संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| षड्विंशत्यधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - षड्विंशत्यधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत षड्विंशत्यधिकशततमोऽध्यायः Translation - भाषांतर मरुत्तचरितवर्णनम्क्रौष्टुकिरुवाचभगवन्विस्तरात्सर्वं ममैतत्कथितं त्वया ।करन्धमस्य चरितमविक्षिच्चरितं च यत् ॥१॥अविक्षितस्य नृपतेर्मरुत्तस्य महात्मनः ।श्रोतुमिच्छामि चरितं श्रूयते सोऽतिचेष्टितः ॥२॥चक्रवर्त्ती महाभागः शूरः कान्तो महामतिः ।धर्मविद्धर्मकृच्चैव सम्यक्पालयिता भुवः ॥३॥मार्कण्डेय उवाचस पित्रा समनुज्ञातं राज्यं प्राप्य पितामहात् ।धर्मतः पालयामास पिता पुत्रानिवौरसान् ॥४॥इयाज सुबहून्यज्ञान्यथावत्स्वाप्तदक्षिणान् ।ऋत्विक्पुरोहितादेशादनिर्विण्णो महीपतिः ॥५॥तस्याप्रतिहतं चक्रमासीद्द्वीपेषु सप्तसु ।गतिश्चाप्यनवच्छिन्ना स्वःपातालजलादिषु ॥६॥ततः प्राप्य धनं विप्र यथावत्स्वक्रियापरः ।अयजत्स महायज्ञैर्देवानिन्द्रपुरोगमान् ॥७॥इतरे च यथावर्णाः स्वे स्वे कर्मण्यतन्द्रिताः ।तदुपात्तधनाश्चक्रुरिष्टापूर्त्तादिकाः क्रियाः ॥८॥पाल्यमाना मही तेन मरुत्तेन महात्मना ।योऽस्पर्द्धात्त्रिदशावासवासिभिर्द्विजसत्तम ॥९॥तेनातिशयिताः सर्वे केवलं न महीक्षितः ।यज्विना देवराजोऽपि शतयज्ञाभिसन्धिना ॥१०॥ऋत्विक्तस्य तु संवर्त्तो बभूवाङ्गिरसः सुतः ।भ्राता बृहस्पतेर्विप्र महात्मा तपसां निधिः ॥११॥सौवर्णो मुञ्जवान्नाम पर्वतः सुरसेवितः ।पातितं तेन तच्छृङ्गं कृते तस्य महीपतेः ॥१२॥तेन यस्याखिलं यज्ञे भूमिभागादिकं द्विज ।प्रासादाश्च कृताः शुभ्रास्तपसा सर्वकाञ्चनाः ॥१३॥गाथाश्चाप्यत्र गायन्ति मरुत्तचरिताश्रयाः ।सातत्येनर्षयः सर्वे कुर्वन्तोऽध्ययनं यथा ॥१४॥मरुत्तेन समो नाभूद्यजमानो महीतले ।सदः समस्तं यद्यज्ञे प्रासादाश्चैव काञ्चनाः ॥१५॥अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।विप्राणां परिवेष्टारः शक्राद्यास्त्रिदशोत्तमाः ॥१६॥यथा यज्ञे मरुत्तस्य तृप्ताः सर्वे महीपतेः ।सुवर्णमखिलं त्यक्तं रत्नपूर्णगृहे द्विजैः ॥१७॥प्रासादादिसमस्तं च सौवर्णं तस्य यत्क्रतौ ।त्रयो वर्णाह्यलभ्यन्त तस्मात्केचित्तथा ददुः ॥१८॥( तेन त्यक्तेन शिष्टा ये जनाः पूर्णमनोरथाः ।तेऽपि यज्ञान्यजन्ते स्म देशे देशे पृथक्पृथक् ॥)तस्यैवं कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ।तपस्वी कश्चिदभ्येत्य तमाह मुनिसत्तम ॥१९॥पितुर्माता तवाहेदं दृष्ट्वा तापसमण्डलम् ।विषाभिभूतमुरगैर्मदोन्मत्तैर्नरेश्वर ॥२०॥पितामहस्ते स्वर्यातः सम्यक्संपाल्य मेदिनीम् ।पिता तव तथा शक्तो हित्वा ग्रामं वनं गतः ॥( तपश्चरणशक्ताऽहमिह चौर्वाश्रमे स्थिता) ॥२१॥साऽहं पश्यामि वैकल्यं तव राज्यं प्रशासतः ।पितामहस्य तेनाभूद्यत्पूर्वेषां च ते नृप ॥२२॥नूनं प्रमत्तो भोगेषु सक्तो वाऽविजितेन्द्रियः ।चारान्धता यतोऽस्तीयं दुष्टादुष्टं न वेत्सि यत् ॥२३॥पातालादभ्युपेतैस्तु भुजगैर्दशशालिभिः ।दष्टा मुनिसुताः सप्त दूषिताश्च जलाशयः ॥२४॥स्वेदमूत्रपुरीषेण दूषितं सुशृतं हविः ।अपराधं समुद्दिश्य दत्तो नागबलिश्चिरात् ॥२५॥एते समर्था मुनयो भस्मीकर्तुं भुजङ्गमान् ।किन्त्वेषां नाधिकारोऽत्र त्वमेवाधिकारवान् ॥२६॥तावत्सुखं भूपतिजैर्भोगजं प्राप्यते नृप ।अभिषेकजलं यावन्न मूर्ध्नि विनिपात्यते ॥२७॥कानि मित्राणि कः शत्रुर्मम शत्रोर्बलं कियत् ।कोऽहं के मन्त्रिणः पक्षे के वा भूपतयो मम ॥२८॥( कियान्कोशो बलं किंवा कोऽनुरक्तो जनो मम) ।विरक्तो वा परैर्भिन्नः परेषामपि कीदृशः ॥कः सम्यगत्र नगरे विषये वा जनो मम ॥२९॥धर्मकर्माश्रयो मूढः कः सम्यगपि वर्त्तते ।को दण्ड्यः परिपाल्यः कः के चोपेक्ष्या नरा मया ॥३०॥सामभेदतया दम्या देशकालमवेक्षता ।चारांश्च चारयेदन्यैरज्ञातान्भूपतिश्चरैः ॥३१॥सचिवादिषु सर्वेषु चरान्दद्यान्महीपतिः ।इत्यादौ भूपतिर्नित्यं कर्मण्यासक्तमानसः ॥३२॥नयेद्दिनं तथा रात्रिं न तु भोगपरायणः ।राज्ञां शरीरग्रहणं न भोगाय महीपते ॥३३॥क्लेशाय महते पृथ्वी स्वधर्मपरिपालने ।सम्यक्पालयतः पृथ्वीं स्वधर्मं च महीपते ॥३४॥इह क्तेशो महान्स्वर्गे परमं सुखमक्षयम् ।तदेतदवबुध्यस्व हित्वा भोगान्नरेश्वर ॥३५॥पालनाय क्षितेः क्लेशमङ्गीकर्तुमिहार्हसि ।इति वृत्तमृषीणां यद्व्यसनं त्वयि शासति ॥३६॥भुजङ्गहेतुकं भूप चारान्धो नापि वेत्सि तत् ।बहुनात्र किमुक्तेन दुष्टे दण्डो निपात्यताम् ॥३७॥शिष्टान्पालय राजंस्त्वं धर्मषड्भागमाप्स्यसि ।अरक्षन्पापमखिलं दुष्टैरविनयात्कृतम् ॥३८॥समवाप्स्यस्यसन्दिग्धं यदिच्छसि कुरुष्व तत् ।एतन्मयोक्तं सकलं यत्तवाहं पितामहः ॥कुरुष्वैवं स्थिते यत्ते रोचते वसुधाधिप ॥३९॥इति श्रीमार्कण्डेयपुराणे मरुत्तचरितवर्णनं नाम षड्विंशत्यधिकशततमोऽध्यायः । १२६ । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP