संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - त्रिंशदधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत त्रिंशदधिकशततमोऽध्यायः Translation - भाषांतर दमचरितवर्णनम्मार्कण्डेय उवाचनरिष्यन्तस्य तनयो दुष्टारिदमनो दमः ।शक्रस्येव बलं तस्य दयाशीलं मुनेरिव ॥१॥बाभ्रव्यामिन्द्रसेनायां जज्ञे तस्य भूभृतः।नववर्षाणि जठरे स्थित्वा मार्तुर्महायशाः ॥२॥यद्ग्राहयामास दम मातरं जठरे स्थितः ।दमशीलश्च भविता यतश्चायं नृपात्मजः ॥३॥ततस्त्रिकालविज्ञानः स हि तस्य पुरोहितः ।दम इत्यकरोन्नाम नरिष्यन्तसुतस्य तु ॥४॥स दत्तो राजपुत्रस्तु धनुर्वेदमशेषतः ।जगृहे सुरराजस्य सकाशाद्वृषपर्वणः ॥५॥दुन्दुभेर्दैत्यवर्यस्य तपोवननिवासिनः ।सकाशाज्जगृहे कृत्स्नमस्त्रग्रामं च तत्त्वतः ॥६॥शक्तेः सकाशाद्वेदाश्च वेदाङ्गान्यखिलानि च ।तथार्ष्टिषेणाद्राजर्षेर्जगृहे योगमात्मवान् ॥७॥तं सुरूपं महात्मानं गृहीतास्त्रं महाबलम् ।स्वयंवरे कृता पित्रा जगृहे सुमना पतिम् ॥८॥सुता दशार्णाधिपतेर्बलिनश्चारुवर्मणः ।पश्यतां सर्वभूतानां ये तदर्थमुपागताः ॥९॥तस्यां च सानुरागोऽभून्मद्रराजस्य वै सुतः ।सुमनायां महानन्दो महाबलपराक्रमः ॥१०॥तथा विदर्भाधिपतेः पुत्रः संक्रन्दनस्य च ।वपुष्मान्राजपुत्रश्च महाधनुरुदारधीः ॥११॥ते तदा तं वृतं दृष्ट्वा दुष्टारिदमनं दमम् ।मन्त्रयामासुरन्योऽन्यं तत्रानङ्गविमोहिताः ॥१२॥एतामस्य बलात्कन्यां गृहीत्वा रूपशालिनीम् ।गृहं प्रयामस्तस्येयमस्माकं यं ग्रहीष्यति ॥१३॥भर्तृबुद्ध्या वरारोहा स्वयंवरविधानतः ।तस्येच्छया नो भवित्री भार्या धर्मोपपादिता ॥१४॥अथ नेच्छति सा कञ्चिदस्माकं मदिरेक्षणा ।ततस्तस्य भवित्री सा यो दमं घातयिष्यति ॥१५॥मार्कण्डेय उवाचइति ते निश्चयं कृत्वा त्रयः पार्थिवनन्दनाः ।जगृहुस्तां सुचार्वङ्गीं दमपार्श्वानुवर्त्तिनीम् ॥१६॥ततः केचिन्नृपास्तेषां ये तत्पक्षा विचुक्रुशुः ।चुक्रुशुश्चापरे भूपाः केचिन्मध्यस्थतां गताः ॥१७॥ततो दमस्तान्भूपालानवलोक्य समन्ततः ।अनाकुलमना वाक्यमिदमाह महामुने ॥१८॥दम उवाचभो भूपा धर्मकृत्येषु यद्वदन्ति स्वयंवरम् ।दशार्णपतिना भूपाः कृते धर्म्ये स्वयंवरे ॥अधर्मो वाऽथ वा धर्मो यदेभिर्गृह्यते बलात् ॥१९॥यद्यधर्मो न मे कार्यमन्यभार्या भविष्यति ।धर्मो वा तदलं प्राणैर्ये रक्ष्यन्तेऽरिलङ्घने ॥२०॥ततो दशार्णाधिपतिश्चारुवर्मा नराधिपः ।निःशब्दं कारयित्वा तत्सदः प्राह महामुने ॥२१॥दमेन यदिदं प्रोक्तं धर्माधर्माश्रितं नृपाः ।तद्वदध्वं यथा धर्मो ममास्य च न लुप्यते ॥२२॥मार्कण्डेय उवाचततः केचिन्महीपालास्तमूचुर्वसुधाधिपम् ।परस्परानुरागेण गान्धर्वो विहितो विधिः ॥२३॥क्षत्रियाणां परमयं न विट्शूद्रद्विजन्मनाम् ।दममाश्रित्य निष्पन्नः स चास्या दुहितुस्तव ॥२४॥इति धर्माद्दमस्यैषा दुहिता तव पार्थिव ।योऽन्यथा वर्त्तते मोहात्कामात्मा सम्प्रवर्त्तते ॥२५॥तथाऽपरे तदा प्रोचुर्महात्मानो हि भूभृताम् ।पक्षे ये भूभृतो विप्र दशार्णाधिपतिं वचः ॥२६॥मोहात्किमाहुर्धर्मोऽयं गान्धर्वं क्षत्रजन्मनः ।न त्वेष शास्ता नान्यो हि राक्षसः शस्त्रजीविनाम् ॥२७॥बलादिमां यो हरति हत्वा तु परिपन्थिनः ।तस्यैषा स्याद्राक्षसेन विवाहेनावनीश्वराः ॥२८॥प्रधानतर एषोऽत्र विवाहद्वितये मतः ।क्षत्रियाणामतो धर्मा महानन्दादिभिः कृतः ॥२९॥मार्कण्डेय उवाचअथ प्रोचुः पुनर्भूपा यैः पूर्वमुदितो नृपः ।परस्परानुरागेण जातिधर्माश्रितं वचः ॥३०॥सत्यं शस्तो राक्षसोऽपि क्षत्रियाणां परो विधिः ।किन्त्वसौ जनकस्वाम्ये कुमार्यानुमतो वरः ॥३१॥हत्वा तु पितृसम्बन्धं बलेन ह्रियते हि या ।स राक्षसो विधिः प्रोक्तो नात्र भर्तृकरे स्थिता ॥३२॥पश्यतां सर्वभूपानामनया यद्वृतो दमः ।गान्धर्वस्येह निष्पत्तौ विवाहो राक्षसोऽत्र कः ॥३३॥विवाहितायाः कन्यायाः कन्यात्वं नैव विद्यते ।कन्यायाश्च विवाहेन सम्बन्धः पृथिवीश्वराः ॥३४॥त इमे ये बलादेनां दमादादातुमुद्यताः ।बलिनस्ते यदि ततः कुर्वन्तु न तु साधु तत् ॥३५॥मार्कण्डेय उवाचतच्छ्रुत्वाऽसौ दमः कोपकषायीकृतलोचनः ।आरोपयामास धनुर्वचनं चेदमब्रवीत् ॥३६॥ममापि भार्या बलिभिः पश्यतो ह्रियते यदि ।तत्कुलेन भुजाभ्यां वा को गुणः क्लीबजन्मनः ॥३७॥धिङ्ममास्त्राणि धिक्छौर्यं धिक्छरान्धिक्छरासनम् ।धिग्व्यर्थं मे कुले जन्म मरुत्तस्य महात्मनः ॥३८॥यदि भार्यामिमे मूढाः समादाय बलान्विताः ।प्रयान्ति जीवतो धिक्तां मम व्यर्थमनुष्यताम् ॥३९इत्युक्त्वा तान्महीपालान्महानन्दमुखान्बली ।अथाब्रवीत्तदा सर्वान्महारिदमनो दमः ॥४०॥एषातिशोभना बाला चार्वङ्गी मदिरेक्षणा ।किं तस्य जन्मना भार्या न यस्येयं कुलोद्भवा ॥४१॥इति सञ्चिन्त्य भूपालास्तथा यतत संयुगे ।यथा निर्जित्य मामेतां पत्नीं कुरुत मानिनः ॥४२॥इत्याभाष्य ततस्तत्र शरवर्षममुञ्चत ।छादयन्पृथिवीपालांस्तमसेव महीरुहान् ॥४३॥तेऽपि वीरा महीपालाः शरशक्त्यृष्टिमुद्गरान् ।मुमुचुस्तत्प्रयुक्तांश्च दमश्चिच्छेद लीलया ॥४४॥तेऽपि तत्प्रहितान्बाणांस्तेषां चासौ शरोत्करान् ।चिच्छेद पृथिवीशानां नरिष्यन्तात्मजो मुने ॥४५॥वर्त्तमाने तदा युद्धे दमस्य क्षितिपात्मजैः ।प्रविवेश महानन्दः खड्गपाणिर्यतो दमः ॥४६॥तमायान्तं दमो दृष्ट्वा खड्गपाणिं महामृधे ।मुमोच शरवर्षाणि वर्षाणीव पुरन्दरः ॥४७॥तदस्त्राणि ततस्तानि शरजालानि तत्क्षणात् ।महानन्दः प्रचिच्छेद खड्गेनान्यानवञ्चयत् ॥४८॥ततो रोषात्समारुह्य तं दमस्य तदा रथम् ।महानन्दो महावीर्यो दमेन युयुधे सह ॥४९॥बहुधा युध्यमानस्य महानन्दस्य लाघवात् ।दमो मुमोच हदये शरं कालानलप्रभम् ॥५०॥तं लग्नमात्मनोत्कृष्य विभिन्नेन ततो हृदा ।दमं प्रति विचिक्षेप महानन्दोऽसिमुज्ज्वलम् ॥५१॥पतन्तं चैनमुल्काभं शक्त्या चिक्षेप तं दमः ।शिरो वेतसपत्रेण महानन्दस्य चाच्छिनत् ॥५२॥तस्मिन्हते महानन्दे प्राचुर्येण पराङ्मुखाः ।बभूवुः पार्थिवास्तस्थौ वपुष्मान्कुण्डिनाधिपः ॥५३॥दमेन युयुधे चासौ बलगर्वमदान्वितः ।दाक्षिणात्यमहीपालतनयो रणगोचरः ॥५४॥युध्यमानस्य तस्योग्रं करवालं स वै लघु ।चिच्छेद सारथेश्चैव शिरः संख्ये तथा ध्वजम् ॥५५॥छिन्नखड्गो गदां सोऽथ जग्राह बहुकण्टकाम् ।तामप्यस्य स चिच्छेद करस्थामेव सत्वरः ॥५६॥यावदन्यत्समादत्त्ते स वपुष्मान्वरायुधम् ।तावच्छरेण तं विद्ध्वा दमो भूमावपातयत् ॥५७॥स पातितस्ततो भूमौ विह्वलाङ्गः सवेपथुः ।विनिवृत्तमतिर्युद्धाद्बभूव क्षितिपात्मजः ॥५८॥तमालोक्य तथा भूतमयुद्धमतिमात्मवान् ।उत्सृज्यादाय सुमनां सुमनाः प्रययौ दमः ॥५९॥ततो दशार्णाधिपतिः प्रीतिमानकरोत्तयोः ।दमस्य सुमनायाश्च विवाहं विधिपूर्वकम् ॥६०॥कृतदारो दमस्तत्र दशार्णाधिपतेः पुरे ।स्थित्वाऽल्पकालं प्रययौ सभार्यो निजमन्दिरम् ॥६१॥दशार्णाधिपतिश्चासौ दत्त्वा नागांस्तुरङ्गमान् ।रथगोऽश्वखरोष्ट्रांश्च दासीदासांस्तथा बहून् ॥६२॥वस्त्रालङ्कारचापादि वरोपस्करमासनम् ।अन्यैस्तैश्च तथा भाण्डैः परिपूर्णं व्यसर्जयत् ॥६३॥इति श्रीमार्कण्डेयपुराणे दमचरिते त्रिंशदधिकशततमोऽध्यायः । १३० । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP