संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
अथैकाधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - अथैकाधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


दिवाकरस्तुतिवर्णनम्
मार्कण्डेय उवाच
सृष्ट्वा जगदिदं ब्रह्मा प्रविभागमथाकरोत् ।
वर्णाश्रमसमुद्राद्रिद्वीपानां पूर्ववद्यथा ॥१॥
देवदैत्योरगादीनां रूपस्थानानि पूर्ववत् ।
वेदेभ्य एव भगवानकरोत्कमलोद्भवः ॥२॥
ब्रह्मणस्तनयो योऽभून्मरीचिरिति विश्रुतः ।
कश्यपस्तस्य पुत्रोऽभूत्काश्यपो नाम नामतः ॥३॥
दक्षस्य तनया ब्रह्मंस्तस्य भार्यास्त्रयोदश ।
बहवस्तत्सुताश्चासन्देवदैत्योरगादयः ॥४॥
अदितिर्जनयामास दैवांस्त्रिभुवनेश्वरान् ।
दैत्यान्दितिर्दनुश्चोग्रान्दानवानुरुविक्रमान् ॥५॥
गरुडारुणौ च विनता यक्षरक्षांसि वै खसा ।
कद्रूः सुषाव नागांश्च गन्धर्वान्सुषुवे मुनिः ॥६॥
क्रोधाया जज्ञिरे कुल्या रिष्टायाश्चाप्सरोगणाः ।
ऐरावतादीन्मातङ्गानिरा च सुषुवे द्विज ॥७॥
ताम्रा च सुषुवे श्येनीप्रमुखाः कन्यका द्विज ।
यासां प्रसूताः खगमाः श्येनभासशुकादयः ॥८॥
इलायाः पादपा जाताः प्रधाया यादसां गणाः ।
अदित्यां या समुत्पन्ना कश्यपस्येति सन्ततिः ॥९॥
तस्याश्च पुत्रदौहित्रैः पौत्रदौहित्रिकादिभिः ।
व्याप्तमेतज्जगत्सूत्या तेषां तासां च वै मुने ॥१०॥
तेषां कश्यपपुत्राणां प्रधाना देवतागणाः ।
सात्त्विका राजसास्त्वेते तामसाश्च मुने गणाः ॥११॥
देवान्यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् ।
ब्रह्मा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥१२॥
तानबाधन्त सहिताः सपत्ना दैत्यदानवाः ।
राक्षसाश्च तथा युद्धं तेषामासीत्सुदारुणम् ॥१३॥
दिव्यं वर्षसहस्रं तु पराजीयन्त देवताः ।
जयिनश्चाभवन्विप्र बलिनो दैत्यदानवाः ॥१४॥
ततो निराकृतान्पुत्रान्दैतेयैर्दानवैस्तथा ।
हृतत्रिभुवनान्दृष्ट्वा ह्यदितिर्मुनिसत्तम ॥१५॥
आच्छिन्नयज्ञभागांश्च शुचा संपीडिता भृशम् ।
आराधनाय सवितुः परं यत्नं प्रचक्रमे ॥१६॥
एकाग्रा नियताहारा परं नियममास्थिता ।
तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥१७॥
अदितिरुवाच
नमस्तुभ्यं परां सूक्ष्मां सौवर्णीं बिभ्रते तनुम् ।
धाम धामवतामीश धाम्नामाधार शाश्वत ॥१८॥
जगतामुपकाराय तथापस्तव गोपते ।
आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम् ॥१९॥
ग्रहीतुमष्टमासेन कालेनेन्दुमयं रसम् ।
बिभ्रतस्तव यद्रूपमतितीव्रं नतास्मि तत् ॥२०॥
तमेव मुञ्चतः सर्वं रसं वै वर्षणाय यत् ।
रूपमाप्यायकं भास्वंस्तस्मै मेधाय ते नमः ॥२१॥
वार्युत्सर्गविनिष्पन्नमशेषं चौषधीगणम् ।
पाकाय तव यद्रूपं भास्करं तं नमाम्यहम् ॥२२॥
यच्च रूपं तवातीतं हिमोत्सर्गादिशीतलम् ।
तत्कालसस्यपोषाय तरणे तस्य ते नमः ॥२३॥
नातितीव्रं च यद्रूपं नातिशीतं च यत्तव ।
वसन्तर्त्तौ रवे सौम्यं तस्मै देव नमो नमः ॥२४॥
आप्यायनमशेषाणां देवानां च तथापरम् ।
पितॄणां च नमस्तस्मै सस्यानां पाकहेतवे ॥२५॥
यद्रूपं जीवनायैकं वीरुधाममृतात्मकम् ।
पीयते देवपितृभिस्तस्मै सोमात्मने नमः ॥२६॥
आप्यायदाहरूपाभ्यां रूपं विश्वमयं तव ।
समेतमग्नीषोमाभ्यां नमस्तस्मै गुणात्मने ॥२७॥
यद्रूपमृग्यजुःसाम्नामैक्येन तपते तव ।
विश्वमेतत्त्रयीसंज्ञं नमस्तस्मै विभावसो ॥२८॥
मार्कण्डेय उवाच
यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिशब्दितम् ।
अस्थूलानन्तममलं नमस्तस्मै सदात्मने ॥२९॥
एवं स नियता देवी चक्रे स्तोत्रमहर्निशम् ।
निराहारा विवस्वन्तमारिराधयिषुर्मुने ॥३०॥
ततः कालेन महता भगवांस्तपनोऽम्बरे ।
प्रत्यक्षतामगादस्या दाक्षायण्या द्विजोत्तम ॥३१॥
सा ददर्श महाकूटं तेजसोऽम्बरसंश्रितम् ।
जगाद मे प्रसीदेति न त्वां पश्यामि गोपते ॥३२॥
यथा दृष्टवती पूर्वमम्बरस्थं सुदुर्दृशम् ।
निराहारा विवस्वन्तं तपन्तं तदनन्तरम् ॥३३॥
संघातं तेजसां तद्वदिह पश्यामि भूतले ।
प्रसादं कुरु पश्येयं यद्रूपं ते दिवाकर ॥
भक्तानुकम्पक विभो भक्ताहं पाहि मे सुतान् ॥३४॥
त्वं धाता विसृजसि विश्वमेतत्त्वं पासि स्थितिकरणाय सप्रवृत्तः ।
त्वय्यन्ते लयमखिलं प्रयाति तत्त्वं त्वत्तोऽन्या न हि गतिरस्ति सर्वलोके ॥३५॥
त्वं ब्रह्मा हरिरजसंज्ञितस्त्वमिन्द्रो वित्तेशः पितृपतिरप्पतिः समीरः ।
सोमोऽग्निर्गगनपतिर्महीधरोऽब्धिः किं स्तव्यं तव सकलात्मरूपधाम्नः ॥३६॥
यज्ञेश त्वामनुदिनमात्मकर्मसक्ताः स्तुन्वन्तो विविधपदैर्द्विजा यजन्ति ।
ध्यायन्तो विनियतचेतसो भवन्तं योगस्थाः परमपदं प्रयान्ति मर्त्याः ॥३७॥
तपसि पचसि विश्वं पासि भस्मीकरोषि प्रकटयसि मयूखैर्ह्रादयस्यम्बुगर्भैः ।
सृजसि कमलजन्मा पालयस्यच्युताख्यः क्षपयसि च युगान्ते रुद्ररूपस्त्वमेकः ॥३८॥
इति श्रीमार्कण्डेयपुराणे दिवाकरस्तुतिर्नामैकाधिकशततमोऽध्यायः । १०१ ।

N/A

References : N/A
Last Updated : March 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP