संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| षण्णवतितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - षण्णवतितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत षण्णवतितमोऽध्यायः Translation - भाषांतर अग्निस्तोत्रनामवर्णनम्मार्कण्डेय उवाचततः परं तु भौत्यस्य समुत्पत्तिं निशामय ।देवानृषींस्तथा पुत्रांस्तथैव वसुधाधिपान् ॥१॥बभूवाङ्गिरसः शिष्यो भूतिर्नाम्नातिकोपनः ।चण्डशापप्रदोऽल्पेऽर्थे मुनिरागस्यसौम्यवाक् ॥२॥तस्याश्रमे मातरिश्वा न ववावतिनिष्ठुरम् ।नातितापं रविश्चक्रे पर्जन्यो नातिकर्दमम् ॥३॥नातिशीतं च शीतांशुः परिपूर्णोऽपि रश्मिभिः ।चकार भीत्या वै तस्य कोपनस्यातितेजसः ॥४॥ऋतवश्च क्रमं त्यक्त्वा वृक्षेष्वाश्रमजन्मसु ।तस्य पुष्पफलं चक्रुराज्ञया सार्वकालिकम् ॥५॥ऊहुरापश्च छन्देन तस्याश्रमसमीपगाः ।कमण्डलुगताश्चैव तस्य भीता महात्मनः ॥६॥नातिक्तेशसहो विप्रः सोऽभवत्कोपनो भृशम् ।अपुत्रश्च महाभागः स तपस्यकरोन्मनः ॥७॥पुत्रकामो यताहारः शीतवातानलाहतः ।तपस्यामि विचिन्त्येति तपस्येव मनो दधे ॥८॥तस्येन्दुर्नातिशीताय नातितापाय भास्करः ।अभवन्मातरिश्वा च ववौ नाति महामुने ॥९॥आपीड्यमानो द्वन्द्वैश्च स भूतिर्मुनिसत्तमः ।अनवाप्याभिलाषं तं तपसः सन्यवर्त्तत ॥१०॥तस्य भ्राता सुवर्च्चाऽभूद्यज्ञे तेनाभिमन्त्रितः ।यियासुः शान्तिनामानं शिष्यमाह महामतिम् ॥११॥प्रशान्तमक्षप्रतिमं विनीतं गुरुकर्मणि ।सदोद्युक्तं शुभाचारमुदारं मुनिसत्तमम् ॥१२॥भूतिरुवाचअहं यज्ञं गमिष्यामि भ्रातुः शान्ते सुवर्चसः ।तेनाहूतस्त्वया चेह यत्कर्त्तव्यं शृणुष्व तत् ॥१३॥अतिजागरणं वह्नेस्त्वया कार्यं ममाश्रमे ।तथा त्वया प्रयत्नेन यथाग्निर्न शमं व्रजेत् ॥१४॥मार्कण्डेय उवाचइत्याज्ञाप्य तथेत्युक्तो गुरुः शिष्येण शान्तिना ।जगाम यज्ञं तं भ्रातुराहूतः स यवीयसः ॥१५॥स च शान्तिर्वनाद्यावत्समित्पुष्पफलादिकम् ।उपानयति भूत्यर्थं गुरोस्तस्य महात्मनः ॥१६॥अन्यच्च कुरुते कर्म गुरुभक्तिवशानुगः ।प्रशान्तस्तावदनलो योऽसौ भूतिपरिग्रहः ॥१७॥तं दृष्ट्वा सोऽनलं शान्तं शान्तिरत्यन्तदुःखितः ।भीतश्च भूतेर्बहुधा चिन्तामाप महामतिः ॥१८॥किं करोमि कथं वात्र भविता गमनं गुरोः ।मयाद्य प्रतिपत्तव्यं किं कृते सुकृतं भवेत् ॥१९॥प्रशान्ताग्निमिमं धिष्ण्यं यदि पश्यति मे गुरुः ।ततो मां विषमे ह्यद्य व्यसने सन्नियोक्ष्यति ॥२०॥यद्यन्यमग्निमत्राहमग्निस्थाने करोमि तत् ।सर्वप्रत्यक्षदृग्भस्म सोऽवश्यं मां करिष्यति ॥२१॥सोऽहं पापो गुरोस्तस्य निमित्तं कोपशापयोः ।तथात्मानं न शोचामि यथा पापं कृतं गुरोः ॥२२॥दृष्ट्वा प्रशान्तमनलं नूनं शप्स्यति मां गुरुः ।यथा वा पावकः क्रुद्धस्तथा वीर्यो हि स द्विजः ॥२३॥यस्य प्रभावाद्बिभ्यन्ते देवास्तिष्ठन्ति शासने ।कृतागसं स मां युक्त्या कया नो धर्षयिष्यति ॥२४॥मार्कण्डेय उवाचबहुधैवं विचिन्त्यासौ भीतस्तस्य सदा गुरोः ।ययौ मतिमतां श्रेष्ठः शरणं जातवेदसम् ॥२५॥स चकार तदा स्तोत्रं सप्तर्च्चेर्यतमानसः ।स चैकचित्तो मेदिन्यां न्यस्तजानुः कृताञ्जलिः ॥२६॥शान्तिरुवाचओं नमः सर्वभूतानां साधनाय महात्मने ।एकद्विपञ्चधिष्ण्याय राजसूये षडात्मने ॥२७॥नमः समस्तदेवानां वृत्तिदाय सुवर्चसे ।शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः ॥२८॥त्वं मुखं सर्वदेवानां त्वयात्तं भगवन्हविः ।प्रीणयस्यखिलान्देवांस्त्वत्प्राणाः सर्वदेवताः ॥२९॥हुतं हविस्त्वय्यनल मेधत्वमुपगच्छति ।ततश्च जलरूपेण परिणाममुपैति यत् ॥३०॥तेनाखिलौषधीजन्म भवत्यनिलसारथे ।औषधीभिरशेषाभिः सुखं जीवन्ति जन्तवः ॥३१॥वितन्वते नरा यज्ञांस्त्वत्सृष्टास्वोषधीषु च ।यज्ञैर्देवास्तथा दैत्यास्तद्वद्रक्षांसि पावक ॥३२॥आप्याय्यन्ते च ते यज्ञास्त्वदाधारा हुताशन ।अतः सर्वस्य योनिस्त्वं वह्ने सर्वमयस्तथा ॥३३॥देवता दानवा यक्षा दैत्या गन्धर्वराक्षसाः ।मानुषाः पशवो वृक्षा मृगपक्षिसरीसृपाः ॥३४॥आप्याय्यन्ते त्वया सर्वे संवर्ध्यन्ते च पावक ।त्वत्त एवोद्भवं यान्ति त्वय्यन्ते च तथा लयम् ॥३५॥अपः सृजसि देवत्वं त्वमत्सि पुनरेव ताः ।पच्यमानास्त्वया ताश्च प्राणिनां पुष्टिकारणम् ॥३६॥देवेषु तेजोरूपेण कान्त्या सिद्धेष्ववस्थितः ।विषरूपेण नागेषु वायुरूपः पतत्त्रिषु ॥३७॥मनुजेषु भवान्क्रोधो मोहः पक्षिमृगादिषु ।अवष्टम्भोऽसि तरुषु काठिन्यं त्वं महीं प्रति ॥३८॥जले द्रवस्त्वं भगवाञ्जवरूपी तथाऽनिले ।व्यापित्वेन तथैवाग्ने नभसि त्वं व्यवस्थितः ॥३९॥त्वमग्ने सर्वभूतानामन्तश्चरसि पालयन् ।त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधः पुनः ॥४०॥त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः ॥४१॥त्वामृते हि जगत्सर्वं सद्यो नश्येद्धुताशन ।तुभ्यं कृत्वा द्विजः पूजां स्वकर्मविहितां गतिम् ॥४२॥प्रयान्ति हव्यकव्याद्यैः स्वधास्वाहाभ्युदीरणात् ।परिणामात्मवीर्याणि प्राणिनाममरार्चित ॥४३॥दहन्ति सर्वभूतानि ततो निष्क्रम्य हेतयः ।जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ॥४४॥तवैव वैदिकं कर्म सर्वभूतात्मकं जगत् ।नमस्तेऽनल पिङ्गाक्ष नमस्तेऽस्तु हुताशन ॥४५॥पावकाद्य नमस्तेऽस्तु नमस्ते हव्यवाहन ।त्वमेव सर्वभूतानां पावनाद्विश्वपावनः ॥त्वमेव भुक्तपीतानां पाचनाद्विश्वपाचकः ॥४६॥सस्यानां पाककर्त्ता त्वं पोष्टा त्वं जगतस्तथा ।त्वमेव मेघस्त्वं वायुस्त्वं बीजं सस्यहेतुकम् ॥४७॥पोषाय सर्वभूतानां भूतभव्यभवो ह्यसि ।त्वं ज्योतिः सर्वभूतेषु त्वमादित्यो विभावसुः ॥४८॥त्वमहस्त्वं तथा रात्रिरुभे सन्ध्ये तथा भवान् ।हिरण्यरेतास्त्वं वह्ने हिरण्योद्भवकारणम् ॥४९॥हिरण्यगर्भश्च भवान्हिरण्यसदृशप्रभः ।त्वं मुहूर्त्तं क्षणश्च त्वं त्वं त्रुटिस्त्वं तथा लवः ॥५०॥कलाकाष्ठानिमेषादिरूपेणासि जगत्प्रभो ।त्वमेतदखिलं कालः परिणामात्मको भवान् ॥५१॥या जिह्वा भवतः काली कालनिष्ठाकरी प्रभो ।तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् ॥५२॥कराली नाम या जिह्वा महाप्रलयकारणम् ।तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् ॥५३॥मनोजवा च या जिह्वा लघिमागुणलक्षणा ।तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् ॥५४॥करोति कामं भूतेभ्यो या ते जिह्वा सुलोहिता ।तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् ॥५५॥सुधूम्रवर्णा या जिह्वा प्राणिनां रोगदायिका ।तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् ॥५६॥स्फुलिङ्गिनी च या जिह्वा यतः सकलपुद्गलाः ।तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् ॥५७॥या ते विश्वसृजा जिह्वा प्राणिनां शर्मदायिनी ।तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् ॥५८॥पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्म हुताशन ।त्राहि मां सर्वदोषेभ्यः संसारादुद्धरेह माम् ॥५९॥प्रसीद वह्ने सप्तार्चिः कृशानो हव्यवाहन ।अग्निपावकशुक्रादिनामाष्टाभिरुदीरितः ॥६०॥अग्नेऽग्रे सर्वभूतानां समुत्पत्तिर्विभावसो ।प्रसीद हव्यवाहाख्य अभिष्टुत मयाव्यय ॥६१॥त्वमक्षयो वह्निरचिन्त्यरूपः समृद्धिमन्दुष्प्रसहोऽतितीव्रः ।तवाव्ययं भीममशेषलोकसंवर्धकं हन्त्यथवातिवीर्यम् ॥६२॥त्वमुत्तमं तत्त्वमशेषसत्त्वहृत्पुंडरीकस्थमनन्तमीड्यम् ।त्वया ततं विश्वमिदं चराचरं हुताशनैको बहुधा त्वमत्र ॥६३॥त्वमक्षयः सगिरिवना वसुन्धरा नभः ससोमार्कमहर्दिवाखिलम् ।महोदधेर्जठरगतश्च वाडवो भवान्विभुः पिबति पयांसि पावक ॥६४॥हुताशनस्त्वमिति सदाभिपूज्यसे महाक्रतौ नियमपरैर्महर्षिभिः ।अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये ॥६५॥त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वथ सकलेषु गीयसे त्वम् ।त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्वकाले ॥६६॥त्वं ब्रह्मा यजनपरस्तथैव विष्णुर्भूतेशः सुरपतिरर्यमा जलेशः ।सूर्येन्दू सकलसुरासुराश्च हव्यैः सन्तोष्याभिमतफलान्यथाप्नुवन्ति ॥६७॥अर्चिभिः परममहोपघातदुष्टं संस्पृष्टं तव शुचि जायते समस्तम् ।स्नानानां परममतीव भस्मना सत्सन्ध्यायां मुनिभिरतीव सेव्यसे तत् ॥६८॥तत्कृत्वा त्रिदिवमवाप्नुवन्ति लोकाः ।सद्भक्त्या सुखनियताः समूहगतिम् ॥६९॥प्रसीद वह्ने शुचिनामधेय प्रसीद वायो विमलातिदीक्ते ।प्रसीद मे पावक वैद्युताभ प्रसीद हव्याशन पाहि मां त्वम् ॥७०॥यत्ते वह्ने शिवं रूपं ये च ते सप्त हेतयः ।तैः पाहि न स्तुतो देव पिता पुत्रमिवात्मजम् ॥७१॥इति श्रीमार्कण्डेयपुराणे भौत्यमन्वन्तरेऽग्निस्तोत्रं नाम षण्णवतितमोऽध्यायः । ९६ । N/A References : N/A Last Updated : March 29, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP