संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| अष्टाशीतितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - अष्टाशीतितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत अष्टाशीतितमोऽध्यायः Translation - भाषांतर ऋषिरुवाचचण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥१॥ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥२॥अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः ।कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥३॥कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥४॥कालका दौर्हृदा मौर्याः कालकेयास्तथासुराः ।युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥५॥इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ।निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ॥६॥आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभिषणम् ।ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥७॥स च सिंहो महानादमतीव कृतवान् नृप ।घण्टास्वनेन तन्नादमम्बिका चाप्यबृंहयत् ॥८॥धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।निनादैर्भोषणैः काली जिग्ये विस्तारितानना ॥९॥तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् ।देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥१०॥वामे शिवेन एवं दक्षे गणेशेन परिवृताः सप्तमातृकाः।ब्राह्मी मातृकाकौमारी मातृकाएतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।भवायामरसिंहानामतिवीर्यबलान्विताः ॥११॥ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥१२॥यस्य देवस्य यद्रूपं यथाभूषणवाहनम् ।तद्वदेव हि तच्छक्तिरसुरान् योद्धुमाययौ ॥१३॥हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते ॥१४॥माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।महाहिवलया प्राप्ता चन्द्रलेखाविभूषणा ॥१५॥कौमारी शक्तिहस्ता च मयूरवरवाहना ।योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥१६॥तथैव वैष्णावी शक्तिर्गरुडोपरि संस्थिता ।शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥१७॥जज्ञे वाराहमतुलं रूपं या बिभ्रती हरेः ।शक्तिः साप्यायौ तत्र वाराहीं बिभ्रती तनुम् ॥१८॥नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥१९॥वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥२०॥ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ।हन्यन्तामसुराः शीघ्रं मम प्रीत्याऽह चण्डिकाम् ॥२१॥ततो देवोशरीरात्तु विनिष्क्रान्तातिभीषणा ।चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी ॥२२॥सा चाह धूम्रजटिलमीशानमपराजिता ।दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥२३॥ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥२४॥त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥२५॥बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ।तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥२६॥यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥२७॥तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥२८॥ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।ववर्षुरुद्धतामर्षास्तां देवीममरारयः ॥२९॥सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ।चिच्छेद लीलयाऽध्मातधनुर्मुक्तैर्महेषुभिः ॥३०॥तस्याग्रतस्तथा काली शूलपातविदारितान् ।खट्वाङ्गपोथितांश्चारीन् कुर्वती व्यचरत्तदा ॥३१॥कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।ब्रह्माणी चाकरोच्छत्रून् येन येन स्म धावति ॥३२॥माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥३३॥ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः ।पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥३४॥तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः ।वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥३५॥नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।नारसिंही चचाराजौ नादापूर्णदिगन्तरा ॥३६॥चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥३७॥इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥३८॥पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् ।योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥३९॥रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥४०॥युयुधे स गदापाणिपरिन्द्रशक्त्या महासुरः ।ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥४१॥कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥४२॥यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥४३॥ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः ।समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥४४॥पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ।ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥४५॥वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥४६॥वेष्णावीचक्रभिन्नस्य रुधिरस्रावसम्भवैः ।सहस्रशौ जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥४७॥शक्त्या जघान कौमारी वाराही च तथासिना ।माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥४८॥स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।मातः कोपसमाविष्टो रक्तबीजो महासुरः ॥४९॥तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥५०॥तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥५१॥तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा ।उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥५२॥मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥५३॥भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान् ।एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ।भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ॥५४॥ऋषिरुवाचइत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ।मुखेन काली जगृहे रक्तबीजस्य शोणितम् ॥५५॥ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ।न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ॥५६॥तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ।यतस्ततः स्ववक्त्रेण चामुण्डा सम्प्रतीच्छति ॥५७॥मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ।तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥५८॥देवी शूलेन चक्रेण बाणैरसिभिरृष्टिभिः ।जघान रक्तबीजं तं चामुण्डापीतशोणितम् ॥५९॥स पपात महीपृष्ठे शस्त्रसंहतितो हतः ।नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥६०॥ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ।तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ॥६१॥इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये रक्तबीजवधोनामाष्टाशीतितमोऽध्यायः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP