संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| त्रिषष्टितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - त्रिषष्टितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत त्रिषष्टितमोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचततः सह तथा सोऽथ रराम गिरिसानुषु ।फुल्लकाननहृद्येषु मनोज्ञेषु सरः सु च ॥१॥कन्दरेषु च रम्येषु निम्नगापुलिनेषु च ।मनोज्ञेषु तथान्येषु देशेषु मुदितो द्विज ॥२॥वह्निनाधिष्ठितस्यासीद् यद्रूपन्तस्य तेजसा ।अचिन्तयद्भोगकाले निमीलितविलोचना ॥३॥ततः कालेन सा गर्भमवाप मुनिसत्तम ।गन्धर्ववीर्यतो रूपचिन्तनाच्च द्विजन्मनः ॥४॥तां गर्भधारिणीं सोऽथ सान्त्वयित्वा वरूथिनीम् ।विप्ररूपधरो यातस्तया प्रीत्या विसर्जितः ॥५॥जज्ञे स बालो द्युतिमान ज्वलन्निव विभावसुः ।स्वरोचिभैर्यथा सूर्यो भासयन् सकला दिशः ॥६॥स्वरोचिभिर्यतो भाति भास्वानिव स बालकः ।ततः स्वरोचिरित्येवं नाम्ना ख्यातो बभूत सः ॥७॥ववृधे च महाभागो वयसानुदिनन्तथा ।गुणौघैश्च यथा बालः कलाभिः शशलाञ्छनः ॥८॥स जग्राह धनुर्वेदं वेदांश्चैव यथाक्रमम् ।विद्याश्चैव महाभागस्तदा यौवनगोचरः ॥९॥मन्दराद्रौ कदाचित् स विचरंश्चारुचेष्टितः ।ददर्शैकां तदा कन्यां गिरिप्रस्थे भयातुराम् ॥१०॥त्रायस्वेति निरीक्ष्यैनं सा तदा वाक्यमब्रवीत् ।मा भैषीरिति स प्राह भयविप्लुतलोचनाम् ॥११॥किमेतदिति तेनोक्ते वीरवाक्ये महात्मना ।ततः सा कथयामास श्वासाक्षेपप्लुताक्षरम् ॥१२॥कन्योवाचअहमिन्दीवराख्यस्य सुता विद्याधरस्य वै ।नाम्ना मनोरमा जाता सुतायां मरुधन्वनः ॥१३॥मन्दारविद्याधरजा सखी मम विभावरी ।कलावती चाप्यपरा सुता पारस्य वै मुनेः ॥१४॥ताभ्यां सह मया यातं कैलासतटमुत्तमम् ।तत्र दृष्टो मुनिः कश्चित्तपसातिकृशाकृतिः ॥१५॥क्षुत्क्षामकण्ठो निस्तेजा दूरपाताक्षितारकः ।मयावहसितः क्रुद्धः स तदा मां शशाप ह ॥१६॥क्षामक्षामस्वरः किञ्चित्कल्पिताधरपल्लवः ।त्वयावहसितो यस्मादनार्ये दुष्टतापसि ॥१७॥तस्मात् त्वामचिरेणैव राक्षसोऽभिभविष्यसि ।दत्ते शापे मत्सखीभ्यां स तु निर्भत्सितो मुनिः ॥१८॥धिक् ते ब्राह्मण्यमक्षान्त्या हृतन्ते निखिलन्तपः ।अमर्षणैर्धर्षितोऽसि तपसा नातिकर्षितः ॥१९॥क्षान्त्यास्पदं वै ब्राह्मण्यं क्रोधसंयमनन्तपः ।एतच्छ्रुत्वा ददौ शापं तयोरप्यमितद्युतिः ॥२०॥एकस्याः कुष्ठमङ्गेषु भाव्यन्यस्यास्तथा क्षयः ।तयोस्तथैव तज्जातं यथोक्तं तेन तत्क्षणात् ॥२१॥ममाप्येवं महद्रक्षः समुपैति पदानुगम् ।न शृणोषि महानादं तस्यादूरेऽपि गर्जतः ॥२२॥तृतीयमद्य दिवसं यन्मे पृष्ठन्न मुञ्चति ।अस्त्रग्रामस्य सर्वस्य हृदज्ञाहमद्य ते ॥२३॥ते प्रयच्छामि मां रक्ष रक्षसोऽस्मान्महामते ।प्रादात् स्वायम्भुवस्यादौ स्वयं रुद्रः पिनाकधृक् ॥२४॥स्वायम्भुवो वसिष्ठाय सिद्धवर्याय दत्तवान् ।तेनापि दत्तं मन्मातुः पित्रे चित्रायुधाय वै ॥२५॥प्रादादौद्वाहिकं सोऽपि मत्पित्रे श्वशुरः स्वयम् ।मयापि शिक्षितं वीर ! सकाशाद् बालया पितुः ॥२६॥हृदयं सकलास्त्राणामशेषरिपुनाशनम् ।तदिदं गृह्यतां शीघ्रमशेषास्त्रपरायणम् ॥२७॥ततो जहि दुरात्मानमेनं राक्षसमागतम् ॥२८॥मार्कण्डेय उवाचतथैत्युक्ते ततस्तेन वार्युपस्पृश्य तस्य तत् ।अस्त्राणां हृदयं प्रादात् सरहस्यनिवर्तनम् ॥२९॥एतस्मिन्नन्तरे रक्षस्तत्तदा भीषणाकृति ।नर्दमानं महानादमाजगाम त्वरान्वितम् ॥३०॥मयाभिभूता किं त्राणमुपैषि द्रुतमेहि मे ।भक्षामि किञ्चिरेणेति ब्रुवाणं तं ददर्श सः ॥३१॥स्वरोचिश्चिन्तयामास दृष्ट्वा तं समुपागतम् ।गृह्णात्वेष वचः सत्यं तस्यास्त्विति महामुनेः ॥३२॥जग्राह समुपेत्यैनां त्वरया सोऽपि राक्षसः ।त्राहि त्राहीति करुणं विलपन्तीं सुमध्यमाम् ॥३३॥ततः स्वरोचिः संक्रुद्धश्चण्डास्त्रमतिभैरवम् ।दृष्ट्यां निवेश्य तद्रक्षो ददर्शानिमिषेक्षणः ॥३४॥तदाभिभूतः स तदा तामुत्सृज्य निशाचरः ।प्रसीद शाम्यतामस्त्रं श्रूयताञ्चेत्यभाषत ॥३५॥मोक्षितोषऽहं त्वया शापादतिघोरान्महाद्युते ।प्रदत्तादतितीव्रेण ब्रह्ममित्रेण धीमता ॥३६॥उपकारी न मे त्वत्तो महाभागाधिकोऽपरः ।येनाहं सुमहाकष्टान्महाशापाद्विमोक्षितः ॥३७॥स्वरोचिरुवाचब्रह्ममित्रेण मुनिना किन्निमित्तं महात्मना ।शप्तस्त्वं कीदृशश्चैव शापो दत्तोऽभवत् पुरा ॥३८॥राक्षसा उवाचब्रह्ममित्रोऽष्टधा भिन्नमायुर्वेदमधीतवान् ।त्रयोदशाधिकारञ्च प्रगृह्याथर्वणो द्विजः ॥३९॥अहञ्चेन्दीवराख्येति ख्यातोऽस्या जनकोऽभवम् ।विद्याधरपतेः पुत्रो नलनाभस्य खङ्गिनः ॥४०॥मया च याचितः पुर्वं ब्रह्ममित्रोऽभवन्मुनिः ।आयुर्वेदमशेषं मे भगवन् ! दातुमर्हसि ॥४१॥यदा तु बहुशो वीर ! प्रश्रयावनतस्य मे ।न प्रादाद्याचितो विद्यामायुर्वेदात्मिकां मम ॥४२॥शिष्येभ्यो ददतस्तस्य मयान्तर्धानगेन हि ।आयुर्वेदात्मिका विद्या गृहीताभूत्तदानघ ॥४३॥गृहीतायान्तु विद्यायां मासैरष्टाभिरन्तरात् ।ममातिहर्षादभवद्धासोऽतीव पुनः पुनः ॥४४॥प्रत्यभिज्ञाय मां हासान्मुनिः कोपसमन्वितः ।विकम्पिकन्धरः प्राह मामिदं परुषाक्षरम् ॥४५॥राक्षसेनैव यस्मान्मे त्वयादृश्येन दुर्मते ।हृता विद्यावहासश्च मामवज्ञाय वै कृतः ॥४६॥तस्मात्त्वं राक्षसः पाप ! मच्छापेन निराकृतः ।भविष्यसि न सन्देहः सप्तरात्रेण दारुणः ॥४७॥इत्युक्ते प्रणिपाताद्यैरुपचारैः प्रसादितः ।स मामाह पुनर्विप्रस्तत्क्षणान्मृदुमानसः ॥४८॥यन्मयोक्तमवश्यन्तद्भावि गन्धर्व ! नान्यथा ।किन्तु त्वं राक्षसो भूत्वा पुनः स्वं प्राप्स्यसे वपुः ॥४९॥नष्टस्मृतिर्यदा क्रुद्धः स्वमपत्यञ्चिखादिषुः ।निशाचरत्वं गन्तासि तदस्त्रानलतापितः ॥५०॥पुनः संज्ञामवाप्य स्वामवाप्स्यसि निजं वपुः ।तथैव स्वमधिष्ठानं लोके गन्धर्वसंज्ञिते ॥५१॥सोऽहं त्वया महाभाग ! मोक्षितोऽस्मान्महाभयात् ।निशाचरत्वाद् यद्वीर ! तेन मे प्रार्थनां कुरु ॥५२॥इमान्ते तनयां भार्यां प्रयच्छामि प्रतीच्छ ताम् ।आयुर्वेदश्च सकलस्त्वष्टाङ्गो यो मया ततः ।मुनेः सकाशात् संप्राप्तस्तं गृह्णीष्व महामते ॥५३॥मार्कण्डेय उवाचइत्युक्त्वा प्रददौ विद्यां स च दिव्याम्बरोज्जवलः ।स्त्रग्भूषणधरो दिव्यं पुराणं वपुरास्थितः ॥५४॥दत्त्वा विद्यां ततः कन्यां स दातुमुपचक्रमे ।तमाह सा तदा कन्या जनितारं स्वरूपिणम् ॥५५॥अनुरागो ममाप्यत्र तातातीव महात्मनि ।दर्शनादेव संजातो विशेषेणोपकारिणि ॥५६॥किन्त्वेषा मे सखी सा च मत्कृते दुः खपीडिते ।अतो नाभिलषे भोगान् भोक्तुमेतेन वै समम् ॥५७॥पुरुषैरपि नो शक्या कर्तुमित्थं नृशंसता ।स्वभावरुचिरैर्मादृक् कथं योषित् करिष्यति ॥५८॥साहं यथा ते दुः खार्ते मत्कृते कन्यके पितः ।तथा स्थास्यामि तद्दुः खे तच्छोकानलतापिता ॥५९॥स्वरोचिरुवाचआयुर्वेदप्रसादेन ते करिष्ये पुनर्नवे ।सख्यौ तव महाशोकं समुत्सृज सुमध्यमे ॥६०॥मार्कण्डेय उवाचततः पित्रा स्वयं दत्तां तां कन्यां स विधानतः ।उपयेमे गिरौ तस्मिन् स्वरोचिश्चारुलोचवनाम् ॥६१॥दत्तान्तु तां तदा कन्यामभिशान्त्य च भामिनीम् ।जगाम दिव्यया गत्यागन्धर्वः स्वपुरन्ततः ॥६२॥स चापि सहितस्तन्व्या सदुद्यानन्तदा ययौ ।कन्यकायुगलं यत्र तच्छापोत्थगदातुरम् ॥६३॥ततस्तयोः स तत्त्वज्ञो रोगघ्नैरौषधै रसैः ।चकार नीरुजौ देहौ स्वरोचिरपराजितः ॥६४॥ततोऽतिशोभने कन्ये विमुक्ते व्याधितः शुभे ।स्वकान्त्योद्योति दिग्भागं चक्राते तन्महीधरम् ॥६५॥इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे त्रिषष्टितमोऽध्यायः ॥६३॥ N/A References : N/A Last Updated : March 26, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP