संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
चतुश्चत्वारिंशोऽध्यायः

मार्कण्डेयपुराणम् - चतुश्चत्वारिंशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


सुबाहुरुवाच

यदर्थं नृपशार्दूल ! त्वामहं शरणं गतः ।
तन्मया सकलं प्राप्तं यास्यामि त्वं सुखी भव ॥१॥

काखिराज उवाच

किं निमित्तं भवान् प्राप्तो निष्पन्नोर्ऽथश्च कस्तव ।
सुबाहो ! तन्ममाचक्ष्व परं कौतूहलं हि मे ॥२॥

समाक्रान्तमलर्केण पितृपैतामहं महत् ।
राज्यं देहीति निर्जित्य त्वयाहमभिचोदितः ॥३॥

ततो मया समाक्रम्य राज्यमस्यानुजस्य ते ।
एतत्ते बलमानीतं तद्भुङ्क्ष्वस्वकुलोचितम् ॥४॥

सुबाहुरुवाच

काशिराज ! निबोध त्वं यदर्थमयमुद्यमः ।
कृतो मया भवांश्चैव कारितोऽत्यन्तमुद्यमम् ॥५॥

भ्राता ममायं ग्राम्येषु सक्तो भोगेषु तत्त्ववित् ।
विमूढौ बोधवन्तौ च भ्रातरावग्रजौ मम ॥६॥

तयोर्मम च यन्मात्रा बाल्ये स्तन्यं यथा मुखे ।
तथावबोधो विन्यस्तः कर्णयोरवनीपते ॥७॥

तयोर्मम च विज्ञेयाः पदार्था ये मता नृभिः ।
प्राकाश्यं मनसो नीतास्ते मात्रा नास्य पार्थिव ॥८॥

यथैकमर्थे यातानामेकस्मिन्नवसीदति ।
दुः खं भवति साधूनां ततास्माकं महीपते ॥९॥

गार्हस्थ्यमोहमापन्ने सीदत्यस्मिन्नरेश्वर ।
सम्बन्धिन्यस्य देहस्य बिभ्रति भ्रातृकल्पनाम् ॥१०॥

ततो मया विनिश्चित्य दुः खाद्वैराग्यभावना ।
भविष्यतीत्यस्य भवानित्युद्योगाय संश्रितः ॥११॥

तदस्य दुः खाद्वैराग्यं संबोधादवनीपते ।
समुद्भूतं कृतं कार्यं भद्रं तेऽस्तु व्रजाम्यहम् ॥१२॥

उष्ट्वा मदालसागर्भे पीत्वा सत्सास्तथा स्तनम् ।
नान्यनारीसुतैर्यातं वर्त्म यात्विति पार्थिव ॥१३॥

विचार्य तन्मया सर्वं युष्मत्संश्रयपूर्वकम् ।
कृतं तच्चापि निष्पन्नं प्रयास्ये सिद्धये पुनः ॥१४॥

उपेक्ष्यते सीदमानः स्वजनो बान्धवः सुहृत् ।
यैर्नरेन्द्र ! न तान् मन्ये सेन्द्रिया विकला हि ते ॥१५॥

सुहृदि स्वजने बन्धौ समर्थे योऽवसीदति ।
धर्मार्थकाममोक्षेभ्यो वाच्यास्ते तत्र न त्वसौ ॥१६॥

एतत् त्वत्सङ्गमाद् भूप ! मया कार्यं महत् कृतम् ।
स्वस्ति तेऽस्तु गमिष्यामि ज्ञानभाग्भव सत्तम ॥१७॥

काशिराज उवाच

उपकारस्त्वया साधोरलर्कस्य कृतो महान् ।
ममोपकाराय कथं न करोषि स्वमानसम् ॥१८॥

फलदायी सतां सदिभः सङ्गमो नाफलो यतः ।
तस्मात्तवत्संश्रयाद्युक्ता मया प्राप्ता समुन्नतिः ॥१९॥

सुबाहुरुवाच

धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम् ।
तत्र धर्मार्थकामास्ते सकला हीयतेऽपरः ॥२०॥

तत्ते संक्षेपतो वक्ष्ये तदिहैकमनाः शृणु ।
श्रुत्वा च सम्यगालोच्य यतेथाः श्रेयसे नृप ॥२१॥

ममेतिप्रत्ययो भूप ! न कार्योऽहमिति त्वया ।
सम्यगालोच्य धर्मो हि धर्माभावे निराश्रयः ॥२२॥

कस्याहमिति संज्ञेयमित्यालोच्य त्वयात्मना ।
बाह्यन्तर्गतमालोच्यमालोच्यापररात्रिषु ॥२३॥

अव्यक्तादिविशेषन्तमविकारमचेतनम् ।
व्यक्ताव्यक्तं त्वया ज्ञेयं ज्ञाता कश्चाहमित्युत ॥२४॥

एतस्मिन्नेव विज्ञाने विज्ञातमखिलं त्वया ।
अनात्मन्यात्मविज्ञानमखे खमिति मूढता ॥२५॥

सोऽहं सर्वगतो भूप ! लोकसंव्यवहारतः ।
मयेदमुच्यते सर्वं त्वया पृष्टो व्रजाम्यहम् ॥२६॥

एवमुक्त्वा ययौ धीमान् ! सुबाहुः काशिभूमिपम् ।
काशिराजोऽपि संपूज्य सोऽलर्कं स्वपुरं ययौ ॥२७॥

अलर्कोऽपि सुतं ज्येष्ठमभिषिच्य नराधिपम् ।
वनं जगाम सन्त्यक्तसर्वसङ्गः स्वसिद्धये ॥२८॥

ततः कालेन महाता निर्द्वन्द्वो निष्परिग्रहः ।
प्राप्य योगर्धिमतुलां परं निर्वाणमाप्तवान् ॥२९॥

पश्यन् जगदिदं सर्वं सदेवासुरमानुषम् ।
पाशैर्गुणमयैर्बद्धं बध्यमानञ्च नित्यशः ॥३०॥

पुत्रादिभ्रातृपुत्रादि-स्वपारक्यादिभावितैः ।
आकृष्यमाणं करणैर्दुःखार्तं भिन्नदर्शनम् ॥३१॥

अज्ञानपङ्कगर्भस्थमनुद्धारं महामतिः ।
आत्मानञ्च समुत्तीर्णं गाथामेतामगायत ॥३२॥

अहो कष्टं यदस्माभैः पूर्वं राज्यमनुष्ठितम् ।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥३३॥

जड उवाच

तातैनं त्वं समातिष्ठ मुक्तये योगमुत्तमम् ।
प्राप्स्यसे येन तद् ब्रह्म यत्र गत्वा न शोचसि ॥३४॥

ततोऽहमपि यास्यामि किं यज्ञैः किं जपेन मे ।
कृतकृत्यस्य करणं ब्रह्मभावाय कल्पते ॥३५॥

त्वत्तोऽनुज्ञामवाप्याहं निर्द्वन्द्वो निष्परिग्रहः ।
प्रयतिष्ये तथा मुक्तौ यथा यास्यामि निर्वृतिम् ॥३६॥


पक्षिण ऊचुः

एवमुक्त्वा स पितरं प्राप्यानुज्ञां ततश्च सः ।
ब्रह्मन् ! जगाम मेधावी परित्यक्तपरिग्रहः ॥३७॥

सोऽपि तस्य पिता तद्वत् क्रमेण सुमहामतिः ।
वानप्रस्थं समास्थाय चतुर्थाश्रममभ्यगात् ॥३८॥

तत्रात्मजं समासाद्य हित्वा बन्धं गुणादिकम् ।
प्राप सिद्धिं परां प्राज्ञस्तत्कालोपात्तसंमतिः ॥३९॥

एतत्ते कथितं ब्रह्मन् ! यत्पृष्टा भवता वयम् ।
सुविस्तरं यथावच्च किमन्यच्छ्रोतुमिच्छसि ॥४०॥

इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे जडोपाख्यानं नाम चतुश्चत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : March 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP