संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| पञ्चमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - पञ्चमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत पञ्चमोऽध्यायः Translation - भाषांतर पक्षिण ऊचुःत्वष्टृपुत्रे हते पूर्वं ब्रह्मन्निन्द्रस्य तेजसः ।ब्रह्महत्याभिभूतस्य परा हानिरजायत ॥१॥तद्धमं प्रविवेशाथ शाक्रतेजोऽपचारतः ।निस्तेजाश्चाभवच्छक्रो धर्मे तेजसि निर्गते ॥२॥ततः पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः ।अवलुञ्च्य जटामेकामिदं वचनमब्रवीत् ॥३॥अद्य पश्यन्तु मे वीर्यं त्रयो लोकाः सदेवताः ।स च पश्यतु दुर्बुद्धिर्ब्रह्महा पाकशासनः ॥४॥स्वकर्माभिरतो येन मत्सुतो विनपातितः ।इत्युक्त्वा कोपरक्ताक्षो जटामग्नौ जुहाव ताम् ॥५॥ततो वृत्रः समुत्तस्थौ ज्वालामाली महासुरः ।महाकायो महादंष्ट्रो भिन्नाञ्जनचयप्रभः ॥६॥इन्द्रशत्रुरमेयात्मा त्वष्टृतेजोपबृंहितः ।अहन्यहनि सोऽवर्धदिषुपातं महाबलः ॥७॥वधाय चात्मनो दृष्ट्वा वृत्रं शक्रो महासुरम् ।प्रेषयामास सप्तर्षोन् सन्धिमिच्छन् भयातुरः ॥८॥सख्यञ्चक्रुस्ततस्तस्य वृत्रेण समयांस्तथा ।ऋषयः प्रीतमनसः सर्वभूतहिते रताः ॥९॥समयस्थितिमुल्लङ्घ्य यदा शक्रेण घातितः ।वृत्रो हत्याभिभूतस्य तदा बलमशीर्यत ॥१०॥तच्छक्रदेहविभ्रष्टं बलं मारुतमाविशत् ।सर्वव्यापिनमव्यक्तं बलस्यैवाधिदैवतम् ॥११॥अहल्याञ्च यदा शक्रो गौतमं रूपमास्थितः ।धर्षयामास देवेन्द्रस्तदा रूपमहीयत ॥१२॥अङ्गप्रत्यङ्गलावण्यं यदतीव मनोरम् ।विहाय दुष्टं देवेन्द्रं नासत्यावगमत् ततः ॥१३॥धर्मेण तेजसा त्यक्तं बलहीनमरूपिणम् ।ज्ञात्वा सुरेशं दैतेयास्तज्जये चक्रुरुद्यमम् ॥१४॥राज्ञामुद्रिक्तवीर्याणां देवेन्द्रं विजिगीषवः ।कुलेष्वतिबला दैत्या अजायन्त महामुने ॥१५॥कस्यचित्त्वथ कालस्य धरणी भारपीडिता ।जगाम मेरुशिखरं सदो यत्र दिवौकसाम् ॥१६॥तेषां सा कथयामास भूरिभारावपीडिता ।दनुजात्मजदैत्योत्थं खेदकारणमात्मनः ॥१७॥एते भवद्भिरसुरा निहताः पृथुलौजसः ।ते सर्वे मानुषे लोके जाता गेहेषु भूभृताम् ॥१८॥अक्षौहिण्यो हि बहुलास्तद्भारार्ता व्रजाम्यधः ।तथा कुरुध्वं त्रिदशा यथा शान्तिर्भवेन्मम ॥१९॥पक्षिण ऊचुःतेजोभागैस्ततो देवा अवतेरुर्दिवो महीम् ।प्रजानामुपकारार्थं भूभारहरणाय च ॥२०॥यदिन्द्रदेहजं तेजस्तन्मुमोच स्वयं वृषः ।कुन्त्या जातो महातेजास्ततो राजा युधिष्ठिरः ॥२१॥बलं मुमोच पवनस्ततो भीमो व्यजायत ।शक्रवीर्यार्धतश्चैव जज्ञे पार्थो धनञ्जयः ॥२२॥उत्पन्नौ यमजौ माद्रयां शक्ररूपौ महाद्युती ।पञ्चधा भगवानित्थमवतीर्णः शतक्रतुः ॥२३॥तस्योत्पन्ना महाभागा पत्नी कृष्णा हुताशनात् ॥२४॥शक्रस्यैकस्य सा पत्नी कृष्णा नान्यस्य कस्यचित् ।योगीश्वराः शरीराणि कुर्वन्ति बहुलान्यपि ॥२५॥पञ्चानामेकपत्नीत्वमित्येतत् कथितं तव ।श्रूयतां बलदेवोऽपि यथा यातः सरस्वतीम् ॥२६॥इति श्रीमार्कण्डेयपुराणे इन्द्रविक्रियानाम पञ्चमोऽध्यायः N/A References : N/A Last Updated : March 14, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP