संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| चतुर्थोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - चतुर्थोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत चतुर्थोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचएवं ते द्रोणतनयाः पक्षिणो ज्ञानिनोऽभवन् ।वसन्ति ह्यचले विन्ध्ये तानुपास्व च पृच्छ च ॥१॥इत्यृषेर्वचनं श्रुत्वा मार्कण्डेयस्य जैमिनिः ।जगाम विन्ध्यशिखरं यत्र ते धर्मपक्षिणः ॥२॥तन्नगासन्नभूतश्च शुश्राठ पठतां ध्वनिम् ।श्रुत्वा च विस्मयाविष्टश्चिन्तयामास जैमिनिः ॥३॥स्थानसौष्ठवसम्पन्नं जितश्वासमविश्रमम् ।विस्पष्टमपदोषञ्च पठ्यते द्विजसत्तमैः ॥४॥वियोनिमपि सम्प्राप्तानेतान् मुनिकुमारकान् ।चित्रमेतदहं मन्ये न जहाति सरस्वती ॥५॥बन्धुवर्गस्तथा मित्रं यच्चेष्टमपरं गृहे ।त्यक्त्वा गच्छति तत्सर्वं न जहाति सरस्वती ॥६॥इति सञ्चिन्तयन्नेव विवेश गिरिकन्दरम् ।प्रविश्य च ददर्शासौ शिलापट्टगातान् द्विजान् ॥७॥पठतस्तान् समालोक्य मुखदोषविवर्जितान् ।सोऽथ शोकेन हर्षेण सर्वानेवाभ्यभाषत ॥८॥स्वस्त्यस्तु वो द्विजश्रेष्ठा जैमिनिं मां निबोधत ।व्यासशिष्यमनुप्राप्तं भवतां दर्शनोत्सुकम् ॥९॥मन्युर्न खलु कर्तव्यो यत् पित्रातीव मन्युना ।शप्ताः खगत्वमापन्नाः सर्वथा दिष्टमेव तत् ॥१०॥स्फीतद्रव्ये कुले केचिज्जाताः किल मनस्विनः ।द्रव्यनाशे द्विजेन्द्रास्ते शबरेण सुसान्त्विताः ॥११॥दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे ।पातयित्वा च पात्यन्ते त एव तपसः क्षयात् ॥१२॥एतद्दृष्टं सुबहुशो विपरीतं तथा मया ।भावाभावसमुच्छेदैरजस्त्रं व्याकुलं जगत् ॥१३॥इति सञ्चिन्त्य मनसा न शोकं कर्तुमर्हथ ।ज्ञानस्य फलमेतावच्छोकहर्षैरधृष्यता ॥१४॥ततस्ते जैमिनिं सर्वे पाद्यार्घ्याभ्यामपूजयन् ।अनामयञ्च पप्रच्छुः प्रणिपत्य महामुनिम् ॥१५॥अथोचुः खगमाः सर्वे व्यासशिष्यं तपोनिधिम् ।सुखोपविष्टं विश्रान्तं पक्षानिलहतक्लमम् ॥१६॥पक्षिण ऊचुःअद्य नः सफलं जन्म जीवितञ्च सुजीवितम् ।यत् पश्यामः सुरैर्वन्द्यं तव पादाम्बुजद्वयम् ॥१७॥पितृकोपाग्निरुद्भूतो यो नो देहेषु वर्तते ।सोऽद्य शान्तिं गतो विप्र युष्मद्दर्शनवारिणा ॥१८॥कच्चित् ते कुशलं ब्रह्मन्नाश्रमे मृगपक्षिषु ।वृक्षेष्वथ लता-गुल्म-त्वक्सार-तृणजातिषु ॥१९॥अथवा नैतदुक्तं हि सम्यगस्माभिरादृतैः ।भवता सङ्गमो येषां तेषामकुशलं कुतः ॥२०॥प्रसादञ्च कुरुष्वात्र ब्रूह्यागमनकारणम् ।देवानामिव संसर्गो भवतोऽभ्युदयो महान् ।केनास्मद्भाग्यगुरुण आनीतो दृष्टिगोचरम् ॥२१॥जैमिनिरुवाचश्रूयतां द्विजशार्दूलाः कारणं येन कन्दरम् ।विन्ध्यस्येहागतो रम्यं रेवावारिकणोक्षितम् ।सन्देहान् भारते शास्त्रे तान् प्रष्टुं गतवानहम् ॥२२॥मार्कण्डेयं महात्मानं पूर्वं भृगुकुलोद्वहम् ।तमहं पृष्टवान् प्राप्य सन्देहान् भरतं प्रति ॥२३॥स च पृष्टो मया प्राह सन्ति विन्ध्ये महाचले ।द्रोणपुत्रा महात्मानस्ते वक्ष्मन्त्यर्थविस्तरम् ॥२४॥तद्वाक्ययोदितश्चेममागतोऽहं महागिरिम् ।तच्छृणुध्वमशेषेण श्रुत्वा व्याख्यातुमर्हथ ॥२५॥पक्षिण ऊचुःविषये सति वक्ष्यामो निर्विशङ्कः शृणुष्व तत् ।कथं तन्न वदिष्यामो यदस्मद्बुद्धिगोचरम् ॥२६॥चतुर्ष्वपि हि वेदेषु धर्मशास्त्रेषु चैव हि ।समस्तेषु तथाङ्गेषु यच्चान्यद्वेदसंमितम् ॥२७॥एतेषु गोचरोऽस्माकं बुद्धेर्ब्राह्मणसत्तम ।प्रतिज्ञान्तु समारोढुं तथापि नहि शक्नुमः ॥२८॥तस्माद्वदस्व विश्रब्धं सन्दिग्धं यद्वि भारते ।वक्ष्यामस्तव धर्मज्ञ न चेन्मोहो भविष्यति ॥२९॥जैमिनिरुवाचसन्दिग्धानीह वस्तूनि भारतं प्रति यानि मे ।शृणुध्वममलास्तानि श्रुत्वा व्याख्यातुमर्हथ ॥३०॥कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः ।वासुदेवोऽखिलाधारः सर्वकारणकारणम् ॥३१॥कस्माच्च पाण्डुपुत्राणामेका सा द्रुपदात्मजा ।पञ्चानां महिषी कृष्णा सुमाहनत्र संशयः ॥३२॥भेषजं ब्रह्महत्याया बलदेवो महाबलः ।तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः ॥३३॥कथं च द्रौपदेयास्तेऽकृतदारा महारथाः ।पाण्डुनाथा महात्मानो वधमापुरनाथवत् ॥३४॥एतत् सर्वं कथ्यतां मे सन्दिग्धं भारतं प्रति ।कृतार्थोहं सुखं येन गच्छेयं निजमाश्रमम् ॥३५॥पक्षिण ऊचुःनमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे ।पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च ॥३६॥चतुर्व्यूहात्मने तस्मै त्रिगुणायागुणाय च ।वरिष्ठाय गरिष्ठाय वरेष्यायामृताय च ॥३७॥यस्मादणुतरं नास्ति यस्मान्नास्ति बृहत्तरम् ।येन विश्वमिदं व्याप्तमजेन जगदादिना ॥३८॥आविर्भाव-तिरोभाव-दृष्टादृष्ट-विलक्षणम् ।वदन्ति यद् सृष्टमिदं तथैवान्ते च संहृतम् ॥३९॥ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ।ऋक्सामान्युद्गिरन् वक्त्रैर्यः पुनाति जगत्त्रयम् ॥४०॥प्रणिपत्य तथेशानमेकबाणविनिर्जितैः ।यस्यासुरगणैर्यज्ञा विलुप्यन्ते न यज्विनाम् ॥४१॥प्रवक्ष्यामो मतं कृत्स्नं व्यासस्याद्भुतकर्मणः ।येन भारतमुद्दिश्य धर्माद्याः प्रकटीकृताः ॥४२॥आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ।अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥४३॥स देवो भगवान् सर्वं व्याप्य नारायणो विभुः ।चतुर्धा संस्थितो ब्रह्मन् सगुणो निर्गुणस्तथा ॥४४॥एका मूर्तिरनिर्देश्या शुक्लां पश्यन्ति तां बुधाः ।ज्वालामालोपरुद्धाङ्गी निष्ठा सा योगिनां परा ॥४५॥दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ।वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते ॥४६॥रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ।अस्त्येव सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी ॥४७॥द्वितीया पृथिवीं मूद्र्घ्ना शेषाख्या धारयत्यधः ।तामसी सा समाख्याता तिर्यक्त्वं समुपाश्रिता ॥४८॥तृतीया कर्म कुरुते प्रजापालनतत्परा ।सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी ॥४९॥चतुर्थो जलमध्यस्था शेते पन्नगतल्पगा ।रजस्तस्या गुणः सर्गं सा करोति सदैव हि ॥५०॥या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा ।सा तु धर्मव्यवस्थानं करोति नियतं भुवि ॥५१॥प्रोद्धूतानसुरान् हन्ति धर्मविच्छित्तिकारिणः ।पाति देवान् सतश्चान्यान् धर्मरक्षापरायणान् ॥५२॥यदा यदा हि धर्मस्य ग्लानिर्भवति जैमिने ।अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ ॥५३॥भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ।एकया दंष्ट्रयोत्खाता नलिनीव वसुन्धरा ॥५४॥कृत्वा नृसिंहरूपञ्च हिरण्यकशिपुर्हतः ।विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः ॥५५॥वामनादींस्तथैवान्यान् न संख्यातुमिहोत्सहे ।अवताराश्च तस्येह माथुरः साम्प्रतं त्वयम् ॥५६॥इति सा सात्त्विकी मूर्तिरवतारान् करोति वै ।प्रद्युम्नेति च सा ख्याता रक्षाकर्मण्यवस्थिता ॥५७॥देवत्वेऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता ।गृह्णाति तत्स्वभावं च वासुदेवेच्छया सदा ॥५८॥इत्येतत् ते समाख्यातं कृतकृत्योऽपि यत्प्रभुः ।मानुषत्वं गतो विष्णुः शृणुष्वास्योत्तरं पुनः ॥५९॥इति श्रीमार्कण्डेयपुराणे चतुर्व्यूहावतारो नाम चतुर्थोऽध्यायः N/A References : N/A Last Updated : March 13, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP