संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
षट्सप्ततितमोऽध्यायः

मार्कण्डेयपुराणम् - षट्सप्ततितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मार्कण्डेय उवाच

इत्येतत् कथितं तुभ्यं पञ्च मन्वन्तरं तव ।
चाक्षुषस्य मनोः षष्ठं श्रूयतामिदमन्तरम् ॥१॥

अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज ॥२॥

जातं माता निजोत्सङ्गे स्थितमुल्लाप्य तं पुनः ।
परिष्वजति हार्देन पुनरुल्लापयत्यथ ॥३॥

जातिस्मरः स जातो वै मातुरुत्सङ्गमास्थितः ।
जहास तं तदा माता संक्रुद्धा वाक्यमब्रवीत् ॥४॥

भीतास्मि किमिदं वत्स ! हासो यद्वदने तव ।
अकालबोधः सञ्जातः कच्चित् पश्यसि शोभनम् ॥५॥

पुत्र उवाच

मामत्तुमिच्छति पुरो मार्जारी किम न पश्यसि ।
अन्तर्धानगता चेयं द्वितीया जातहारिणी ॥६॥

पुत्रप्रीत्या च भवती सहार्दा मामवेक्षती ।
उल्लाप्योल्लाप्य बहुशः परिष्वजति मां यतः ॥७॥

उद्भूतपुलका स्नेहसम्भवास्त्राविलेक्षणा ।
ततो ममागतो हासः शृणु चाप्यत्र कारणम् ॥८॥

स्वार्थे प्रसक्ता मार्जारी प्रसक्तं मामवेक्षते ।
तथान्तर्धानगा चैव द्वितीया जातहारिणी ॥९॥

स्वार्थाय स्निग्धहृदया यथैवैते ममोपरि ।
प्रवृत्ते स्वार्थमास्थाय तथैव प्रतिभासि मे ॥१०॥

किन्तु मदुपभोगाय मार्जारी जातहारिणी ।
त्वन्तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि ॥११॥

न मां जानासि कोऽप्येष न चैवापकृतं मया ।
सङ्गतं नातिकालीनं पञ्चसप्तदिनात्मकम् ॥१२॥

तथापि स्त्रिह्यसे सास्त्रा परिष्वजसि चाप्यति ।
तातेति वत्स ! भद्रेति निर्व्यलीकं ब्रवीषि माम् ॥१३॥

मातोवाच
न त्वाहमुपकारार्थं वत्स ! प्रीत्या परिष्वजे ।
न चेदेतद्भवत्प्रीत्यै परित्यक्तास्म्यहं त्वया ॥१४॥

स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ।
इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात् ॥१५॥

जडाङ्गबाह्यकरणं शुद्धान्तः करणात्मकम् ।
जहार तं परित्यक्तं सा तदा जातहारिणी ॥१६॥

सा हृत्वा तं तदा बालं विक्रान्तस्य महीभृतः ।
प्रसूतपत्नीशयने न्यस्य तस्याददे सुतम् ॥१७॥

तमप्यन्यगृहे नीत्वा गृहीत्वा तस्य चात्मजम् ।
तृतीयं भक्षयामास सा क्रमाज्जातहारिणी ॥१८॥

हृत्वा हृत्वा तृतीयन्तु भक्षयत्यतिनिर्घृणा ।
करोत्यनुदिनं सा नु परिवर्तन्तथान्ययोः ॥१९॥

विक्रान्तोऽपि ततस्तस्य सुतस्यैव महीपतिः ।
कारयामास संस्कारान् राजन्यस्य भवन्ति ये ॥२०॥

आनन्देति च नामास्य पिता चक्रे विधानतः ।
मुदा परमया युक्तो विक्रान्तः स नराधिपः ॥२१॥

कृतोपनयनं तन्तु गुरुराह कुमारकम् ।
जनन्याः प्रागुपस्थानं क्रियताञ्चाभिवादनम् ॥२२॥

स गुरोस्तद्वचः श्रुत्वा विहस्यैवमथाब्रवीत् ।
वन्द्या मे कतमा माता जननी पालनी नु किम् ॥२३॥

गुरुरुवाच

न त्वियं ते महाभाग ! जनयित्री रुथात्मजा ।
विक्रान्तस्याग्रमहिषी हैमिनी नाम नामतः ॥२४॥

आनन्द उवाच

इयं जनित्री चैत्रस्य विशालग्रमवासिनः ।
विप्राग्र्यबोधपुत्रस्य योऽस्यां जातोऽन्यतो वचम् ॥२५॥

गुरुरुवाच

कुतस्त्वं कथयानन्द ! चैत्रः को वा त्वयोच्यते ।
सङ्कटं महदाभाति क्व जातोऽत्र ब्रवीषि किम् ॥२६॥

आनन्द उवाच

जातोऽहमवनीन्द्रस्य क्षत्रियस्य गृहे द्विज ।
तत्पत्न्यां गिरिभद्रायामाददे जातहारिणी ॥२७॥

तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा ।
बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः ॥२८॥

भक्षयामास च सुतं तस्य बोधद्विजन्मनः ।
स तत्र द्विजसंस्कारैः संस्कृतो हैमिनीसुतः ॥२९॥

वयमत्र महाभाग ! संस्कृता गुरुणा त्वया ।
मया तव वचः कार्यमुपैमि कतमां गुरो ॥३०॥

गुरुरुवाच

अतीव गहनं वत्स ! सङ्कटं महदागतम् ।
न वेद्मि किञ्चिन्मोहेन भ्रमन्तीव हि बुद्धयः ॥३१॥

आनन्द उवाच

मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थिते ।
कः कस्य पुत्रो विप्रर्षे ! को वा कस्य नु बान्धवः ॥३२॥

आरभ्य जन्मनो नॄणां सम्बन्धित्वमुपैति यः ।
अन्ये सम्बन्धिनो विप्र ! मृत्युना सन्निवर्तिताः ॥३३॥

अत्रापि जातस्य सतः सम्बन्धोयोऽस्य बान्धवैः ।
सोऽप्यस्तङ्गते देहे प्रयात्येषोऽखिलक्रमः ॥३४॥

अतो ब्रवीमि संसारे वसतः को न बान्धवः ।
को वापि सततं बन्धुः किं वो विभ्राम्यते मतिः ॥३५॥

पितृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ।
मातृद्वयञ्च किञ्चित्रं यदन्यद् देहसम्भवे ॥३६॥

सोऽहं तपः करिष्यामि त्वया यो ह्यस्य भूपतेः ।
विशालग्रामतः पुत्रश्चैत्र आनीयतामिह ॥३७॥

मार्कण्डेय उवाच

ततः स विस्मितो राजा सभार्यः सह बन्धुभिः ।
तस्मान्निवर्त्य ममतामनुमेने वनाय तम् ॥३८॥

चैत्रमानीय तनयं राज्ययोग्यं चकार सः ।
संमान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः ॥३९॥

सोऽप्यानन्दस्तपस्तेपे बाल एव महावने ।
कर्मणां क्षुपणार्थाय विमुक्तेः परिपन्थिनाम् ॥४०॥

तपस्यन्तं ततस्तञ्च प्राह देवः प्रजापतिः ।
किमर्थं तप्यसे वत्स ! तपस्तीव्रं वदस्व तत् ॥४१॥

आनन्द उवाच

आत्मनः शुद्धिकामोऽहं करोमि भगवंस्तपः ।
बन्धाय मम कर्माणि यानि तत्क्षपणोन्मुखः ॥४२॥

ब्रह्मोवाच

क्षीणाधिकारो भवति मुक्तियोग्यो न कर्मवान् ।
सत्त्वाधिकारवान् मुक्तिमवाप्स्यति ततो भवान् ॥४३॥

भवता मनुना भाव्यं षष्ठेन व्रज तत् कुरु ।
अलन्ते तपसा तस्मिन् कृते मुक्तिमवाप्स्यसि ॥४४॥

मार्कण्डेय उवाच

इत्युक्तो ब्रह्मणा सोऽपि तथेत्युक्त्वा महामतिः ।
तत्कर्माभिमुखो यातस्तपसो विरराम ह ॥४५॥

चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।
पूर्वनाम्ना बभूवाथ प्रख्यातश्चाक्षुषो मनुः ॥४६॥

उपयेमे विदर्भां स सुतामुग्रस्य भूभृतः ।
तस्याञ्चोत्पादयामास पुत्रान् प्रख्यातविक्रमान् ॥४७॥

तस्य मन्वन्तरेशस्य येऽन्तरे त्रिदशा द्विज ।
ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु ॥४८॥

आप्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः ।
प्रख्यातकर्मणां विप्र ! यज्ञे हव्यभुजामयम् ॥४९॥

प्रख्यातबलवीर्याणां प्रभामण्डलदुर्दृशाम् ।
द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः ॥५०॥

तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।
चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः ॥५१॥

लेखसंज्ञास्तथैवान्ये तत्र मन्वन्तरे द्विज ।
पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः ॥५२॥

शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् ।
मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक् ॥५३॥

सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥५४॥

ऊरु-पुरु-शतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥५५॥

एतत्ते कथितं षष्ठं मया मन्वन्तरं द्विज ।
चाक्षुषस्य तथा जन्म चरितञ्च महात्मनः ॥५६॥

साम्प्रतं वर्तते योऽयं नाम्ना वैवस्वतो मनुः ।
सप्तमीयेऽन्तरे तस्य देवाद्यास्तान् शृणुष्व मे ॥५७॥

य इदं कीर्तयेद् धीमान् चाक्षुषस्यान्तरं भुवि ।
शृणुते च लभेत् पुत्रानारोग्यसुखसम्पदम् ॥५८॥

इति श्रीमार्कण्डेयपुराणे षष्ठं मन्वन्तरं समाप्तम्,अध्यायः षट्सप्ततितमः

N/A

References : N/A
Last Updated : March 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP