संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| एकोनचत्वारिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - एकोनचत्वारिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत एकोनचत्वारिंशोऽध्यायः Translation - भाषांतर N/Aयोगनिरूपणवर्णनम्दत्तात्रेय उवाचज्ञानपूर्वो वियोगो योऽज्ञानेन सह योगिनः ।सा मुक्तिर्ब्रह्मणा चैक्यमनैक्यं प्राकृतैर्गुणैः ॥१॥योगे च शक्तिर्विदुषां येन श्रेयः परं भवेत् ।मुक्तिर्योगात्तथा योगः सम्यग्ज्ञानान्महीपते ॥सङ्गदोषोद्भवं दुःखं ममत्वासक्तचेतसाम् ॥२॥तस्मात्सङ्गं प्रयत्नेन मुमुक्षुः संत्यजेन्नरः ।सङ्गाभावे ममेत्यस्याः ख्यातेर्हानिः प्रजायते ॥३॥निर्ममत्वं सुखायैव वैराग्याद्दोषदर्शनम् ।ज्ञानादेव च वैराग्यं ज्ञानं वैराग्यपूर्वकम् ॥४॥तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति ।यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ॥५॥उपभोगेन पुण्यानामपुण्यानां च पार्थिव ।कर्त्तव्यमिति नित्यानामकामकरणात्तथा ॥६॥असञ्चयादपूर्वस्य क्षयात्पूर्वार्जितस्य च ।कर्मणो बन्धमाप्नोति शरीरं च पुनः पुनः ॥७॥कर्मणा मोक्षमाप्नोति वैपरीत्येन तस्य तु ।एतत्ते कथितं ज्ञानं योगं चेमं निबोध मे ॥यं प्राप्य ब्रह्मणो योगी शाश्वतान्नान्यतां व्रजेत् ॥८॥प्रागेवात्मात्मना जेयो योगिनां स हि दुर्जयः ।कुर्वीत तज्जये यत्नं तस्योपायं शृणुष्व मे ॥९॥प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।प्रत्याहारेण विषयान्ध्यानेनानीश्वरान्गुणान् ॥१०॥यथा पर्वतधातूनां ध्मातानां दह्यते मलम् ।तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥११॥प्रथमं साधनं कुर्यात्प्राणायामस्य योगवित् ।प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ॥१२॥लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः ।तस्य प्रमाणं वक्ष्यामि तदलर्क शृणुष्व मे ॥१३॥लघुर्द्वादशमात्रस्तु द्विगुणः स तु मध्यमः ।त्रिगुणाभिस्तु मात्राभिरुत्तमः परिकीर्त्तितः ॥१४॥निमेषोन्मेषणे मात्रा कालो लघ्वक्षरस्तथा ।प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रिकः ॥१५॥प्रथमेन जयेत्स्वेदं मध्यमेन च वेपथुम् ।विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥१६॥मृदुत्वं सेव्यमानास्तु सिंहशार्दूलकुञ्जराः ।यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥१७॥वश्यं मत्तं यथेच्छातो नागं नयति हस्तिपः ।तथैव योगी छन्देन प्राणं नयति साधितम् ॥१८॥यथा हि साधितः सिंहो मृगान्हन्ति न मानवान् ।तद्वन्निषिद्धपवनः किल्बिषं न नृणां तनुम् ॥१९॥तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् ।श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम् ॥२०॥ध्वस्तिः प्राप्तिस्तथा संवित्प्रसादश्च महीपते ।स्वरूपं शृणु चैतेषां कथ्यमानमनुक्रमात् ॥२१॥कर्मणामिष्टदुष्टानां जायते फलसंक्षयः ।चेतसोऽपकषायत्वं यत्र सा ध्वस्तिरुच्यते ॥२२॥ऐहिकामुष्मिकान्कामांल्लोभमोहात्मकात्स्वयम् ।निरुध्यास्ते सदा योगी प्राप्तिः सा सार्वकालिकी ॥२३॥अतीतानागतानर्थान्विप्रकृष्टतिरोहितान् ।विजानातीन्दुसूर्यर्क्षग्रहाणां ज्ञानसम्पदा ॥२४॥तुल्यप्रभावस्तु यदा योगी प्राप्नोति संविदम् ।तदा संविदिति ख्याता प्राणायामस्य सा स्थितिः ॥२५॥यान्ति प्रसादं येनास्य मनः पञ्च च वायवः ।इन्द्रियाणीन्द्रियार्थाश्च स प्रसाद इति स्मृतः ॥२६॥शृणुष्व च महीपाल प्राणायामस्य लक्षणम् ।युञ्जतश्च सदा योगं यादृग्विहितमासनम् ॥२७॥पद्ममर्धासनञ्चापि तथा स्वस्तिकमासनम् ।आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि ॥२८॥समः समासनो भूत्वा संहृत्य चरणावुभौ ।संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः ॥२९॥पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन् प्रयतः स्थितः ।किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत् ॥३०॥सम्पश्यन् नासिकाग्रं स्वं दिशश्चानवलोकयन् ।रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ॥३१॥सञ्छाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् ।इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च ॥३२॥निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ।यस्तु प्रत्याहरेत्कामान सर्वाङ्गानीव कच्छपः ॥३३॥सदात्मरतिरेकस्थः वश्यत्यात्मानमात्मनि ।स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः ॥३४॥पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ।प्राणायामा दश द्वौ च धारणा साभिधीयते ॥३५॥द्वे धारणे स्मृते योगे योगिभिस्तत्त्वदृष्टिभिः ।तथा वै योगयुक्तस्य योगिनो नियतात्मनः ॥३६॥सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ।वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान् पृथक् ॥३७॥व्योमादिपरमाणूंश्च तथात्मानमकल्मषम् ।इत्थं योगी यताहारः प्राणायामपरायणः ॥३८॥जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ।दोषान् व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता ॥३९॥विवर्धयति नारोहेत्तस्माद् भूमिमनिर्जिताम् ।प्राणानामुपसंरोधात् प्राणायाम इति स्मृतः ॥४०॥धारणेत्युच्यते चेयं धार्यते यन्मनो यथा ।शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः ॥४१॥प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ।उपायश्चात्र कथितो योगिभिः परमर्षिभिः ॥४२॥येन व्याध्यादयो दोषा न जायन्ते हि योगिनः ।यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः ॥४३॥आपिबेयुस्तथा वायुं पिबेद्योगी जितश्रमः ।प्राङ्नाभ्यां हृदये चात्र तृतीये च तथोरसि ॥४४॥कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्धसु ।किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता ॥४५॥दशैता धारणा प्राप्य प्राप्रोत्यक्षरसाम्यताम् ।नाध्मातः क्षुधितः श्रान्तो न च व्याकुलचेतनः ॥४६॥युञ्जीत योगं राजेन्द्र ! योगी सिद्ध्यर्थमादृतः ।नातिशीते न चोष्णे वै न द्वन्द्वे नानिलात्मके ॥४७॥कालेष्वेतेषु युञ्जीत न योगं ध्यानतत्परः ।सशब्दाग्निजालभ्यासे जीर्णगोष्ठे चतुष्पथे ॥४८॥शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ।सभये कूपतीरे वा चैत्यवल्मीकसञ्चये ॥४९॥देशेष्वेतेषु तत्त्वज्ञो योगाभ्यासं विवर्जयेत् ।सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत् ॥५०॥नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् ।देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै ॥५१॥विघ्राय तस्य वै दोषा जायन्ते तन्निबोध मे ।बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता ॥५२॥ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः ।प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम् ॥५३॥तेषां नाशाय कर्तव्यं योगिनां तन्निबोध मे ।स्त्रिग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् ॥५४॥वात-गुल्मप्रशान्त्यर्थमुदावर्ते तथोदरे ।यवागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् ॥५५॥तद्वत्कम्पे महाशैलं स्थिरं मनसि धारयेत् ।विघाते वचसो वाचं बाधिर्ये श्रवणेन्द्रियम् ॥५६॥यथैवाम्रफलं ध्यायेत् तृष्णार्तो रसनेन्द्रिये ।यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम् ॥५७॥धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् ।कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन ताडयेत् ॥५८॥लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ।द्यावापृथिव्यौ वाय्वग्री व्यापिनावपि धारयेत् ॥५९अमानुषात् सत्त्वजाद्वा बाधास्त्वेताश्चिकित्सिताः ।अमानुषं सत्त्वमन्तर्योगिनं प्रविशेद्यदि ॥६०॥वाय्वग्रीधारणेनैनं देहसंस्थं विनिर्दहेत् ।एवं सर्वात्मना रक्षा कार्या योगविदा नृप ! ॥६१॥धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ।प्रवृत्तिलक्षणाख्यानाद्योगिनो विस्मयात्तथा ।विज्ञानं विलयं याति तस्माद् गोप्याः प्रवृत्तयः ॥६२॥आलोल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् ।कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥६३॥अनुरागी जनो याति परोक्षे गुणकीर्तनम् ।न बभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥६४॥शीतोष्णादिभिरत्युग्रैर्यस्य बाधा न विद्यते ।न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता ॥६५॥इति श्रीमार्कण्डेयपुराणे जडोपाख्याने योगाध्यायो नामैकोनचत्वारिंशोऽध्यायः N/A References : N/A Last Updated : March 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP