संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| सप्तसप्ततितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - सप्तसप्ततितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत सप्तसप्ततितमोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचमार्तण्ड रस्यवेर्भार्या तनया विश्वकर्मणः ।संज्ञा नाम महाभाग तस्यां भानुरजीजनत् ॥१॥मनुं प्रख्यातयशसमनेकज्ञानपारगम् ।विवस्वतः सुतो यस्मात्तस्माद्वैवस्वतस्तु सः ॥२॥संज्ञा च रविणा दृष्टा निमीलयति लोचने ।यतस्ततः सरोषोर्ऽकः संज्ञां निष्ठुरमब्रवीत् ॥३॥मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् ।तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् ॥४॥मार्कण्डेय उवाचततः सा चपलां दृष्टिं देवी चक्रे भयाकुला ।विलोलितदृशं दृष्ट्वा पुनराह च तां रविः ॥५॥यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वयाधुना ।तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि ॥६॥मार्कण्डेय उवाचततस्तस्यान्तु संजज्ञे भर्तृशापेन तेन वै ।यमश्च यमुना चेयं प्रख्याता सुमहानदी ॥७॥सापि संज्ञा रवेस्तेजः सेहे दुः खेन भामिनी ।असहन्ती च सा तेजश्चिन्तयामास वै तदा ॥८॥किङ्करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः ।भवेन्मम कथं भर्ता कोपमर्कश्च नैष्यति ॥९॥इति संचिन्त्य बहुधा प्रजापतिसुता तदा ।बहु मेने महाभागा पितृसंश्रयमेव सा ॥१०॥ततः पितृगृहे गन्तुं कृतबुद्धिर्यशस्विनी ।छायामयीमात्मतनुं निर्ममे दयितां रवेः ॥११॥ताञ्चोवाच त्वया वेश्मन्यत्र भानोर्यथा मया ।तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ ॥१२॥पृष्टयापि न वाच्यन्ते तथैतद्गमनं मम ।सैवास्मि नाम संज्ञेति वाच्यमेतत्सदा वचः ॥१३॥छायसंज्ञोवाचआकेशग्रहणाद् देवि ! आशापाच्च वचस्तव ।करिष्ये कथयिष्यामि वृत्तन्तु शापकर्षणात् ॥१४॥इत्युक्ता सा तदा देवी जगाम भवनं पितुः ।ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम् ॥१५॥बहुमानाच्च तेनापि पूजिता विश्वकर्मणा ।तस्थौ पितृगृहे सा तु कञ्चित्कालमनिन्दिता ॥१६॥ततस्तां प्राह चार्वङ्गी पिता नातिचिरोषिताम् ।स्तुत्वा च तनयां प्रेमबहुमानपुरः सरम् ॥१७॥त्वान्तु मे पश्यतो वत्से दिनानि सुबहून्यपि ।मुहूर्तार्धसमानि स्युः किन्तु धर्मो विलुप्यते ॥१८॥बान्धवेषु चिरं वासो नारीणां न यशस्करः ।मनोरथो बान्धवानां नार्या भर्तृगृहे स्थितिः ॥१९॥सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता ।पितृगेहे चिरं कालं वस्तुं नार्हसि पुत्रिके ॥२०॥सा त्वं भर्तृगृहं गच्छ तुष्टोऽहं पूजितासि मे ।पुनरागमनं कार्यं दर्शनाय शुभे मम ॥२१॥मार्कण्डेय उवाचइत्युक्ता सा तदा पित्रा तथेत्युक्त्वा च सा मुने ।संपूजयित्वा पितरं जगामाथोत्तरान् कुरून् ॥२२॥सूर्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती ।तपश्चचार तत्रापि वडवारूपधारिणी ॥२३॥संज्ञेयमिति मन्वानो द्वितीयायामहस्पतिः ।जनयामास तनयौ कन्याञ्चैकां मनोरमाम् ॥२४॥छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला ।तथा न संज्ञाकन्यायां पुत्रयोश्चान्ववर्तत ॥२५॥लालनाद्युपभोगेषु विशेषमनुवासरम् ।मनुस्तत् क्षान्तवानस्य यमस्तस्या न चक्षमे ॥२६॥ताडनाय च वै कोपात् पादस्तेन समुद्यतः ।तस्याः पुनः क्षान्तिमता न तु देहे निपातितः ॥२७॥ततः शशाप तं कोपाच्छायासंज्ञा यमं द्विज ।किञ्चित् प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा ॥२८॥पितुः पत्नीममर्यादं यन्मां तर्जयसे पदा ।भुवि तस्मादयं पदास्तवाद्यैव पतिष्यति ॥२९॥मार्कण्डेय उवाचइत्याकर्ण्य यमः शापं मात्रा दत्तं भयातुरः ।अभ्येत्य पितरं प्राह प्रणिपातपुरः सरम् ॥३०॥यम उवाचतातैतन्महदाश्चर्यं न दृष्टमिति केनचित् ।माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति ॥३१॥यथा मनुर्ममाचष्टे नेयं मता तथा मम ।विगुणेष्वपि पुत्रेषु न माता विगुणा भवेत् ॥३२॥मार्कण्डेय उवाचयमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः ।छायासंज्ञां समाहूय पप्रच्छ क्व गतेति सा ॥३३॥सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ।पत्नी तव त्वयापत्यान्येतानि जनितानि मे ॥३४॥इत्थं विवस्वतः सा तु बहुशः पृच्छतो यदा ।नाचचक्षे ततः क्रुद्धो भास्वांस्तां शप्तुमुद्यतः ॥३५॥ततः सा कथयामास यथावृत्तं विवस्वतः ।विदितार्थश्च भगवान् जगाम त्वष्टुरालयम् ॥३६॥ततः स पूजयामास तदा त्रैलोक्यपूजितम् ।भास्वन्तं परया भक्त्या निजगेहमुपागतम् ॥३७॥संज्ञां पृष्टस्तदा तस्मै कथयामास विश्वकृत् ।आगतैवेह मे वेश्म भवतः प्रेषितेति वै ॥३८॥दिवाकरः समाधिस्थो वडवारूपधारिणीम् ।तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ ॥३९॥सौम्यमूर्तिः शुभाकारो मम भर्ता भवेदिति ।अभिसन्धिञ्च तपसो बुबुधेऽस्या दिवाकरः ॥४०॥शातनं तेजसो मेऽद्य क्रियतामिति भास्करः ।तञ्चाह विश्वकर्माणं संज्ञायाः पितरं द्विज ॥४१॥संवत्सरभ्रमेस्तस्य विश्वकर्मा करवेस्ततः ।तेजसः शातनञ्चक्रे स्तूयमानश्च दैवतैः ॥४२॥इति श्रीमार्कण्डेयपुराणे वैवस्वतमन्वन्तरे सप्तसप्ततितमोऽध्यायः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP