संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| चतुस्त्रिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - चतुस्त्रिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत चतुस्त्रिंशोऽध्यायः Translation - भाषांतर मदालसोवाचएवं पुत्र ! गृहस्थेन देवताः पितरस्तथा ।संपूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥१॥भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः ।भिक्षवो याचमानाश्च ये चान्ये वसता गृहे ॥२॥सदाचारवता तात ! साधुना गृहमेधिना ।पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥३॥अलर्क उवाचकथितं मे त्वया मातर्नित्य नैमित्तिकञ्च यत् ।नित्यनैमित्तिकञ्चैव त्रिविधं कर्म पौरुषम् ॥४॥सदाचारमहं श्रोतुमिच्छामि कुलनन्दिनि ।यत् कुर्वन् सुखमाप्रोति परत्रेह च मानवः ॥५॥मदालसोवाचगृहस्थेन सदा कार्यमाचारपरिपालनम् ।न ह्याचारविहीनस्य सुखमत्र परत्र वा ॥६॥यज्ञदानतपांसीह पुरुषस्य च भूतये ।भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥७॥दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम् ॥८॥तस्य स्वरूपं वक्ष्यामि सदाचारस्य पुत्रक ।तन्ममैकमनाः श्रुत्वा तथैव परिपालय ॥९॥त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ।तत्संसिद्धो गृहस्थस्य सिद्धिरत्र परत्र च ॥१०॥पादेनार्थस्य पारत्र्यं कुर्यात् सञ्चयमात्मवान् ।अर्धेन चात्मभरणन्नित्यनैमित्तिकान्वितम् ॥११॥पादञ्चात्मार्थमायस्य मूलभूतं विवर्धयेत् ।एवमाचरतः पुत्र ! अर्थः साफल्यमर्हति ॥१२॥तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता ।परत्रार्थं तथैवान्यः काम्योऽत्रैव फलप्रदः ॥१३॥प्रत्यवायभयात् काम्यस्तथान्यश्चाविरोधवान् ।द्विधा कामोऽपि गदितस्त्रिवर्गस्याविरोधतः ॥१४॥परम्परानुबन्धांश्च धर्मादींस्तान् शृणुष्व मे ॥१५॥धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थबाधकः ।उभाभ्याञ्च द्विधा कामस्तेन तौ च द्विधा पुनः ॥१६॥बाह्मे मुहूर्ते बुध्येत धर्मार्थौ चापि चिन्तयेत् ।समुत्थाय तथाचम्य प्राङ्मुखो नियतः शुचिः ॥१७॥पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम् ।उपासीत यथान्यायं नैनां जह्यादनापदि ॥१८॥असत्प्रलापमनृतं वाक्पारुष्यञ्च वर्जयेत् ।असच्छास्त्रमसद्वादमसत्सेवाञ्च पुत्रक ! ॥१९॥सायं प्रापतस्तथा होमं कुर्वोत नियतात्मवान् ।नोदयास्तमने बिम्बमुदीक्षेत विवस्वतः ॥२०॥केशप्रसाधनादर्शदर्शनं दन्तधावनम् ।पूर्वाह्न एव कार्याणि देवतानाञ्च तर्पणम् ॥२१॥ग्रामावसथतीर्थानां क्षेत्राणाञ्चैव वर्त्मनि ।विण्मूत्रं नानुतिष्ठेत न कृष्टे न च गोव्रजे ॥२२॥नग्नां परस्त्रियं नेक्षेन्न पश्येदात्मनः सकृत् ।उदक्या दर्शनां स्पर्शो वर्ज्यं सम्भाषणन्तथा ॥२३॥नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ।नाधितिष्ठेच्छकृन्मूत्रकेशभस्मकपालिकाः ॥२४॥तुषाङ्गारास्थिशीर्णानि रज्जुवस्त्रादिकानि च ।नाधितिष्ठेत्तथा प्राज्ञः पथि चैवन्तथा भुवि ॥२५॥पितृदेवमनुष्याणां भूतानाञ्च तथार्च्चनम् ।कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुमर्हति ॥२६॥प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः ।भुञ्जीतान्नञ्च तच्चित्तो ह्यन्तर्जानुः सदा नरः ॥२७॥उपगातादृते दोषं नान्यस्योदीरयेद् बुधः ।प्रत्यक्षलवणं वर्ज्यमन्नमत्युष्णमेव च ॥२८॥न गच्छन्न च तिष्ठन् वै विण्मूत्रोत्सर्गमात्मवान् ।कुर्वोत नैव चाचामन् यत् किञ्चिदपि भक्षयेत् ॥२९॥उच्छिष्टो नालपेत् किञ्चित् स्वाध्यायञ्च विवर्जयेत् ।गां ब्राह्मणं तथा चाग्निं स्वमूर्धानञ्च न स्पृशेत् ॥३०॥न च पश्येद्रविं नेन्दुं न नक्षत्राणि कामतः ।भिन्नासनं तथा शय्यां भाजनञ्च विवर्जयेत् ॥३१॥गुरूणामासनं देयमभ्युत्थानादिसत्कृतम् ।अनुकूलं तथालापमभिवादनपूर्वकम् ॥३२॥तथानुगमनं कुर्यात् प्रतिकूलं न संजयेत् ।नैकवस्त्रश्च भुञ्जीत न कुर्याद्देवतार्चनम् ॥३३॥न वाहयेद् द्विजान्नाग्नौ मेहं कुर्वोत् बुद्धिमान् ।स्नायीत न नरो नग्नो न शयीत कदाचन ॥३४॥न पाणिभ्यामुभाभ्याञ्च कण्डूयेत शिरस्तथा ।न चाभीक्ष्णं शिरः स्त्रानं कार्यं निष्कारणं नरैः ॥३५॥शिरः स्त्रातश्च तैलेन नाङ्गं किञ्चिदपि स्पृशेत् ।अनध्यायेषु सर्वेषु स्वाध्यायञ्च विवर्जयेत् ॥३६॥ब्राह्मणानिलगोसूर्यान् न मेहेत कदाचन ।उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः ॥३७॥आबाधाषु यथाकामं कुर्यान्मूत्रपुरीषयोः ।दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत् ॥३८॥परिवादं न शृणुयादन्येषामपि कुर्वताम् ।पन्था देयो ब्राह्मणानां राज्ञो दुः खातुरस्य च ॥३९॥विद्याधिकस्य गुर्विण्या भारार्तस्य यवीयसः ।मूकान्धबधिराणाञ्च मत्तस्योन्मत्तकस्य च ॥४०॥पुंश्चल्याः कृतवैरस्य बालस्य पतितस्य च ।देवालकं चैत्यतरुं तथैव च चतुष्पथम् ॥४१॥विद्याधिकं गुरुं देवं बुधः कुर्यात् प्रदक्षिणम् ।उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत् ॥४२॥उपवीतमलङ्कारं करकञ्चैव वर्जयेत् ।चतुर्दश्यान्तथाष्टम्यां पञ्चदश्याञ्च पर्वसु ॥४३॥तैलाभ्यङ्गं तथा भोगं योषितश्च विवर्जयेत् ।न क्षिप्तपादजङ्घश्च प्राज्ञस्तिष्ठेत् कदाचन ॥४४॥न चापि विक्षिपेत् पादौ पादं पादेन नाक्रमेत् ।मर्माभिघातमाक्रोशं पैशुन्यञ्च विवर्जयेत् ॥४५॥दम्भाभिमानतीक्ष्णानि न कुर्वोत विचक्षणः ।मूर्खोन्मत्तव्यसनिनो विरूपान्मायिनस्तथा ॥४६॥न्यूनाङ्गांश्चाधिकाङ्गांश्च नोपहासैर्विदूषयेत् ।परस्य दण्डं नोद्यच्छेच्छिक्षार्थं पुत्रशिष्ययोः ॥४७॥तद्वन्नोपविशेत् प्राज्ञः पादेनाक्रम्य चासनम् ।संयावं कृषरं मांसं नात्मार्थमुपसाधयेत् ॥४८॥सायं प्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् ।प्राङ्मुखोदङ्मुको वापि वाग्यतो दन्तधावनम् ॥४९॥कुर्वोत सततं वत्स ! वर्जयेद्वर्ज्यवीरुधः ।नोदक्शिराः स्वपेज्जातु न चप्रत्यक्शिरा नरः ॥५०॥शिरस्यगस्त्यमास्थाय शयीताथ पुरन्दरम् ।न तु गन्धवतीष्वप्सु स्नायीत न तथा निशि ॥५१॥उपरागे परं स्नानमृते दिनमुदाहृतम् ।अपमृज्यान्न चास्नातो गात्राण्यम्बरपाणिभिः ॥५२॥न चापि धूनयेत् केशान् वाससी न च धूनयेत् ।नानुलेपनमादद्यादस्नातः कर्हिचिद् बुधः ॥५३॥न चापि रक्तवासाः स्याच्चित्रासितधरोऽपि वा ।न च कुर्याद्विपर्यासं वाससोर्नापि भूषणे ॥५४॥वर्ज्यञ्च विदशं वस्त्रमत्यन्तोपहतञ्च यत् ।केशकीटावपन्नञ्च क्षुण्णं श्वभिरवेक्षितम् ॥५५॥अवलीढावपन्नञ्च सारोद्धरणदूषितम् ।पृष्ठमांसं वृथामांसं वर्ज्यमांसञ्च पुत्रक ! ॥५६॥न भक्षयीत सततं प्रत्यक्षलवणानि च ।वर्ज्यं चिरोषितं पुत्र ! भक्तं पर्युषितञ्च यत् ॥५७॥पिष्टशाकेक्षुपयसां विकारान्नृपनन्दन! ।तथा मांसविकारांश्च ते च वर्ज्याश्चिरोषिताः ॥५८॥उदयास्तमने भानोः शयनञ्च विवर्जयेत् ।नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥५९॥न चैव शयने नोर्व्यामुपविष्टो न शब्दवत् ।न चैकवस्त्रो न वदन् प्रेक्षतामप्रदाय च ॥६०॥भुञ्जीत पुरुषः स्नातः सायं प्रातर्यथाविधि ।परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥६१॥इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् ।न हीदृशमनायुष्यं लोके किञ्चन विद्यते ॥६२॥यादृशं पुरुषस्येह परदाराभिमर्षणम् ।देवार्चनाग्निकार्याण तथा गुर्वभिवादनम् ॥६३॥कुर्वोत सम्यगाचम्य तद्वदन्नभुजिक्रियाम् ।अफेनाभिरगन्धाभिरद्भरच्छाभिरादरात् ॥६४॥आचामेत् पुत्र ! पुण्याभिः प्राङ्मुखोदङ्मुखोऽपि वा ।अन्तर्जलादावसथाद्वल्मीकान्मूषिकस्थलात् ॥६५॥कृतशौचावशिष्टाश्च वर्जयेत् पञ्च वै मृदः ।प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥६६॥अन्तर्जानुस्तथाऽचामेत् त्रिश्चतुर्वा पिबेदपः ।परिमृज्य द्विरास्यान्तं खानि मूर्धानमेव च ॥६७॥सम्यगाचम्य तोयेन क्रियां कुर्वोत वै शुचिः ।देवतानामृषीणाञ्च पितॄणाञ्चैव यत्नतः ॥६८॥समाहितमना भूत्वा कुर्वोत सततं नरः ।क्षुत्त्वा निष्ठीव्य वासश्च परिधायाचमेद् बुधः ॥६९॥क्षुतेऽवलीढे वान्ते च तथा निष्ठीवनादिषु ।कुर्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ॥७०॥कुर्वोतालम्बनं चापि दक्षिणश्रवणस्य वै ।यथाविभवतो ह्येतत् पूर्वाभावे ततः परम् ॥७१॥अविद्यमाने पूर्वोक्ते उत्तरप्राप्तिरिष्यते ।न कुर्याद् दन्तसङ्घर्षं नात्मनो देहताडनम् ॥७२॥स्वप्नाध्ययनभोज्यानि सन्ध्ययोश्च विवर्जयेत् ।सन्ध्यायां मैथुनञ्चापि तथा प्रस्थानमेव च ॥७३॥पूर्वाह्ने तात ! देवानां मनुष्याणाञ्च मध्यमे ।भक्त्या तथापराह्ने च कुर्वोत पितृपूजनम् ॥७४॥शिरः स्नातश्च कुर्वोत दैवं पैत्र्यमथापि वा ।प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत् ॥७५॥व्यङ्गिनीं वर्जयेत् कन्यां कुलजामपि रोगिणीम् ।विकृतां पिङ्गलाञ्चैव वाचाटां सर्वदूषिताम् ॥७६॥अव्यङ्गीं सौम्यनासाञ्च स्रवलक्षणलक्षिताम् ।तादृशीमुद्वहेत् कन्यां श्रेयः कामो नरः सदा ॥७७॥उद्वहेत् पितृमात्रोश्च सप्तमीं पञ्चमीन्तथा ।रक्षेद्दारान् त्यजेदीर्ष्यां दिवा च स्वप्नमैथुने ॥७८॥परोपतापकं कर्म जन्तुपीडाञ्च वर्जयेत् ।उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् ॥७९॥स्त्रीजन्मपरिहारार्थं पञ्चमीमपि वर्जयेत् ।ततः षष्ठ्यां व्रजेद्रात्र्यां श्रेष्ठा युगमासु पुत्रक ॥८०॥युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।तस्माद्युग्मासु पुत्रार्थो संविशेत सदा नरः ॥८१॥विधर्मिणोऽह्नि पूर्वाख्ये सन्ध्याकाले च षण्डकाः ।क्षुरकर्मणि वान्ते च स्त्रीसम्भोगे च पुत्रक ॥८२॥स्नायीत चेलवान् प्राज्ञः कटभूमिमुपेत्य च ।देववेदद्विजातीनां साधुसत्यमहात्मनाम् ॥८३॥गुरोः पतिव्रतानाञ्च तया यज्वितपस्विनाम् ।परिवादं न कुर्वोत परिहासञ्च पुत्रक ॥८४॥कुर्वतामविनीतानां न श्रोतव्यं कथञ्चन ।नोत्कृष्टशय्यासनयोर्नापकृष्टस्य चारुहेत् ॥८५॥न चामङ्गल्यवेशः स्यान्न चामङ्गल्यवाग्भवेत् ।धवलाम्भरसंवीतः सितपुष्पविभूषितः ॥८६॥नोद्धूतोन्मत्तमूढैश्च नाविनीतैश्च पण्डितः ।गच्छेन्मैत्रीं न चाशीलैर्न च चौर्यादिदूषितैः ॥८७॥न चातिव्ययशीलैश्च न लुब्धैर्नापि वैरिभिः ।न बन्धकीभिर्न न्यूनैर्बन्धकीपतिभिस्तथा ॥८८॥सार्धं न बलिभिः कुर्यान्न च न्यूनैर्न निन्दितैः ।न सर्वशङ्किभिर्नित्यं न च दैवपरैर्नरैः ॥८९॥कुर्वोत साधुभिर्मैत्रीं सदाचारावलम्बिभिः ।प्राज्ञैरपिशुनैः शक्तैः कर्मण्युद्योगभागिभिः ॥९०॥सुहृद्दीक्षितभूपालस्नातकश्वशुरैः सह ।ऋत्विगादीन् षडर्घार्हानर्चयेच्च गृहागतान् ॥९१॥यथाविभवतः पुत्र ! द्विजान् संवत्सरोषितान् ।अर्चयेन्मधुपर्केण यथाकालमतन्द्रितः ॥९२॥तिष्ठेच्च शासने तेषां श्रेयस्कामो द्विजोत्तमः ।न च तान् विवदेद्वीमानाक्रुष्टश्चापि तैः सदा ॥९३॥सम्यग्गृहार्चनं कृत्वा यथास्थानमनुक्रमात् ।संपूजयेत्ततो वह्निं दद्याच्चैवाहुतीः क्रमात् ॥९४॥प्रथमां ब्रह्मणे दद्यात् प्रजानांपतये ततः ।तृतीयाञ्चैव गुह्येभ्यः कश्यपाय तथापराम् ॥९५॥ततोऽनुमतये दत्त्वा दद्याद् गृहबलिन्ततः ।पूर्वाख्यातं मया यत्ते नित्यकर्मक्रियाविधौ ॥९६॥वैश्वदेवन्ततः कुर्याद्धलयस्तत्र मे शृणु ।यथास्थानविभागन्तु देवानुद्दिश्य वै पृथके ॥९७॥पर्जन्याय धरित्रीणां दद्याच्च माणके त्रयम् ।वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादितः क्रमात् ॥९८॥ब्रह्मणे चान्तरीक्षाय सूर्याय च यथाक्रमम ।विश्वेभ्यश्चैव देवेभ्यो विश्वबूतभ्य एव च ॥९९॥उषसे भूतपतये दद्याच्चोत्तरतस्ततः ।स्वधा नम इतीत्युक्त्वा पितृभ्यश्चापि दक्षिणे ॥१००॥कृत्वापसव्यं वायव्यां यक्ष्मैतत्तेति भाजनात् ।अन्नावशेषमिच्छन् वै तोयं दद्याद्यथाविधि ॥१०१॥ततोऽन्नाग्रं समुद्धृत्य हन्तकारोपकल्पनम् ।यथाविधि यथान्यायं ब्राह्मणायोपपादयेत् ॥१०२॥कुर्यात् कर्माणि तीर्थेन स्वेन स्वेन यथाविधि ।देवादीनान्तथा कुर्याद् ब्राह्मेणाचमनक्रियाम् ॥१०३॥अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य तु ।एतद् ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥१०४॥तर्जन्यङ्गुष्ठयोरन्तः पैत्र्यं तीर्थमुदाहृतम् ।पितॄणां तेन तोयादि दद्यान्नान्दीमुखादृते ॥१०५॥अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः ।तीर्थ कनिष्ठिकामूले कायं तेन प्रजापतेः ॥१०६॥एवमेभिः सदा तीर्थैर्देवानां पितृभिः सह ।सदा कार्याणि कुर्वोत नान्यतीर्थेन कर्हिचित् ॥१०७॥ब्राह्मेणाचमनं शस्तं पित्र्यं पैत्र्येण सर्वदा ।देवतीर्थेन देवानां प्राजापत्यं निजेन च ॥१०८॥नान्दीमुखानां कुर्वोत प्राज्ञः पिण्डोदकक्रियाम् ।प्राजापत्येन तीर्थेन यच्च किञ्चित् प्रजापतेः ॥१०९॥युगपज्जलमग्निञ्च बिभृयान्न विचक्षणः ।गुरुदेवान् प्रति तथा न च पादौ प्रसारयेत् ॥११०॥नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ।शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः ॥१११॥न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ।तत्र पुत्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ॥११२॥ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ।जितामित्रो नृपो यत्र बलवान् धर्मतत्परः ॥११३॥तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम् ।यत्राप्रधृष्यो नृपतिर्यत्र शस्यवती मही ॥११४॥पौराः सुसंयता यत्र सततं न्यायवर्तिनः ।यत्रामत्सरिणो लोकास्तत्र वासः सुखोदयः ॥११५॥यस्मिन् कृषीबला राष्ट्रे प्रायशो नातिभोगिनः ।यत्रौषधन्यशेषाणि वसेत्तत्र विचक्षणः ॥११६॥तत्र पुत्र न ! वस्तव्यं यत्रैतत् त्रितयं सदा ।जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः ॥११७॥वसेन्नित्यं सुशीलेषु सहवासिषु पण्डितः ।इत्येतत् कथितं पुत्र ! मया ते हितकाम्यया ॥११८॥इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने सदाचारकथनं नाम चतुस्त्रिंशोऽध्यायः N/A References : N/A Last Updated : March 21, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP