संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत चतुस्त्रिंशदधिकशततमोऽध्यायः Translation - भाषांतर श्रवणपठनवर्णनम्पक्षिण ऊचुःएवमुक्त्वा जैमिनेयं मार्कण्डेयो महामुनिः ।विसृज्य क्रौष्टुकिमुनिं चक्रे माध्याह्निकीं क्रियाम् ॥१॥अस्माभिश्च श्रुतं तस्माद्यत्ते प्रोक्तं महामुने ।अनादिसिद्धमेतद्धि पुरा प्रोक्तं स्वयंभुवा ॥२॥मार्कण्डेयाय मुनये यत्तेऽस्माभिरुदाहृतम् ।पुण्यं पवित्रमायुष्यं धर्मकामार्थसिद्धिदम् ॥३॥पठतां शृण्वतां सद्यः सर्वपापप्रमोचनम् ।आदावेव कृता ये च प्रश्नाश्चत्वार एव हि ॥४॥पितुः पुत्रस्य संवादस्तथा सृष्टिः स्वयंभुवः ।तथा मनूनां स्थितयो राज्ञां च चरितं मुने ॥५॥अस्माभिरेतत्ते प्रोक्तं किमद्य श्रोतुमिच्छसि ।एतान्सर्वान्नरः श्रुत्वा पठते वा सभासु च ॥६॥विधूय सर्वपापानि ब्रह्मणोऽन्ते लयं व्रजेत् ।अष्टादशपुराणानि यानि प्राह पितामहः ॥७॥तेषां तु सप्तमं ज्ञेयं मार्कर्ण्डेयं सुविश्रुतम् ।ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥८तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् ।आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा ॥९॥दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् ।वाराहं द्वादशं प्रोक्तं स्कन्दमत्र त्रयोदशम् ॥१०॥चतुर्दशं वामनं च कौर्मं पञ्चदशं तथा ।मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ॥११॥अष्टादशपुराणानां नामधेयानि यः पठेत् ।त्रिसन्ध्यं जपते नित्यं सोऽश्वमेधफलं लभेत् ॥१२॥सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥१३॥चतुःप्रश्नसमोपेतं पुराणं ह्येतदुत्तमम् ।श्रुत्वा पुनश्च ते पापं कल्पकोटिशतैः कृतम् ॥१४॥ब्रह्महत्यादिपापानि यान्यन्यान्यशुभानि च ।तानि सर्वाणि नश्यन्ति तृणं वातहतं यथा ॥१५॥पुष्करे दानजं पुण्यं श्रवणादस्य जायते ।सर्ववेदाधिकफलं समाप्त्या चाधिगच्छति ॥१६यः श्रावयेत्पूजयेत्तं यथा देवं पितामहम् ।गन्धपुष्पैस्तथा वस्त्रैर्ब्राह्मणानां च तर्पणैः ॥१७॥यथाशक्त्या च दातव्यं नृपैर्ग्रामादिवाहनम् ।एतत्पुराणमखिलं वेदार्थैरुपबृंहितम् ॥धर्मशास्त्रैकनिलयं श्रुत्वा सर्वार्थमाप्नुयात् ॥१८॥श्रुत्वा पुराणमखिलं व्यासं सम्पूजयेद्बुधः ।धर्मार्थकाममोक्षाणां यथोक्तफलहेतवे ॥१९॥दद्याद्गां गुरवे स्वर्णवस्त्रालङ्कारसंयुताम् ।श्रवणस्य फलावाप्त्यै दानैः संतोषयेद्गुरुम् ॥२०॥अपूज्य पाठकर्तारं श्लोकमेकं शृणोति यः ।नासौ पुण्यमवाप्नोति शास्त्रचोरः स्मृतो हि सः ॥२१॥न तस्य देवाः प्रीणन्ति पितरो नैव पुत्रकान् ।दत्तं श्राद्धं तथेच्छन्ति तीर्थस्नानफलं न च ॥२२॥लभेत शास्त्रचोरश्च निन्दां सज्जनसंसदि ।अवज्ञया न श्रोतव्यं शास्त्रमेतद्विचक्षणैः ॥२३॥पठ्यमाने त्ववज्ञाते साधुभिः शास्त्र उत्तमे ।मूको भवति जन्मानि सप्त मूर्खः प्रजायते ॥२४॥श्रुत्वा तत्पूजयेद्यस्तु पुराणं सप्तमं पुनः ।सर्वपापविनिर्मुक्तः पुनात्येव निजं कुलम् ॥२५॥पूतो याति न सन्देहो विष्णुलोकं सनातनम् ।च्युतस्ततः पुनर्नैव स भविष्यति मानवः ॥२६॥पुराणश्रवणादेव परमयोगमवाप्नुयात् ।नास्तिकाय न दातव्यं वृषले वेदनिन्दके ॥२७॥गुरुद्विजातिनिन्दाय तथा भग्नव्रताय च ।मातापित्रोर्निन्दकाय वेदशास्त्रादिनिन्दिने ॥२८॥भिन्नमर्यादिने चैव तथा वै ज्ञातिकोपिने ।एतेषां नैव दातव्यं प्राणैः कण्ठगतैरपि ॥२९॥लोभाद्वा यदि वा मोहाद्भयाद्वापि विशेषतः ।पठेद्वा पाठयेद्वापि स गच्छेन्नरकं ध्रुवम् ॥३०॥मार्कण्डेय उवाचएतत्सर्वमुपाख्यानं धर्म्यं स्वर्गापवर्गदम्।यः शृणोति पठेद्वापि सिद्धं तस्य समीहितम् ॥३१॥आधिव्याधिजदुःखेन कदाचिन्नाभियुज्यते ।ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः ॥३२सन्तः स्वजनमित्राणि भवन्ति हितबुद्धयः ।नारयः सम्भविष्यन्ति दस्यवो वा कदाचन ॥३३॥सदर्थो मिष्टभोगी च दुर्भिक्षैर्नावसीदति ।परदारपरद्रव्यपरहिंसादिकिल्बिषैः ॥३४॥मुच्यतेऽनेकदुःखेभ्यो नित्यं चैव द्विजोत्तम ।ऋद्धिर्वृद्धिः स्मृतिः शान्तिः श्रीः पुष्टिस्तुष्टिरेव च ॥नित्यं तस्य भवेद्विप्र यः शृणोति कथामिमाम् ॥३५॥मार्कण्डेयपुराणमेतदखिलं शृण्वन्नशोच्यःपुमान्यो वा सम्यगुदीयरयेद्रसमयं शोच्यो न सोऽपि द्विज ।योगज्ञानविशुद्धसिद्धिसहितः स्वर्गादिलोकेऽप्यसौशक्राद्यैश्च सुरादिभिः परिवृतः स्वर्गे सदा पूज्यते ॥३६॥पुराणमेतच्छ्रुत्वा च ज्ञानविज्ञानसंयुतम् ।विमानवरमारुह्य स्वर्गलोके महीयते ॥३७॥पुराणाक्षरसंख्या च प्रख्याता तत्त्वबुद्धिना ।श्लोकानां षट्सहस्राणि तथा चाष्टशतानि च ॥३८॥श्लोकास्तत्र नवाशीतिरेकादशसमाहिताः ।कथिता मुनिना पूर्वं मार्कण्डेयेन धीमता ॥३९॥जैमिनिरुवाचभारतेनाभवद्यन्मे संशयस्फोटनं द्विजाः ।तद्भवद्भिः कृतं यन्न कश्चिदद्य करिष्यति ॥४०॥यूयं दीर्घायुषः स्यात प्रज्ञाबुद्धिविशारदाः ।सांख्ययोगे तथा चास्तु बुद्धिरव्यभिचारिणी ॥४१॥पितृशापकृताद्दुःखाद्दौर्मनस्यं व्यपेतु वः ।एतावदुक्त्वा वचनं जगाम स्वाश्रमं मुनिः ॥चितयन्परमोदारं पक्षिणां वाक्यमीरितम् ॥४२॥इति श्रीमार्कण्डेयमहापुराणे एतत्पुराणमाहात्म्यश्रवणपठनफलंनाम चतुस्त्रिंशदधिकशततमोऽध्यायः । १३४ ।सम्पूर्णमिदं मार्कण्डेयमहापुराणम् ॥श्रीशः पायात्॥ N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP