संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| सप्तमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - सप्तमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत सप्तमोऽध्यायः Translation - भाषांतर धर्मपक्षिण ऊचुःहरिश्चन्द्रेति राजर्षिरासीत् त्रेतायुगे पुरा ।धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः ॥१॥न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ।नाधर्मरुचयः पौरास्तस्मिन् शासति पार्थिवे ॥२॥बभूवुर्न तथोन्मत्ता धन-वीर्य-तपोमदैः ।नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः ॥३॥स कदाचिन्महाबाहुररण्येऽनुसरन् मृगम् ।शुश्राव शब्दमसकृत् त्रायस्वेति च योषिताम् ॥४॥स विहाय मृगं राजा मा भैषीरित्यभाषत ।मयि शासति दुर्मेधाः कोऽयमन्यायवृत्तिमान् ॥५॥तत्क्रन्दितानुसारी च सर्वारम्भविघातकृत् ।एकस्मिन्नन्तरे रौद्रो विघ्नराट् समचिन्तयत् ॥६॥विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् ।प्रागसिद्धाभवादीनां विद्याः साध्यति व्रती ॥७॥साध्यमानाः क्षमामौनचित्तसंयमिनामुना ।ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया ॥८॥तेजस्वी कौशिकश्वेष्ठो वयमस्य सुदुर्बलाः ।क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिभाति मे ॥९॥अथवायं नृपः प्राप्तो मा भैरिति वदन् मुहुः ।इममेव प्रविश्याशु साधयिष्ये यथेप्सितम् ॥१०॥इति संचिन्त्य रौद्रेण विघ्नराजेन वै ततः ।तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत् ॥११॥कोऽयं बघ्नाति वस्त्रान्ते पावकं पापकृन्नरः ।बलोष्णतेजसा दीप्ते मयि पत्यावुपस्थिते ॥१२॥सोऽद्य मत्कार्मुकाक्षेप-विदीपितदिगन्तरैः ।शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति ॥१३॥विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः ।क्रुद्धे चर्षिवरे तस्मिन् नेशुर्विद्याः क्षणेन ताः ॥१४॥स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् ।भीतः प्रावेपतात्यर्थं सहसाश्वत्थपर्णवत् ॥१५॥स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् ।ततः स राजा विनयात् प्रणिपत्याभ्यभाषत ॥१६॥भगवन्नेष धर्मो मे नापराधो मम प्रभो ।न क्रोद्धुमर्हसि मुने निजधर्मरतस्य मे ॥१७॥दातव्यं रक्षितव्यं च धर्मज्ञेन महीक्षिता ।चापं चोद्यम्य योद्धव्यं धर्मशास्त्रानुसारतः ॥१८॥विश्वामित्र उवाचदातव्यं कस्य के रक्ष्याः कैर्योद्धव्यं च ते नृप ।क्षिप्रमेतत् समाचक्ष्व यद्यधर्मभयं तव ॥१९॥हरिश्चन्द्र उवाचदातव्यं विप्रमुख्येभ्यो ये चान्ये कृशवृत्तयः ।रक्ष्या भीताः सदा युद्धं कर्तव्यं परिपन्थिभिः ॥२०॥विश्वामित्र उवाचयदि राजा भवान् सम्यग्राजधर्ममवेक्षते ।निर्वेष्टुकामो विप्रोऽहं दीयतामिष्टदक्षिणा ॥२१॥पक्षिण ऊचुःएतद्राजा वचः श्रुत्वा प्रहृष्टेनान्तरात्मना ।पुनर्जातमिवात्मानं मेने प्राह च कौशिकम् ॥२२॥उच्यतां भगवन् यत्ते दातव्यमविशङ्कितम् ।दत्तमित्येव तद्विद्धि यद्यपि स्यात् सुदुर्लभम् ॥२३॥हिरण्यं वा सुवर्णं वा पुत्रः पत्नी कलेवरम् ।प्राणा राज्यं पुरं लक्ष्मीर्यदभिप्रेतमात्मनः ॥२४॥विश्वामित्र उवाचराजन् प्रतिगृहीतोऽयं यस्ते दत्तः प्रतिग्रहः ।प्रयच्छ प्रथमं तावद् दक्षिणां राजसूयिकीम् ॥२५॥राजोवाचब्रह्मंस्तामपि दास्यामि दक्षिणां भवतो ह्यहम् ।व्रियतां द्विजशार्दूल यस्तवेष्टः प्रतिग्रहः ॥२६॥विश्वामित्र उवाचससागरां धरामेतां सभूभृद्ग्रामपत्तनाम् ।राज्यं च सकलं वीर रथाश्व-गजसङ्कुलम् ॥२७॥कोष्ठागारं च कोषं च यच्चान्यद्विद्यते तव ।विना भार्यां च पुत्रं च शरीरं च तवानघ ॥२८॥धर्मं च सर्वधर्मज्ञ यो यान्तमनुगच्छति ।बहुना वा किमुक्तेन सर्वमेतत् प्रदीयताम् ॥२९॥पक्षिण ऊचुःप्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः ।तस्यर्षेर्वचनं श्रुत्वा तथेत्याह कृताञ्जलिः ॥३०॥विश्वामित्र उवाचसर्वस्वं यदि मे दत्तं राज्यमुर्वो बलं धनम् ।प्रभुत्वं कस्य राजर्षे राज्यस्थे तापसे मयि ॥३१॥हरिश्चन्द्र उवाचयस्मिन्नपि मया काले ब्राह्मन् दत्ता वसुन्धरा ।तस्मिन्नपि भवान् स्वामी किमुताद्य महीपतिः ॥३२॥विश्वामित्र उवाचयदि राजंस्त्वया दत्ता मम सर्वा वसुन्धरा ।यत्र मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि ॥३३॥श्रोणीसूत्रादिसकलं मुक्त्वा भूषणसंग्रहम् ।तरुवल्कलमाबध्य सह पत्न्या सुतेन च ॥३४॥पक्षिण ऊचुःतथेति चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे ।स्वपत्न्या शैव्यया सार्धं बालकेनात्मजेन च ॥३५॥व्रजतः स ततो रुद्ध्वा पन्थानं प्राह तं नृपम् ।क्व यास्यसीत्यदत्त्वा मे दक्षिणां राजसूयिकीम् ॥३६॥हरिश्चन्द्र उवाचभगवन् राज्यमेतत् ते दत्तं निहतकण्टकम् ।अवशिष्टमिदं ब्रह्मन्नद्य देहत्रयं मम ॥३७॥विश्वामित्र उवाचतथापि खलु दातव्या त्वया मे यज्ञदक्षिणा ।विशेषतो ब्राह्मणानं हन्त्यदत्तं प्रतिश्रुतम् ॥३८॥यावत् तोषो राजसूये ब्राह्मणानां तभवेन्नृप ।तावदेव तु दातव्या दक्षिणा राजसूयिकी ॥३९॥प्रतिश्रुत्य च दातव्यं योद्धव्यं चाततायिभिः ।रक्षितव्यास्तथा चार्तास्त्वयैव प्राक् प्रतिश्रुतम् ॥४०॥हरिश्चन्द्र उवाचभगवन् साम्प्रतं नास्ति दास्ये कालक्रमेण ते ।प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च ॥४१॥विश्वामित्र उवाचकिम्प्रमाणो मया कालः प्रतीक्ष्यस्ते जनाधिप ।शीघ्रमाचक्ष्व शापाग्निरन्यथा त्वां प्रधक्ष्यति ॥४२॥हरिचन्द्र उवाचमासेन तव विप्रर्षे प्रदास्ये दक्षिणाधनम् ।साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि ॥४३॥विश्वामित्र उवाचगच्छ गच्छ नृपश्रेष्ठ स्वधर्ममनुपालय ।शिवश्च तेऽध्वा भवतु मा सन्तु परिपन्थिनः ॥४४॥पक्षिण ऊचुःअनुज्ञातश्च गच्छेति जगाम वसुधाधिपः ।पद्भ्यामनुचिता गन्तुमन्वगच्छत तं प्रिया ॥४५॥तं सभार्यं नृपश्रेष्ठं निर्यान्तं ससुतं पुरात् ।दृष्ट्वा प्रचुक्रुशुः पौरा राज्ञश्चैवानुयायिनः ॥४६॥हानाथ किं जहास्यस्मान् नित्यार्तिपरिपीडितान् ।त्वं धर्मतत्परो राजन् पौरानुग्रहकृत् तथा ॥४७॥नयास्मानपि राजर्षे यदि धर्ममवेक्षसे ।मुहूर्तं तिष्ठ राजेन्द्र भवतो मुखपङ्कजम् ॥४८॥पिबामो नेत्रभ्रमरैः कदा द्रक्ष्यामहे पुनः ।यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः ॥४९॥तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् ।यस्य भृत्याः प्रयातस्य यान्तयग्रे कुञ्जचरस्थिताः ॥५०॥स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽद्य गच्छति ।हा राजन् सुकुमारं ते सुभ्रु सुत्वचमुन्नसम् ॥५१॥पथि पांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति ।तिष्ठ तिष्ठ नृपश्रेष्ठ स्वधर्ममनुपालय ॥५२॥आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः ।किं दारैः किं सुतैर्नाथ धनैर्धान्यैरथापि वा ॥५३॥सर्वमेतत् परित्यज्य छायाभूता वयं तव ।हानाथ हा महाराज हा स्वामिन् किं जहासि नः ॥५४॥यत्र त्वं तत्र हि वयं तत् सुखं यत्र वै भवान् ।नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः ॥५५॥इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः ।अतिष्ठत् स तदा मार्गे तेषामेवानुकम्पया ॥५६॥विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् ।रोषमर्षविवृत्ताक्षः समागम्य वचोऽब्रवीत् ॥५७॥धिक् त्वां दुष्टसमाचारमनृतं जिह्मभाषणम् ।मम राज्यं च दत्वा यः पुनः प्राक्रष्टुमिच्छसि ॥५८॥इत्युक्तः परुषं तेन गच्छामीति सवेपथुः ।ब्रुवन्नेवं ययौ शीघ्रमाकर्षन् दयितां करे ॥५९॥कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् ।सहसा दण्डकाष्ठेन ताडयामास कौशिकः ॥६०॥तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः ।गच्छामीत्याह दुः खार्तो नान्यत् किञ्चिदुदाहरत् ॥६१॥अथ विश्वे तदा देवाः पञ्च प्राहुः कृपालवः ।विश्वामित्रः सुपापोऽयं लोकान् कान् समवाप्स्यति ॥६२॥येनायां यज्वनां श्रेष्ठः स्वराज्यादवरोपितः ।कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे ।पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरः सरम् ॥६३॥पक्षिण ऊचुःइति तेषां वचः श्रुत्वा कौशिकोऽतिरुषान्वितः ।शशाप तान् मनुष्यत्वं सर्वे यूयमवाप्स्यथ ॥६४॥प्रसादितश्च तैः प्राह पुनरेव महामुनिः. मानुषत्वेऽपि भवतां भवित्री नैव सन्ततिः ॥६५॥न दारसंग्रहश्चैव भविता न च मत्सरः ।कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः ॥६६॥ततोऽवतेरुरंशैः स्वैर्देवास्ते कुरुवेश्मनि ।द्रौपदीगर्भसम्भूताः पञ्च वै पाण्डुनन्दनाः ॥६७॥एतस्मात् कारणात् पञ्च पाण्डवेया महारथाः ।न दारसंग्रहं प्राप्ताः शापात् तस्य महामुनेः ॥६८॥एतत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयम् ।प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि ॥६९॥इति श्रीमार्कण्डेयपुराणे द्रौपदेयोत्पत्तिर्नाम सप्तमोऽध्यायः N/A References : N/A Last Updated : March 14, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP