संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
अष्टसप्ततितमोऽध्यायः

मार्कण्डेयपुराणम् - अष्टसप्ततितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मार्कण्डेय उवाच

ततस्तं तुष्टुवुर्देवास्तथा देवर्षयो रविम् ।
वाग्भिरोड्यमशेषस्य त्रैलोक्यस्य समागताः ॥१॥

देवा ऊचुः

नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुः स्वरूपरूपाय साम्नान्धामवते नमः ॥२॥

ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने ॥३॥

वरिष्ठाय वरेण्याय परस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये ॥४॥

इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि ॥५॥

न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥६॥

नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥७॥

शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद् भगवन् जगदुद्भ्रमता त्वया ॥८॥

भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि ॥९॥

क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते ॥१०॥

तावद्यावन्न संयोगि जगदेतत् त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः ॥११॥

सकलानि च सामानि निपतन्ति त्वदड्गतः ।
ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः ॥१२॥

यतः साममयश्चैव ततो नाथ ! त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च ॥१३॥

मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु ॥१४॥

मार्कण्डेय उवाच

एवं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा ।
मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः ॥१५॥

यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी ।
यजुर्मयेनापि दिवं स्वर्गः साममयं रवेः ॥१६॥

शातितास्तेजसो भागा ये त्वष्ट्रा दश पञ्च च ।
त्वष्ट्रैव तेन शर्वस्य कृतं शूलं महात्मना ॥१७॥

चक्रं विष्णोर्वसूनाञ्च शङ्कवोऽथ सुदारुणाः ।
पावकस्य तथा शक्तिः शिबिका धनदस्य च ॥१८॥

अन्येषामसुरारीणामस्त्राण्युग्राणि यानि वै ।
यक्षविद्याधराणाञ्च तानि चक्रे स विश्वकृत् ॥१९॥

ततश्च षोडशं भागं बिभर्ति भगवान् विभुः ।
तत्तेजः पञ्चदशधा शातितं विश्वकर्मणा ॥२०॥

ततोऽश्वरूपधृग्भानुरुत्तरानगमत् कुरून् ।
तदृशे तत्र संज्ञाञ्च वडवारूपधारिणीम् ॥२१॥

सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम संमुखं तस्य पृष्ठरक्षणतत्परा ॥२२॥

ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।
नासत्यदस्त्रौ तनयावश्वीवक्त्रविनिर्गतौ ॥२३॥

रेतसोऽन्ते च रेवन्तः खड्गी चर्मो तनुत्रधृक् ।
अश्वारूढः समुद्भूतो बाणतूणसमन्वितः ॥२४॥

ततः स्वरूपमतुलं दर्शयामास भानुमान् ।
तस्यैषा च समालोक्य स्वरूपं मुदमाददे ॥२५॥

स्वरूपधारिणीञ्चैमामानिनाय निजाश्रयम् ।
संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः ॥२६॥

ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।
द्वितीयश्च यमः शापाद्धर्मदृष्टिरभूत् सुतः ॥२७॥

कृमयो मांसमादाय पादतोऽस्य महीतले ।
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ॥२८॥

धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।
ततो नियोगं तं याम्ये चकार तिमिरापहः ॥२९॥

यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ।
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ॥३०॥

गुह्यकाधिपतित्वे च रेवन्तोऽपि नियोजितः ।
च्छायासंज्ञासुतानाञ्च नियोगः श्रुयतां मम ॥३१॥

पूर्वजस्य मनोस्तुल्यश्छायासंज्ञासुतोऽग्रजः ।
ततः सावर्णिकीं संज्ञामवाप तनयो रवेः ॥३२॥

भविष्यति मनुः सोऽपि बलिरिन्द्रो यदा तदा ।
शनैश्चरो ग्रहाणाञ्च मध्ये पित्रा नियोजितः ॥३३॥

तयोस्तृतीया या कन्या तपती नाम सा कुरुम् ।
नृपात् संवरणात् पुत्रमवाप मनुजेश्वरम् ॥३४॥

तस्य वैवस्वतस्याहं मनोः सप्तममन्तरम् ।
कथयामि सुतान् भूपानृषीन् देवान् सुराधिपम् ॥३५॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायः

N/A

References : N/A
Last Updated : March 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP