संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| सप्ताधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - सप्ताधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत सप्ताधिकशततमोऽध्यायः Translation - भाषांतर अथ सप्ताधिकशततमोऽध्यायःभानोर्माहात्म्यवर्णनम्मार्कण्डेय उवाचततः प्रसन्नो भगवान्भानुराहाखिलाञ्जनान् ।व्रियतां यदभिप्रेतं मत्तः प्राप्तुं द्विजादयः ॥१॥मार्कण्डेय उवाचततस्ते प्रणिपत्योचुर्विप्रक्षत्रादयो जनाः ।ससाध्वसमशीतांशुमवलोक्य पुरः स्थितम् ॥२॥प्रजा ऊचुःभगवन्यदि नो भक्त्या प्रसन्नस्तिमिरापह ॥३॥दश वर्षसहस्राणि ततो नो जीवतां नृपः ।निरामयो जितारातिः सुकोशः स्थिरयौवनः ॥४॥मार्कण्डेय उवाचतथेत्युक्त्वा जनान्भास्वानदृश्योऽभून्महामुने ।तेऽपि लब्धवरा हृष्टाः समाजग्मुर्जनेश्वरम् ॥५॥यथा वृत्तं च ते तस्मै नरेन्द्राय न्यवेदयन् ।वरं लब्ध्वा सहस्रांशो सकाशादखिलं द्विज ॥६॥तच्छ्रुत्वा जहृषे तस्य सा पत्नी मानिनी द्विज ।(प्रहर्षं परमं याता हर्षोद्गततनूरुहा) ॥स च राजा चिरं दध्यौ नाह किञ्चिच्च तं जनम् ॥७॥ततः सा मानिनी भूपं हर्षापूरितमानसा ।दिष्ट्याऽऽयुषा महीपाल वर्द्धस्वेत्याह तं पतिम् ॥८॥तथा तया मुदा भर्ता मानिन्याथ सभाजितः ।नाहं किञ्चिन्महीपालश्चिन्ताजडमनाद्विज ॥९॥सा पुनः प्राह भर्त्तारं चिन्तयानमधोमुखम् ।कस्मान्न हर्षमभ्येषि परमाभ्युदये नृप ॥१०॥दशवर्षसहस्राणि नीरुजः स्थिरयौवनः ।भावी त्वमद्यप्रभृति किं तथापि न हृष्यसे ॥११॥किन्तु तत्कारणं ब्रूहि यच्चिन्ताकृष्टमानसः ।परमाभ्युदयेऽपि त्वं सम्प्राप्ते पृथिवीपते ॥१२॥राजोवाचकथमभ्युदयो भद्रे किं सभाजयसे च माम् ।प्राप्तो दुःखसहस्राणां किं सभाजनमिष्यते ॥१३॥दशवर्षसहस्राणि जीविष्याम्यहमेककः ।न त्वं तव विपत्तौ मे किन्न दुःखं भविष्यति ॥१४॥पुत्रान्पौत्रान्प्रपौत्रांश्च तथान्यानिष्टबान्धवान् ।पश्यतो मे मृतान्दुःखं किमल्पं हि भविष्यति ॥१५॥भृत्येषु चातिभक्तेषु मित्रवर्गे तथा मृते ।भद्रे दुःखमपारं मे भविष्यति तु सन्ततम् ॥१६॥यैर्मदर्थं तपस्तप्तं कृशैर्धमनिसन्ततैः ।ते मरिष्यन्त्यहं भोगी जीविष्यामीति धिक्करम् ॥१७॥सेयमापद्वरारोहे प्राप्ता नाभ्युदयो मम ।कथं वा मन्यसे न त्वं यत्सभाजयसेऽद्य माम् ॥१८॥मानिन्युवाचमहाराज यथात्थ त्वं तथैतन्नात्र संशयः ।मया पौरैश्च दोषोऽयं प्रीत्या नालोकितस्तव ॥१९॥एवं गतेऽत्र किं कार्यं नरनाथ विचिन्त्यताम् ।नान्यथा भावि यत्प्राह प्रसन्नौ भगवान्रविः ॥२०॥राजोवाचउपकारः कृतः पौरैः प्रीत्या भृत्यैश्च यो मम ।कथं भोक्ष्याम्यहं भोगान्गत्वा तेषामनिष्कृतिम् ॥२१॥सोऽहमद्यप्रभृत्यद्रिं गत्वा नियतमानसः ।( पौरलोकहितार्थं च तोषयिष्यामि भास्करम् ॥यथा पौरा मम कृते बान्धवाश्च समन्ततः ।आराधनाय देवेशं तथाहमपि साम्प्रतम्) ॥तपस्तप्स्ये निराहारो भानोराराधनोद्यतः ॥२२॥दशवर्षसहस्राणि यथाहं स्थिरयौवनः ।तस्य प्रसादाद्देवस्य जीविष्यामि निरामयः ॥२३॥तथा यदि प्रजाः सर्वा भृत्यास्त्वं च सुताश्च मे ।पुत्रा पौत्रा प्रपौत्राश्च सुहृदश्च वरानने ॥२४॥जीवन्त्येतं प्रसादं च करोति भगवान्रविः ।ततोऽहं भविता राज्ये भोक्ष्ये भोगांस्तथा मुदा ॥२५॥न चेदेवं करोत्यर्कस्तदाद्रौ तत्र मानिनि ।तपस्तप्स्ये निराहारो यावज्जीवितसंक्षयः ॥२६॥मार्कण्डेय उवाचइत्युक्ता सा तदा तेन तथेत्याह नराधिपम् ।जगाम तेन च समं साऽपि तं धरणीधरम् ॥२७॥स तदायतनं गत्वा भार्यया सह पार्थिवः ।भानोराराधनं चक्रे शुश्रूषानिरतो द्विज ॥२८॥निराहारा कृशा सा च यथासौ पृथिवीपतिः ।तेपे तपस्तथैवोग्रं शीतवातातपक्षमा ॥२९॥तस्य पूजयतो भानुं तप्यतश्च तपो महत् ।साग्रे सम्वत्सरे याते ततः प्रीतो दिवाकरः ॥३०॥समस्तभृत्यपौरादिपुत्राणां च कृते द्विज ।ददौ यथाभिलषितं वरं द्विजवरोत्तम ॥३१॥लब्ध्वा वरं स नृपतिः समभ्येत्यात्मनः पुरम् ।चकार मुदितो राज्यं प्रजा धर्मेण पालयन् ॥३२॥ईजे यज्ञान्स च बहून्ददौ दानान्यहर्निशम् ।मानिन्या सहितो भोगान्बुभुजे च स धर्मवित् ॥३३॥दश वर्षसहस्राणि पुत्रपौत्रादिभिः सह ।भृत्यैः पौत्रैः प्रमुदितः सोऽभवत्स्थिरयौवनः ॥३४॥तस्येति चरितं दृष्ट्वा प्रमतिर्नाम भार्गवः ।विस्मयाकृष्टहृदयो गाथामेतामगायत ॥३५॥भानुभक्तेरहो शक्तिर्यद्राजा राज्यवर्द्धनः ।आयुषो वर्द्धने जातः स्वजनस्य तथात्मनः ॥३६॥इति ते कथितं विप्र यत्पृष्टोऽहं त्वयोदितः ।आदिदेवस्य माहात्म्यमादित्यस्य विवस्वतः ॥३७॥विप्रैतदखिलं श्रुत्वा भानोर्माहात्म्यमुत्तमम् ।पठंश्च मुच्यते पापैः सप्तरात्रकृतैर्नरः ॥३८॥अरोगी धनवानाढ्यः कुले महति धीमताम् ।जायते च महाप्राज्ञो यश्चैतद्धारयेद्बुधः ॥३९॥( यजते च महायज्ञैः समाप्तवरदक्षिणः ।श्रुत्वा चरितमेतद्धि समानं लभते फलम् ॥मन्त्राश्च येऽत्राभिहिता भास्वतो मुनिसत्तम ।जपः प्रत्येकमेतेषां त्रिसंध्यं पातकापहः ॥४०॥समस्तमेतन्माहात्म्यं यत्र चायतने रवेः ।पठ्यते तत्र भगवान्सान्निध्यं न विमुञ्चति ॥४१॥तस्मादेतत्त्वया ब्रह्मन्भानोर्माहात्म्यमुत्तमम् ।धार्यं मनसि जाप्यं च महत्पुण्यमभीप्सता ॥४२॥सुवर्णशृङ्गीमतिशोभनाङ्गीं पयस्विनीं गां प्रददाति यो हि ।शृणोति चैतत्त्र्यहमात्मवान्नरः समं तयोः पुण्यफलं द्विजाग्र्य ॥४३॥इति श्रीमार्कण्डेयपुराणे भानोर्माहात्म्यवर्णनं नाम सप्ताधिकशततमोऽध्यायः । १०७ । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP