संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
एकादशोऽध्यायः

मार्कण्डेयपुराणम् - एकादशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


पुत्र उवाच

निषेकं मानवं स्त्रीणां बीजं प्राप्तं रजस्यथ ।
विमुक्तमात्रो नरकात् स्वर्गाद्वापि प्रपद्यते ॥१॥

तेनाभिभूतं तत् स्थैर्यं याति बीजद्वयं पितः ।
कललत्वं बुद्बुदत्वं ततः पेषित्वमेव च ॥२॥

पेष्यां यथाणुबीजं स्यादह्कुरस्तद्वदुच्यते ।
अङ्गानां च तथोत्पत्तिः पञ्चानामनुभागशः ॥३॥

उपाङ्गान्यङ्गुली-नेत्र-नासास्य-श्रवणानि च ।
प्ररोहं यान्ति चाङ्गेभ्यस्तद्वत् तेभ्यो नखादिकम् ॥४॥

त्वचि रोमाणि जायन्ते केशाश्चैव ततः परम् ।
समं समृद्धिमायाति तेनैवोद्भवकोषकम् ॥५॥

नारिकेलफलं यद्वत् सकोषं वृद्धिमृच्छति ।
तद्वत् प्रयात्यसौ वृद्धिं सकोषोऽधोमुखः स्थितः ॥६॥

तले तु जानु-पार्श्वाभ्यां करौ न्यस्य स वर्धते ।
अङ्गुष्ठो चोपरि न्यस्तौ जान्वोरग्रे तथाङ्गुली ॥७॥

जानुपृष्ठे तथा नेत्रे जानुमध्ये च नासिका ।
स्फिचौ पार्ष्णिद्वयस्थे च बाहुजङ्घे बहिः स्थिते ॥८॥

एवं वृद्धिं क्रमाद्याति जन्तुः स्त्रीगर्भसंस्थितः ।
अन्यसत्त्वोदरे जन्तोर्यथा रूपं तथा स्थितिः ॥९॥

काठिन्यमग्निना याति भुक्तपीतेन जीवति ।
पुण्यापुण्याश्रयमयी स्थितिर्जन्तोस्तथोदरे ॥१०॥

नाडी चाप्यायनी नाम नाभ्यां तस्य निबध्यते ।
स्त्रीणां तथान्त्रसुषिरे सा निबद्धोपजायते ॥११॥

क्रामन्ति भुक्तपीतानि स्त्रीणां गर्भोदरे यथा ।
तैराप्यायितदेहोऽसौ जन्तुर्वृद्धिमुपैति वै ॥१२॥

स्मृतीस्तस्य प्रयान्त्यस्य बह्व्यः संसारभूमयः ।
ततो निर्वेदमायाति पीड्यमान इतस्ततः ॥१३॥

पुनर्नैवं करिष्यामि मुक्तमात्र इहोदरात् ।
तथा तथा यतिष्यामि गर्भं नाप्स्याम्यहं यथा ॥१४॥

इति चिन्तयते स्मृत्वा जन्मदुः खशतानि वै ।
यानि पूर्वानुभूतानि दैवभूतानि यानि वै ॥१५॥

ततः कालक्रमाज्जन्तुः परिवर्तत्यधोमुखः ।
नवमे दशमे वापि मासि सज्जयते यतः ॥१६॥

निष्क्रम्यमाणो वातेन प्राजापत्येन पीड्यते ।
निष्क्राम्यते च विलपन् हृदि दुः खनिपीडितः ॥१७॥

निष्क्रान्तश्चोदरान्मूर्च्छामसह्यां प्रतिपद्यते ।
प्राप्नोति चेतनां चासौ वायुस्पर्शसमन्वितः ॥१८॥

ततस्तं वैष्णवी माया समास्कन्दति मोहिनी ।
तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुते ॥१९॥

भ्रष्टज्ञानो बालभावं ततो जन्तुः प्रपद्यते ।
ततः कौमारकावस्थां यौवनं वृद्धतामपि ॥२०॥

पुनश्च मरणं तद्वज्जन्म चाप्नोति मानवः ।
ततः संसारचक्रेऽस्मिन् भ्राम्यते घटियन्त्रवत् ॥२१॥

कदाचित् स्वर्गमाप्नोति कदाचिन्निरयं नरः ।
नरकं चैव स्वर्गं च कदाचिच्च मृतोऽश्नुते ॥२२॥

कदाचिदत्रैव पुनर्जातः स्वं कर्म सोऽश्नुते ।
कदाचिद्भुक्तकर्मा च मृतः स्वल्पेन गच्छति ॥२३॥

कदाचिदल्पैश्च ततो जायतेऽत्र शुभाशुभैः ।
स्वर्लोके नरके चैव भुक्तप्रायो द्विजोत्तम ॥२४॥

नरकेषु महद्दुः खमेतद् यत् स्वर्गवासिनः ।
दृश्यन्ते तात मोदन्ते पात्यमानाश्च नारकाः ॥२५॥

स्वर्गेऽपि दुः खमतुलं यदारोहणकालतः ।
प्रभृत्यहं पतिष्यामीत्येतन्मनसि वर्तते ॥२६॥

नारकांश्चैव संप्रेक्ष्य महद्दुः खमवाप्यते ।
एतां गतिमहं गन्तेत्यहर्निशमनिर्वृतः ॥२७॥

गर्भवासे महद्दुः खं जायमानस्य योनितः ।
जातस्य बलाभावे च वृद्धत्वे दुः खमेव च ॥२८॥

कामेर्ष्या-क्रोधसम्बन्धं यौवने चातिदुः सहम् ।
दुः खप्राया वृद्धता च मरणे दुः खमुत्तमम् ॥२९॥

कृष्णमाणस्य याम्यैश्च नरकेषु च पात्यतः ।
पुनश्च गर्भो जन्माथ मरणं नरकस्तथा ॥३०॥

एवं संसारचक्रेऽस्मिन् जन्तवो घटियन्त्रवत् ।
भ्राम्यन्ते प्राकृतैर्बन्धैर्बद्ध्वा बाध्यन्ति चासकृत् ॥३१॥

नास्ति तात ! सुखं किञ्चिदत्र दुः खशताकुले ।
तस्मान्मोक्षाय यतता कथं सेव्या मया त्रयी ॥३२॥

इति श्रीमार्कण्डेयपुराणेठपित्रापुत्रसंवादोऽ नाम एकादशोऽध्यायः

N/A

References : N/A
Last Updated : March 16, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP