाहमेषां क्षमिष्यामि दुष्टानामपराधिनाम् ।अहमेव गमिष्यामि नरकं यदि पापिनाम् ॥न निग्रहे यताम्येषां मां निवारय मा पितः ॥१०॥अविक्षिदुवाचमामेते शरणं प्राप्ताः पन्नगा मम गौरवात् ।उपसंह्रियतामस्त्रमलं कोपेन ते नृप ॥११॥मरुत्त उवाचनाहमेषां क्षमिष्यामि दुष्टानामपराधिनाम् ।स्वधर्ममुल्लंघ्य कथं करिष्यामि वचस्तव ॥१२॥दण्ड्ये निपातयन्दण्डं भूपः शिष्टांश्च पालयन् ।पुण्यलोकानवाप्नोति नरकांश्चाप्युपेक्षणात् ॥१३॥मार्कण्डेय उवाचएवं स बहुशः पित्रा वार्यमाणोऽम्बया सह ।नोपसंहरते सोऽस्त्रं ततोऽसौ पुनरब्रवीत् ॥१४॥हिंससे पन्नगान्भीतान्ममैताञ्छरणं गतान् ।वार्यमाणोऽपि तस्मात्ते करिष्यामि प्रतिक्रियाम् ॥१५॥मयाप्यस्त्राण्यवाप्तानि न त्वमेकोऽस्त्रविद्भुवि ।ममाग्रतः सुदुर्वृत्तपौरुषं च कियत्तव ॥१६॥ततः कार्मुकमारोप्य कोपताम्रविलोचनः ।अविक्षिदस्त्रं जग्राह कालस्य मुनिपुङ्गव ॥१७॥ततो ज्वालापरीवारमरिसंघघ्नमुत्तमम् ।कालास्त्रं तु महावीर्यं योजयामास कार्मुके ॥१८॥ततश्चुक्षोभ जगती संवर्त्तास्त्रप्रतापिता ।साब्धिशैलाऽखिला विप्र कालस्यास्त्रे समुद्यते ॥१९॥मार्कण्डेय उवाचकालास्त्रमुद्यतं पित्रा मरुत्तः सोऽपि वीक्ष्य तत् ।प्राहोच्चैरस्त्रमेतन्मे दुष्टशास्तिसमुद्यतम् ॥२०॥न त्वद्वधाय कालास्त्रं मयि मुञ्चति किं भवान् ।स्वधर्मचारिणि सुते सदैवाज्ञाकरे तव ॥२१॥मया कार्यं महाभाग प्रजानां परिपालनम् ।त्वयैवं क्रियते कस्मान्मद्वधायास्त्रमुद्यतम् ॥२२॥अविक्षिदुवाचशरणागतसंत्राणं कर्तुं व्यवसिता वयम् ।तस्य व्याघातकर्त्ता त्वं न मे जीवन्विमोक्ष्यसे ॥२३॥मां वा हत्वास्त्रवीर्येण जहि दुष्टानिहोरगान् ।त्वां वा हत्वाऽहमस्त्रेण रक्षिष्यामि महोरगान् ॥२४॥धिक्तस्य जीवितं पुंसः शरणार्थिनमागतम् ।योनार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम् ॥२५॥क्षत्रियोऽहमिमे भीताः शरणं मामुपागताः ।अपकर्त्ता त्वमेवैषां कथं वध्यो न मे भवान् ॥२६॥मरुत्त उवाचमित्रं वा बान्धवो वाऽपि पिता वा यदि वा गुरुः ।प्रजापालनविघ्नाय यो हन्तव्यः स भूभृता ॥२७॥सोऽहं ते प्रहरिष्यामि न क्रोद्धव्यं त्वया पितः ।स्वधर्मः परिपाल्यो मे न मे क्रोधस्तवोपरि ॥२८॥मार्कण्डेय उवाचततस्तौ निश्चितौ दृष्ट्वा परस्परवधं प्रति ।समुत्पत्यान्तरे तस्थुर्मुनयो भार्गवादयः ॥२९॥ऊचुश्चैनं न मोक्तव्यं त्वयास्त्रं पितरं प्रति ।त्वया च नायं हन्तव्यः पुत्रः प्रख्यातचेष्टितः ॥३०॥मरुत्त उवाचमया दुष्टा निहन्तव्याः सन्तो रक्ष्या महीक्षिता ।इमे च दुष्टा भुजगाः कोऽपराधोऽत्र मे द्विजाः ॥३१॥अविक्षिदुवाचशरणागतसन्त्राणं मया कार्यमयं च मे ।अपराध्यः सुतो विप्रा यो हन्ति शरणागतान् ॥३२॥ऋषयः ऊचुःइमे वदन्ति भुजगास्त्रासलोलविलोचनाः ।संजीवयामस्तान्विप्रान्ये दष्टा दुष्टपन्नगैः ॥३३॥तदलं विग्रहेणोभौ राजवर्यौ प्रसीदताम् ।उभावपि विनिर्व्यूढप्रतिज्ञे धर्मकोविदौ ॥३४॥मार्कण्डेय उवाचसा तु वीरा समभ्येत्य पुत्रमेतदभाषत ।मद्वाक्यादेष ते पुत्रो हन्तुं नागान्कृतोद्यमः ॥३५॥तन्निष्पन्नं यदा विप्रास्ते जीवन्ति तथा मृताः ।सञ्जीवन्तश्च मुच्यन्ते यद्युष्मच्छरणं गताः ॥३६॥भामिन्युवाचअहमभ्यर्थिता पूर्वमेभिः पातालसंश्रयैः ।तन्निमित्तमयं भर्त्ता मयात्र विनियोजितः ॥३७॥तदेतदार्ये निर्वृत्तमुभयोरपि शोभनम् ।मम भर्तुश्च पुत्रस्य त्वत्पौत्रस्यात्मजस्य च ॥३८॥मार्कण्डेय उवाचततः सञ्जीवयामासुस्तान्विप्रांस्ते भुजङ्गमाः ।दिव्यैरोषधिजातैश्च विषसंहरणेन च ॥३९॥पित्रोर्ननाम चरणौ स ततो जगतीपतिः ।मरुत्तश्च स तं प्रीत्या परिष्वज्येदमब्रवीत् ॥४०॥मानहा भव शत्रूणां चिरं पालय मेदिनीम् ।पुत्रपौत्रैश्च मोदस्व मा च ते सन्तु विद्विषः ॥४१॥ततो द्विजैरनुज्ञातौ वीरया च नरेश्वरौ ।समारूढौ रथं सा च भामिनी स्वपुरं गता ॥४२॥वीराऽपि कृत्वा सुमहत्तपो धर्मभृतां वरा ।भर्तुः सलोकतां प्राप्ता महाभागा पतिव्रता ॥४३॥मरुत्तोऽपि चकारोर्व्यां धर्मतः परिपालनम् ।विनिर्जितारिषड्वर्गो भोगांश्च बुभुजे नृपः ॥४४॥तस्य पत्नी महाभागा विदर्भतनया तथा ।प्रभावती सुवीरस्य सौवीरी चाभवत्सुता ॥४५॥सुकेशी केतुवीर्यस्य मागधस्यात्मजाऽभवत् ।सुता च सिन्धुवीर्यस्य मद्रराजस्य केकयी ॥४६॥केकयस्य च सैरन्ध्री सिन्धुभर्तुर्वपुष्मती ।चेदिराजसुता चाभूद्भार्या तस्य सुशोभना ॥४७॥तासां पुत्रास्तस्य चासन्भूभृतोऽष्टादश द्विज ।तेषां प्रधानो ज्येष्ठश्च नरिष्यन्तः सुतोऽभवत् ॥४८॥एवं वीर्यो मरुत्तोभून्महाराजो महाबलः ।तस्याप्रतिहतं चक्रमासीद्द्वीपेषु सप्तसु ॥४९॥यस्य तुल्योऽपरो राजा न भूतो न भविष्यति ।सत्त्वविक्रमयुक्तस्य राजर्षेरमितौजसः ॥५०॥तस्यैतच्चरितं श्रुत्वा मरुत्तस्य महात्मनः ।जन्म चाग्र्यं द्विजश्रेठ मुच्यते सर्वकिल्बिषैः ॥५१॥इति श्रीमार्कण्डेयपुराणे मरुत्तचरितेऽष्टाविंशत्यधिकशततमोऽध्यायः । १२८ । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP