संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| अथैकविंशत्यधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - अथैकविंशत्यधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत अथैकविंशत्यधिकशततमोऽध्यायः Translation - भाषांतर अविक्षिच्चरितवर्णनम्मार्कण्डेय उवाचततः शुश्राव तं बद्धं तनयं स करन्धमः ।तस्य पत्नी तथा वीरा अन्ये चापि महीभृतः ॥१॥तमधर्मेण तनयं बद्धं श्रुत्वा महीपतिः ।समन्तैः पृथिवीपालैश्चिरं दध्यौ महामुने ॥२॥केचिदूचुर्महीपाला वध्याः सर्वे महीभृतः ।यैरेकः संयुगे बद्धः समस्तैस्तैरधर्मतः ॥३॥युज्यतां वाहिनी शीघ्रमूचुरन्ये किमास्यते ।विशालो बध्यतां दुष्टस्तत्र येऽन्ये समागताः ॥४॥अन्ये तथोचुर्धर्मोऽत्र त्यक्तः पूर्वमहीक्षिता ।अन्यायेन बलाद्येन गृहीता तमवाच्छती ॥५॥स्वयंवरेष्वशेषेषु तेन राजसुतास्तदा ।खिलीकृतास्ततः सर्वे समेत्य स वशीकृतः ॥६॥तेषामेतद्वचः श्रुत्वा वीरा वीरप्रजावती ।वीरगोत्रसमुद्भूता वीरपत्नी प्रहर्षिता ॥७॥उवाच भर्त्तुः प्रत्यक्षमन्येषां च महीक्षिताम् ।भद्रं कृतं भद्रभुजा मम पुत्रेण पार्थिवाः ॥८॥गृहीता यद्बलात्कन्या जित्वा सर्वमहीक्षितः ।तदर्थं युध्यमानोऽयं बद्ध एको न धर्मतः ॥९॥तदप्यस्मत्सुतस्याजौ मन्ये नापचयप्रदम् ।एतदेवहि पौरुष्यं यदमर्षवशान्नरः ॥१०॥नीतिं न गणयत्येवं जिघांसुरिव केसरी ।स्वयंवराय विन्यस्ता मम पुत्रेण कन्यका ॥११॥बह्व्यो गृहीता भूपानां पश्यतामतिमानिनाम् ।क्व क्षत्रियकुले जन्म क्व याञ्चा हीनसेविता ॥१२॥बलादेव समादत्ते क्षत्रियो बलिनां पुरः ।लोहशृंखलबद्धा वा न वशं यान्ति कातराः ॥१३॥प्रसह्यकारिणो यान्ति राजानो धर्मशालिनः ।तदलं दौर्मनस्येन श्लाघ्यमेवास्य बन्धनम् ॥१४॥युष्माकमपि ये पूर्वे कृत्वारीणां निपातनम् ।हृत्वैव पृथिवीशानां पृथ्वीपुत्रादिकं वसु ॥१५॥भार्यावीर्यनिमित्तानि ततो यातातिगौरवम् ।तत्त्वर्यतां रणायाशु स्यन्दनान्यधिरोहत ॥१६॥सज्जीकुरुत नागाश्वमचिरेण ससारथिम् ।मन्यध्वं किं महीपालैर्बहुभिः सह विग्रहम् ॥१७॥प्रभूता एव तोषाय शूरस्याल्परणे क्रियाः ।कस्य नाल्पेषु सामर्थ्यं नरेन्द्रादिषु जायते ॥१८॥येभ्यो न विद्यते भीतिर्विक्रान्तस्यापि शत्रुषु ।व्याप्य लोभान्समस्तान्यो ह्यभिभूय यतो नरः ॥व्यरोचतेऽतिशूरः स तमांसीव दिवाकरः ॥१९॥मार्कण्डेय उवाचइत्थमुद्धर्षितो राजाऽनया पत्न्या करन्धमः ।चकार स बलोद्योगं हन्तुं पुत्राहितान्मुने ॥२०॥ततस्तस्य समं भूपैर्विशालेन च सङ्गरः ।बभूव बद्धपुत्रस्य तैरशेषैर्महामुने ॥२१॥दिनत्रयमभूद्युद्धं तेन राज्ञा समं तदा ।करन्धमेन भूपानां विशालस्यानुकुर्वताम् ॥२२॥यदा पराजितप्रायं तत्सर्वं भूपमण्डलम् ।तदा विशालोऽर्घ्यकरः करन्धममुपस्थितः ॥२३॥करन्धमोऽपि सम्प्रीत्या तेन राज्ञाभिपूजितः ।विमुक्ते तनये तत्र निशान्तां सुखमावसत् ॥२४॥तां च कन्यामुपादाय विशालं समुपस्थितम् ।अविक्षित्प्राह विप्रर्षे विवाहार्थं पितुः पुरः ॥२५॥नाहमेतां ग्रहीष्यामि न चान्यां योषितं नृप ।परैर्यस्या निरीक्षन्त्याः संग्रामेऽहं पराजितः ॥२६॥अन्यस्मै सम्प्रयच्छेमामियं चान्यं वृणोतु तम् ।अखण्डितयशो वीर्यो यः परैर्नापमानितः ॥२७॥परैः पराजितोऽहं यत्कातरेयं यथाऽबला ।किमत्र मानुषत्वं मे नैतस्या मम चान्तरम् ॥२८॥स्वतन्त्रता मनुष्याणां परतन्त्रा सदाऽबला ।नरोऽपि परतन्त्रो यस्तस्य कीदृङ्मनुष्यता ॥२९॥सोऽहमस्या मुखं भूयो दृष्टं दर्शयिता कथम् ।योऽहमस्याः पुरो भूमौ परैर्भूपैः खिलीकृतः ॥३०॥इत्युक्ते तेन तनयामुवाच जगतीपतिः ।श्रुतं ते वचनं वत्से वदतोऽस्य महात्मनः ॥वरयान्यं पतिं यत्र मनस्ते रमते शुभे ॥३१॥वयं वा सम्प्रयच्छामो यस्मिंस्तस्मिंस्तवादृतिः ।एतयोर्ह्येकमातिष्ठ मार्गयो रुचिरानने ॥३२॥कन्योवाच॥पराजितोऽयं बहुभिर्न सम्यक्सम्यगाचरन् ।संग्रामे तद्यशो वीर्यहानिकारि न पार्थिव ॥३३॥एको बहूनां युद्धाय गजानामिव केसरी ।यत्संस्थितः परं शौर्यं तेनास्य प्रकटीकृतम् ॥३४॥न केवलमयं तस्थौ युद्धे तेप्यखिला जिताः ।बहुशोऽनेन यत्नेन विक्रमोऽपि प्रकाशितः ॥३५॥शौर्यविक्रमसंयुक्तमिमं सर्वमहीक्षितः ।धर्मयुद्धमधर्मेण जितवन्तोऽत्र का त्रपा ॥३६॥न चापि रूपमात्रेऽहं लोभमस्य गता पितः ।शौर्यविक्रमधैर्याणि हरन्त्यस्य मनो मम ॥३७॥तत्किमुक्तेन बहुना याच्यतां मत्कृते नृपः ।त्वया महानुभावोऽयं नान्यो मे भविता पतिः ॥३८॥विशाल उवाचराजपुत्रसुता प्राह ममैतच्छोभनं वचः ।एवं चैव त्वया तुल्यः कुमारो न महीतले ॥३९॥अविसंवादिते शौर्यमतीव च पराक्रमः ।पावयास्मत्कुलं वीर दुहितुर्मे परिग्रहात् ॥४०॥राजपुत्र उवाचनाहमेतां ग्रहाष्यामि न चान्यां योषितं नृप ।आत्मन्येव हि मे बुद्धिः स्त्रीमयी मनुजेश्वर ॥४१॥मार्कण्डेय उवाचततः करन्धमः प्राह पुत्रेयं गृह्यतां त्वया ।विशालतनया सुभ्रूस्त्वयि हार्दवती दृढम् ॥४२॥राजपुत्र उवाचनाज्ञाभङ्गः कदाचित्ते कृतः पूर्वं मया प्रभो ।तथाऽऽज्ञापय मां तात यथाज्ञां करवाणि ते ॥४३॥मार्कण्डेय उवाचअत्यन्तनिश्चितमतौ तस्मिन्राजसुते सुताम् ।तामुवाच विशालोऽपि व्याकुलीकृतमानसः ॥४४॥निवर्त्यतां मनः पुत्रि एतस्माच्च प्रयोजनात् ।अन्यं वरय भर्त्तारं सन्त्यनेके नृपात्मजाः ॥४५॥कन्योवाचवरं वृणोम्यहं तात मामेष यदि नेच्छति ।तपसाऽन्यो न मे भर्त्ता जन्मन्यस्मिन्भविष्यति ॥४६॥मार्कण्डेय उवाचततः करन्धमो राजा विशालेन समं मुदा ।स्थित्वा दिनत्रयं तत्र निजमभ्याययौ पुरम् ॥४७॥अविक्षितोपि तेनैव पित्रान्यैश्च नराधिपैः ।निदर्शनैः पुरावृत्तैः सान्त्वितोऽभ्यागमत्पुरम् ॥४८॥सापि कन्या वनं गत्वा निसृष्टा निजबान्धवैः ।तपस्तेपे निराहारा वैराग्यं परमास्थिता ॥४९॥निराहारा यदा सा तु मासत्रयमवस्थिता ।सम्प्राप परमामार्त्तिं कृशाधमनिसन्तता ॥५०॥मन्दोत्साहातितन्वङ्गी मुमूर्षुरपि बालिका ।देहत्यागाय सा चक्रे तदा बुद्धिं नृपात्मजा ॥५१॥आत्मत्यागाय तां ज्ञात्वा कृतबुद्धिं सुरास्ततः ।समेत्य प्रेषयामासुर्देवदूतं तदन्तिकम् ॥५२॥समुपेत्य स तां प्राह दूतोऽहं पार्थिवात्मजे ।प्रेषितस्त्रिदशैस्तुभ्यं यत्कार्यं तन्निशामय ॥५३॥न भवत्या परित्याज्यं शरीरमतिदुर्लभम् ।त्वं भविष्यसि कल्याणि जननी चक्रवर्तिनः ॥५४॥पुत्रेण च महाभागे भोक्तव्यानि हतारिणा ।अव्याहताज्ञेन चिरं सप्तद्वीपवती मही ॥५५॥हन्तव्यस्तेन तरुजिद्देवानां पुरतो रिपुः ।अयःशंकुस्तथा क्रूरो धर्मे स्थाप्यास्ततः प्रजाः ॥५६॥परिपालनीयमखिलं चातुर्वर्ण्यं स्वधर्मतः ।हन्तव्या दस्यवो म्लेच्छा ये चान्ये दुष्टचेष्टिताः ॥५७॥यष्टव्यं विविधैर्यज्ञैः समाप्तवरदक्षिणैः ।वाजिमेधादिभिर्भद्रे षट्सहस्रैश्च संख्यया ॥५८॥मार्कण्डेय उवाचतं दृष्ट्वा साऽन्तरिक्षस्थं दिव्यस्रगनुलेपनम् ।देवदूतमुवाचेदं राजपुत्री ततो मृदु ॥५९॥सत्यं त्वमागतः स्वर्गाद्देवदूतो न संशयः ।किन्तु भर्त्रा विना पुत्रः स कथं मे भविष्यति ॥६०॥अविक्षितमृते भर्त्ता मम नान्योऽत्र जन्मनि ।भवितेति प्रतिज्ञातं मयैतत्सन्निधौ पितुः ॥६१॥स च नेच्छति मां प्रोक्तो मत्पित्रा जनकेन च ।करन्धमेनाथ सम्यग्याचितश्च मया तथा ॥६२॥देवदूत उवाचकिमनेन महाभागे बहुनोक्तेन ते सुतः ।समुत्पत्स्यति मा त्याक्षीस्त्वमात्मानमधर्मतः ॥६३॥अत्रैव कानने तिष्ठ तनुं क्षीणां च पोषय ।तपःप्रभावादेतत्ते सर्वं साधु भविष्यति ॥६४॥मार्कण्डेय उवाचइत्युक्त्वा देवदूतोऽसौ यथागतमगच्छत ।चकारानुदिनं सुभ्रूः साप्यात्मतनुपोषणम् ॥६५॥इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नामैकविंशत्यधिकशततमोऽध्यायः । १२१ । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP