संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| दशमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - दशमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत दशमोऽध्यायः Translation - भाषांतर जैमिनिरुवाचसंशयं द्विजशार्दूलाः प्रब्रूत मम पृच्छतः ।आविर्भाव-तिरोभावौ भूतानां यत्र संस्थितौ ॥१॥कथं सञ्जायते जन्तुः कथं वा सविवर्धते ।कथं वोदरमध्यस्थस्तिष्ठत्यङ्गनिपीडितः ॥२॥निष्क्रान्तिमुदरात् प्राप्य कथं वा वृद्धिमृच्छति ।उत्क्रान्तिकाले च कथञ्चिद्भावेन वियुज्यते ॥३॥कृत्स्नो मृतस्तथाश्नाति उभे सुकृत-दुष्कृते ।कथं ते च तथा तस्य फलं सम्पादयन्त्युत ॥४॥कथं न जीर्यते तत्र पिण्डीकृत इवाशये ।स्त्रीकोष्ठे यत्र जीर्यन्ते भुक्तानि सुगुरूण्यपि ।भक्ष्याणि यत्र नो जन्तुर्जोर्यते कथमल्पकः ॥५॥एतन्मे ब्रूत सकलं सन्देहोक्तिविवर्जितम् ।तदेतत् परम गुह्यं यत्र मुह्यन्ति जन्तवः ॥६॥पक्षिण ऊचुःप्रश्नभारोऽयमतुलस्त्वयास्मासु निवेशितः ।दुर्भाव्यः सर्वभूतानां भावाभावसमाश्रितः ॥७॥तं शृणुष्व महाभाग यथा प्राह पितुः पुरा ।पुत्रः परमधर्मात्मा सुमतिर्नाम नामतः ॥८॥ब्राह्मणो भार्गवः कश्चित् सुतमाह महामतिः ।कृतोपनयनं शान्तं सुमतिं जडरूपिणम् ॥९॥वेदानधीष्व सुमते ! यथानुक्रममादितः ।गुरुशुश्रूषणे व्यग्रो भैक्षान्नकृतभोजनः ॥१०॥ततो गार्हस्थ्यमास्थाय चेष्ट्वा यज्ञाननुत्तमान् ।इष्टमुत्पादयापत्यमाश्रयेथा वनं ततः ॥११॥वनस्थश्च ततो वत्स परिव्राड् निष्परिग्रहः ।एवमाप्स्यसि तद्ब्रह्म यत्र गत्वा न शोचसि ॥१२॥पक्षिण ऊचुःइत्येवमुक्तो बहुशो जडत्वान्नाह किञ्चन ।पितापि तं सुबहुशः प्राह प्रीत्या पुनः पुनः ॥१३॥इति पित्रा सुतस्नेहात् प्रलोभि मधुराक्षरम् ।स चोद्यमानो बहुशः प्रहस्येदमथाब्रवीत् ॥१४॥तातैतद्बहुशोऽभ्यस्तं यत् त्वयाद्योपदिश्यते ।तथैवान्यानि शास्त्राणि शिल्पानि विविधानि च ॥१५॥जन्मनामयुतं साग्रं मम स्मृतिपथं गतम् ।निर्वेदाः परितोषाश्च क्षयवृद्ध्युदये गताः ॥१६॥शत्रुमित्रकलत्राणां वियोगाः सङ्गमास्तथा ।मातरो विवधा दृष्टाः पितरो विवधास्तथा ॥१७॥अनुभूतानि सौख्यनि दुः खानि च सहस्रशः ।बान्धवा बहवः प्राप्ताः पितरश्च पृथग्विधाः ॥१८॥विण्मूत्रपिच्छिले स्त्रीणां तथा कोष्ठे मयोषितम् ।पीडाश्च सुभृशं प्राप्ता रोगाणाञ्च सहस्रशः ॥१९॥गर्भदुः खान्यनेकानि बालत्वे यौवने तथा ।वृद्धतायां तथाप्तानि तानि सर्वाणि संस्मरे ॥२०॥ब्राह्मण-क्षत्रिय-विशां शूद्राणाञ्चापि योनिषु ।पुनश्च पुशुकीटानां मृगाणामथ पक्षिणाम् ॥२१॥तथैव राजभृत्यानां राज्ञाञ्चाहवशालिनाम् ।समुत्पन्नोऽस्मि गेहेषु तथैव तव वेश्मनि ॥२२॥भृत्यतां दासताञ्चैव गतोऽस्मि बहुशो नृणाम् ।स्वामित्वमीश्वरत्वं च दरिद्रत्वं तथा गतः ॥२३॥हतं मया हतश्चान्यैर्हतं मे घातितं तथा ।दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशाः ॥२४॥पितृ-मातृ-सुहृद्-भ्रातृ-कलत्रादिकृतेन च ।तुष्टोऽसकृत् तथा दैन्यमश्रुधौताननो गतः ॥२५॥एवं संसारचक्रेऽस्मिन् भ्रमता तात सङ्कटे ।ज्ञानमेतन्मया प्राप्तं मोक्षसम्प्राप्तिकारकम् ॥२६॥विज्ञाते यत्र सर्वोऽयमृग्यजुः सामसंज्ञितः ।क्रियाकलापो विगुणो न सम्यक् प्रतिभाति मे ॥२७॥तस्मादुत्पन्नबोधस्य वेदैः किं मे प्रयोजनम् ।गुरुविज्ञानतृप्तस्य निरीहस्य सदात्मनः ॥२८॥षट् प्रकारक्रिया-दुःख-सुख-हर्ष-रसैश्च यत् ।गुणैश्च वर्जितं ब्रह्म तत् प्राप्स्यामि परं पदम् ॥२९॥रस-हर्ष-भयोद्वेग-क्रोधामर्ष-जरातुराम् ।विज्ञातां स्वमृगग्राहिसंघपाशशताकुलम् ॥३०॥तस्माद्यास्याम्यहं तात त्यक्त्वेमां दुः खसन्ततिम् ।त्रयीधर्ममधर्माढ्यं किं पापफलसन्निभम् ॥३१॥पक्षिण ऊचुःतस्य तद्वचनं श्रुत्वा हर्षविस्मयगद्गदम् ।पिता प्राह महाभागः स्वसुतं हृष्टमानसः ॥३२॥पितोवाचकिमेतद्वदसे वत्स कुतस्ते ज्ञानसम्भवः ।केन ते जडता पूर्वमिदानीञ्च प्रबुद्धता ॥३३॥किन्नु शापविकारोऽयं मुनिदेवकृतस्तव ।यत्ते ज्ञानं तिरोभूतमाविर्भावमुपागतम् ॥३४॥पुत्र उवाचशृणु तात ! यथा वृत्तं ममेदं सुख-दुःखदम् ।यश्चाहमासमन्यस्मिन् जन्मन्यस्मत्परन्तु यत् ॥३५॥अहमासं पुरा विप्रो न्यस्तात्मा परमात्मनि ।आत्मविद्याविचारेषु परां निष्ठामुपागतः ॥३६॥सततं योगयुक्तस्य सतताभ्याससङ्गमात् ।सत्संयोगात् स्वस्वभावाद्विचारविधिशोधनात् ॥३७॥तस्मिन्नवे परा प्रीतिर्ममासीद् युञ्जतः सदा ।आचार्यताञ्च सम्प्राप्तः शिष्यसन्देहहृत्तमः ॥३८॥ततः कालेन महता ऐकान्तिकमुपगतः ।अज्ञानाकृष्टसद्भावो विपन्नश्च प्रमादतः ॥३९॥उत्क्रान्तिकालादारभ्य स्मृतिलोपो न मेऽभवत् ।यावदब्दं गतं चैव जन्मनां स्मृतिमागतम् ॥४०॥पूर्वाभ्यासेन तेनैव सोऽहं तात ! जितेन्द्रियः ।यतिष्यामि तथा कर्तुं न भविष्ये यथा पुनः ॥४१॥ज्ञानदानफलं ह्येतद्यज्जातिस्मरणं मम ।न ह्येतत् प्राप्यते तात त्रयीधर्माश्रितैर्नरैः ॥४२॥सोऽहं पूर्वाश्रमादेव निष्ठाधर्ममुपाश्रितः ।एकान्तित्वमुपागम्य यतिष्याम्यात्ममोक्षणे ॥४३॥तद्ब्रूहि त्वं महाभाग ! यत् ते संशयिकं हृदि ।एतावतापि ते प्रीतिमुत्पाद्यानृण्यमाप्नुयाम् ॥४४॥पक्षिण ऊचुःपिता प्राह ततः पुत्रं श्रद्दधत् तस्य तद्वचः ।भवता यद्वयं पृष्टाः संसारग्रहणाश्रयम् ॥४५॥पुत्र उवाचशृणु तात ! यथा तत्त्वमनुभूतं मयासकृत् ।संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥४६॥सोऽहं वदामि ते सर्वं तवैवानुज्ञया पितः ।उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति ॥४७॥ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।भिनत्ति मर्मस्थानानि दीप्यमानो निरिन्धनः ॥४८॥उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते ।भुक्तानामम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥४९॥ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा ।दत्ताः स तस्य आह्लादमापदि प्रतिपद्यते ॥५०॥अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥५१॥येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च ।आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥५२॥देवब्राह्मणपूजायां ये रता नानसूयवः ।शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥५३॥यो न कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ।यथोक्तकारी सोम्यश्च स सुखं मृत्युमृच्छति ॥५४॥अवारिदायिनो दाहं क्षुधाञ्चानन्नदायिनः ।प्राप्नुवन्ति नराः काले तस्मिन् मृत्यावुपस्थिते ॥५५॥शीतं जयन्तीन्धनदास्तापं चन्दनदायिनः ।प्राणघ्नीं वेदनां कष्टां ये चानुद्वेगकारिणः ॥५६॥मोहाज्ञानप्रदातारः प्राप्नुवन्ति महद्भयम् ।वेदनाभिरुदग्राभिः प्रपीड्यन्तेऽधमा नराः ॥५७॥कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै ।ते मोहमृत्यवः सर्वे तथा वेदविनिन्दकाः ॥५८॥विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ।आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा ॥५९॥प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ।क्रान्दत्यविरतं सोऽथ भ्रातृ-मातृसुतानथ ॥६०॥सास्य वागस्फुटा तात एकवर्णा विभाव्यते ।दृष्टिश्च भ्राम्यते त्रासाच्छ्वासाच्छुष्यत्यथाननम् ॥६१॥ऊर्ध्वश्वासान्वितः सोऽथ दृष्टिभङ्गसमन्वितः ।ततः स वेदनाविष्टस्तच्छरीरं विमुञ्चति ॥६२॥वाय्वग्रसारी तद्रूपं देहमन्यत् प्रपद्यते ।तत्कर्मजं यातनार्थं न मातृ-पितृसम्भवम् ।तत्प्रमाणवयोऽवस्था-संस्थानैः प्राग्भवं यथा ॥६३॥ततो दूतो यमस्याशु पाशैर्बध्नाति दारुणैः ।दण्डप्रहारसम्भ्रान्तं कर्षते दक्षिणां दिशम् ॥६४॥कुश-कण्टक-वलमीक-शङ्कु-पाषाणकर्कशे ।तथा प्रदीप्तज्वलने क्वचिच्छृभ्रशतोत्कटे ॥६५॥प्रदीप्तादित्यतप्ते च दह्यमाने तदंशुभिः ।कृष्यते यमदूतैश्चाशिवसन्नादभीषणैः ॥६६॥विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः ।प्रयाति दारुणे मार्गे पापकर्मा यमक्षयम् ॥६७॥छत्रोपानत्प्रदातारो ये च वस्त्रप्रदा नराः ।ये यान्ति मनुजा मार्गं तं सुखेन तथान्नदाः ॥६८॥एवं क्लेशाननुभवन्नवशः पापपीडितः ।नीयते द्वादशाहेन धर्मराजपुरं नरः ॥६९॥कलेवरे दह्यमाने महान्तं दाहमृच्छति ।ताड्यमाने तथैवार्ति छिद्यमाने च दारुणाम् ॥७०॥क्लिद्यमाने चिरतरं जन्तुर्दुःखमवाप्नुते ।स्वेन कर्मविपाकेन देहान्तरगतोऽपि सन् ॥७१॥तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह ।यच्च पिण्डं प्रयच्छन्ति नीयमानस्तदश्नुते ॥७२॥तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनञ्च यत् ।तेन चाप्याय्यते जन्तुर्यच्चाश्नन्ति सबान्धवाः ॥७३॥भूमौ स्वपद्भिर्नात्यन्तं क्लेशमाप्नोति बान्धवैः ।दानं ददद्भिश्च तथा जन्तुराप्याय्यते मृतः ॥७४॥नीयमानः स्वकं गेहं द्वादशाहं स पश्यति ।उपभुङ्क्ते तथा दत्तं तोयपिण्डादिकं भुवि ॥७५॥द्वादशाहात् परं घोरमायसं भीषणाकृतिम् ।याम्यं पश्यत्यथो जन्तुः कृष्यमाणः पुरं ततः ॥७६॥गतमात्रोऽतिरक्ताक्षं भिन्नाञ्जनचयप्रभम् ।मृत्युकालान्तकादीनां मध्ये पश्यति वै यमम् ॥७७॥दंष्ट्राकरालवदनं भ्रकुटीदारुणाकृतिम् ।विरूपैर्भोषणैर्वक्त्रैर्वृतं व्याधिशतैः प्रभुम् ॥७८॥दण्डासक्तं महाबाहुं पाशहस्तं सुभैरवम् ।तन्निर्दिष्टां ततो याति गतिं जन्तुः शुभाशुभाम् ॥७९॥रौरवे कूटसाक्षी तु याति यश्चानृतो नरः ।तस्य स्वरूपं गदतो रौरवस्य निशामय ॥८०॥योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः ।जानुमात्रप्रमाणश्च ततः श्वभ्रः सुदुस्तरः ॥८१॥तत्राङ्गारचयोपेतं कृतञ्च धरणीसमम् ।जाज्वल्यमानस्तीव्रेण तापिताङ्गारभूमिना ॥८२॥तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः ।स दह्यमानस्तीव्रेण वह्निना तत्र धावति ॥८३॥पदे पदे च पादोऽस्य शीर्यते जीर्यते पुनः ।अहोरात्रेणोद्धरणं पादन्यासं च गच्छति ॥८४॥एवं सहस्रमुत्तीर्णो योजनानां विमुच्यते ।ततोऽन्यं पापशुद्ध्यर्थं तादृङ्निरयमृच्छति ॥८५॥ततः सर्वेषु निस्तीर्णः पापी तिर्यकत्वमश्नुते ।कृमि-कीट-पतङ्गेषु श्वापदे मशकादिषु ॥८६॥गत्वा गजद्रुमाद्येषु गोष्वश्वेषु तथैव च ।अन्यासु चैव पापासु दुः खदासु च योनिषु ॥८७॥मानुषं प्राप्य कुब्जो वा कुत्सितो वामनोऽपि वा ।चण्डालपुक्कसाद्यासु नरो योनिषु जायते ॥८८॥अवशिष्टेन पापेन पुण्येन च समन्वितः ।ततश्चारोहणीं जातिं शूद्र-वैश्य-नृपादिकाम् ॥८९॥विप्रदेवेन्द्रतां चापि कदाचिदवरोहणीम् ।एवन्तु पापकर्माणे नरकेषु पतन्त्यधः ॥९०॥यथा पुण्यकृतो यान्ति तन्मे निगतदः शृणु ।ते यमेन विनिर्दिष्टां यान्ति पुण्यां गतिं नराः ॥९१॥प्रगीतगन्धर्वगणाः प्रवृत्ताप्सरसाङ्गणाः ।हारनूपुरमादुर्य-शोभितान्युत्तमानि च ॥९२॥प्रयान्त्याशु विमानानि नानादिव्यस्त्रगुज्ज्वलाः ।तस्माच्च प्रच्युता राज्ञामन्येषां च महात्मनाम् ॥९३॥जायन्ते च कुले तत्र सद्वृत्तपरिपालकाः ।भोगान् सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा ॥९४॥अवरोहणीं च सम्प्राप्य पूर्ववद्यान्ति मानवाः ।एतत् ते सर्वमाख्यातं यथा जन्तुर्विपद्यते ।अतः शृणुष्व विप्रर्षे यथा गर्भं प्रपद्यते ॥९५॥इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम दशमोऽध्यायः N/A References : N/A Last Updated : March 16, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP