संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| त्रयोदशाधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - त्रयोदशाधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत त्रयोदशाधिकशततमोऽध्यायः Translation - भाषांतर भलन्दनवत्सप्रीचरितवर्णनम्मार्कण्डेय उवाचइति तस्या वचः श्रुत्वा पुत्रस्य स च पार्थिवः ।पुनः प्रोवाच धर्मज्ञस्तां पत्नीं तनयं तथा ॥१॥यन्मया पितुरादेशात्त्यक्तं राज्यं न तत्पुनः ।ग्रहीष्यामि वृथोक्तेन किमात्मा क्लिश्यते त्वया ॥२॥अहं ते सम्प्रदास्यामि करं वैश्यव्रते स्थितः ।भुङ्क्ष्व राज्यमशेषं त्वमिच्छया वा परित्यज ॥३॥इत्युक्तः स तदा पित्रा राजपुत्रो भलनन्दनः ।चकार राज्यं धर्मेण तद्वद्दारपरिग्रहम् ॥४॥अव्याहतं तस्य चक्रं पृथिव्यामभवद्द्विज ।न चाधर्मे मनो भूपास्तस्य सर्वेऽभवन्वशे ॥५॥तेनेष्टो विधिवद्यज्ञः सम्यक्शास्ति वसुन्धराम् ।स एवैकोऽभवद्भर्त्ता पृथिव्यामरिशासनः ॥६॥अजायत सुतस्तस्य वत्सप्रीरिति नामतः ।पितातिशयितो येन गुणौघेन महात्मना ॥७॥तस्यापि भार्या सौनन्दा विदूरथसुताऽभवत् ।पतिव्रता महाभागा सा प्राप्ता तेन शौर्यतः ॥हत्वा पुरन्दररिपुं कुजंभं दितिजेश्वरम् ॥८॥क्रौष्टुकिरुवाचभगवंस्तेन सम्प्राप्ता कुजृंभनिधनात्कथम् ।एतदाख्यानमाख्याहि प्रसन्नेनान्तरात्मना ॥९॥मार्कण्डेय उवाचविदूरथोनाम नृपः ख्यातकीर्तिरभूद्भुवि ।तस्य पुत्रद्वयं जातं सुनीतिः सुमतिस्तथा ॥१०॥एकदा तु वनं यातो मृगयां स विदूरथः ।ददर्श गर्तं सुमहद्भूमेर्मुखमिवोद्गतम् ॥११॥तं दृष्ट्वा चिन्तयामास किमेतदिति भैरवम् ।पातालविवरं मन्ये नैतद्मूमेश्चिरन्तनम् ॥१२॥चिन्तयन्निति तत्रासौ ददर्श विजने वने ।ब्राह्मणं सुव्रतं नाम तपस्विनमुपागतम् ॥१३॥स तं पप्रच्छ च नृपः किमेतदिति विस्मितः ।अतिगम्भीरमवनेर्दर्शितान्तर्गतोदरम् ॥१४॥ऋषिरुवाचकिन्न वेत्सि महीपाल वागर्थस्त्वं हि मे मतः ।ज्ञेयं सर्वं नरेन्द्रेण वर्तते यन्महीतले ॥१५॥दानवः सुमहावीर्यो वसत्युग्रो रसातले ।स जृम्भयति यत्पृथ्वीं कुजृम्भः प्रोच्यते ततः ॥१६॥क्रियते तेन यत्किञ्चिद्रत्नभूतं महीतले ।त्रिदिवे वा नरपते तं कथं वेत्ति नो भवान् ॥१७॥सुनन्दं नाम मुशलं त्वष्ट्रा यन्निर्मितं पुरा ।तज्जहार स दुष्टात्मा तेन हन्ति रणे रिपून् ॥१८॥पातालान्तर्गतस्तेन भिनत्ति वसुधामिमाम् ।ततोऽसुराणां सर्वेषां द्वाराणि कुरुतेऽसुरः ॥१९॥तेन भिन्नात्र वसुधा सुनन्दमुशलेन तु ।भोक्ष्यते वसुधामेतां तमजित्वा कथं भवान् ॥२०॥यज्ञान्विध्वंसयत्युग्रो देवानामुपरोधकः ।आप्याययति दैतेयान्स बली मुशलायुधः ॥२१॥यद्यरिं घातयस्येनं पातालान्तरगोचरम् ।ततः समस्तवसुधापतिस्त्वं परमेश्वरः ॥२२॥मुशलं तस्य बलिनः सौनन्दं प्रोच्यते जनैः ।तथा बलाबलं चैव तं वदन्ति विचक्षणाः ॥२३॥तत्तु निर्वीर्यतां याति संस्पृष्टं योषिता नृप ।तस्मिन्दिने द्वितीयेऽह्नि वीर्यवत्तदुदीर्यते ॥२४॥न स वेत्ति दुराचारः प्रभावं मुशलस्य तम् ।योषित्कराग्रसंस्पर्शे दोषं वीर्यविशातनम् ॥२५॥एवं तस्य बलं भूप दानवस्य दुरात्मनः ।मुशलस्य च ते प्रोक्तं यद्युक्तं तत्समाचर ॥२६॥आसन्नमेतद्भवतः पुरस्य पृथिवीपते ।कृतं तेन महारन्ध्रं निश्चिन्तः किं भवान्वृथा ॥२७॥इत्युक्त्वा तु गते तस्मिन्पुरं गत्वा महीपतिः ।मन्त्रयामास मन्त्रज्ञैः पुरमध्ये तु मन्त्रिभिः ॥२८॥यथाश्रुतमशेषं तत्कथयामास मन्त्रिणाम् ।मुशलस्य प्रभावं च वीर्यशातनमेव च ॥२९॥तं मन्त्रं क्रियमाणं तु मन्त्रिभिस्तेन भूभृता ।तत्पार्श्ववर्तिनी कन्या शुश्रावाथ मुदावती ॥३०॥ततः कतिपयाहे तु तां कन्यां वयसान्विताम् ।जहारोपवनाद्दैत्यः कुजृम्भः स सखीवृताम् ॥३१॥तच्छ्रुत्वा स महीपालः क्रोधपर्याकुलेक्षणः ।पुत्रावुवाच त्वरितं गच्छतं वनकोविदौ ॥३२॥निर्विन्ध्यायास्तटे गर्तस्तेन गत्वा रसातलम् ।स हन्यतां योऽपहर्ता मुदावत्याः सुदुर्मतिः ॥३३॥मार्कण्डेय उवाचततस्तौ तत्सुतौ प्राप्य तं गर्त्तं तत्पदानुगौ ।युयुधाते कुजृम्भेण स्वसैन्येनातिकोपितौ ॥३४॥ततः परिघनिस्त्रिंशशक्तिशूलपरश्वधैः ।बाणैश्चाविरतं युद्धं तेषामासीत्सुदारुणम् ॥३५॥ततो मायाबलवता तेन दैत्येन तावुभौ ।राजपुत्रौ रणे बद्धौ निहताशेषसैनिकौ ॥३६॥तच्छ्रुत्वा स महीपालः प्राहेदं सर्वसैनिकान् ।बद्धपुत्रः परामार्तिमुपेतो मुनिसत्तम ॥३७॥यस्तं निहत्य दैतेयं मोचयिष्यति मे सुताम् ।तस्याहं सम्प्रदास्यामि तामेवायतलोचनाम् ॥३८॥इत्येवं घोषयांचक्रे स राजा स्वपुरे तदा ।निराशः पुत्रतनयाबन्धमोक्षाय वै मुने ॥३९॥ततः शुश्राव वत्सप्रीर्भलन्दनसुतो हि तत् ।आघोष्यमाणं बलवान्कृतास्त्रः शौर्यसंयुतः ॥४०॥स चागम्याभिवाद्यैनं प्राह पार्थिवसत्तमम् ।विनयावनतो भूत्वा पितुर्मित्रमनुत्तमम् ॥४१॥आज्ञापयाशु मामेव तनयौ मोचयामि ते ।तवैव तेजसा हत्वा तं दैत्यं तनयां च ते ॥४२॥मार्कण्डेय उवाचस तं मुदा परिष्वज्य प्रियसख्युरथात्मजम् ।गम्यतामिति संसिद्ध्यै वत्सेत्याह स पार्थिवः ॥४३॥स्थाने स्थास्यति मे वत्सो यद्येवं कुरुते विधिम् ।वत्सैतत्क्रियतामाशु यद्युत्साहि मनस्तव ॥४४॥मार्कण्डेय उवाचततः सखड्गः सधनुर्बद्धगोधाङ्गुलित्रवान् ।जगाम वीर पातालं तेन गर्तेन सत्वरः ॥४५॥ततो ज्यास्वनमत्युग्रं स चक्रे पार्थिवात्मजः ।येन पातालमखिलमासीदापूरितान्तरम् ॥४६॥ततो ज्यास्वनमाकर्ण्य कुजृम्भो दानवेश्वरः ।आजगामातिकोपेन स्वसैन्यपरिवारितः ॥४७॥ततो युद्धमभूत्तस्य तेन पार्थिवसूनुना ।ससैन्यस्य ससैन्येन बलिनो बलशालिना ॥४८॥दिनानि त्रीणि स यदा योधितस्तेन दानवः ।ततः कोपपरीतात्मा मुसलायाभ्यधावत ॥४९॥गन्धैर्माल्यैस्तथा धूपैः पूज्यमानः स तिष्ठति ।अन्तःपुरे महाभाग प्रजापतिविनिर्मितः ॥५०॥ततो विज्ञातमुशलप्रभावा सा मुदावती ।पस्पर्श मुशलश्रेष्ठमतिनम्रशिरोधरा ॥५१॥पुनर्यावत्स गृह्णाति मुशलं तं महासुरः ।तावत्सा वन्दनव्याजात्पस्पर्शानेकशः शुभा ॥५२॥ततः स गत्वा युयुधे मुसलेनासुरेश्वरः ।व्यर्था मुशलपातास्ते संजग्मुस्तेषु शत्रुषु ॥५३॥परमास्त्रे तु निर्वीर्ये सौनन्दे मुशले मुने ।अस्त्रैः शस्त्रैश्च दैतेयः सोऽयुध्यत रणेऽरिणा ॥५४॥शस्त्रास्त्रैर्नः समस्तस्य राजपुत्रस्य सोऽसुरः ।मुशलेन बलं तस्य तच्च तन्व्या निराकृतम् ॥५५॥ततः पराजित्य स भूपसूनुरस्त्राणि शस्त्राणि च दानवस्य ।चकार सद्यो विरथं ततश्च सचर्मखड्गः पुनरप्यधावत् ॥५६॥तमापतन्तं रभसाऽभ्युदीर्णं विस्पष्टकोपं त्रिदशेन्द्रशत्रुम् ।शस्त्रेण वह्नेर्भुवि राजपुत्रौ जघान कालानलसप्रभेण ॥५७॥स पावकास्त्रेण हृदि क्षतो भृशं तत्याज देहं त्रिदशारिरात्मनः ।बभूव सद्यश्च महोरगाणां रसातलान्तेषु महानथोत्सवः ॥५८॥ततोऽपतत्पुष्पवृष्टिर्महीपालसुतोपरि ।जगुर्गन्धर्वपतयो देववाद्यानि सस्वनुः ॥५९॥स चापि राजपुत्रस्तं हत्वा तौ नृपतेः सुतौ ।मोचयामास तन्वङ्गी तां च कन्यां मुदावतीम् ॥६०॥तच्चापि मुसलं तस्मिन्कुजृम्भे विनिपातिते ।जग्राह नागाधिपतिरनन्तः शेषसंज्ञितः ॥६१॥तस्याश्च परितुष्टोऽसौ शेषः सर्वोरगेश्वरः ।मुदावत्या मुदाध्यातमनोवृत्तिस्तपोधनः ॥६२॥सुनन्दमुसलस्पर्शं यच्चकार पुनः पुनः ।योषित्करतलस्पर्शप्रभावज्ञातिशोभना ॥६३॥मुदावत्यास्ततो नाम नागराजस्तदाकरोत् ।सुनन्दामिति सानन्दं सौनन्दगुणजं द्विज ॥६४॥स चापि राजपुत्रस्तां भ्रातृभ्यां सहितां पितुः ।समीपमानिनायाशु प्रणिपत्याह चैव तम् ॥६५॥आनीतौ तनयौ तात तथैवेयं मुदावती ।तवाज्ञया मयान्यद्यत्कर्तव्यं तत्समादिश ॥६६॥मार्कण्डेय उवाचततः प्रहर्षसम्पूर्णहृदयः स महीपतिः ।साधुसाध्वित्यथाहोच्चैर्वत्स वत्सेति शोभनम् ॥६७॥सभाजितोऽस्मि त्रिदशैर्वत्साहं कारणैस्त्रिभिः ।त्वं जामाता च यत्प्राप्तो यच्चारिर्विनिपातितः ॥६८॥आगतान्यक्षतान्यत्र यच्चापत्यानि मे पुनः ।तद्गृहाणाद्य शस्तेऽह्नि पाणिमस्या मयोदितम् ॥६९॥त्वं राजपुत्र चार्वङ्ग्याः कन्याया दुहितुर्मम ।मुदावत्या मुदा युक्तः सत्यवाक्यं कुरुष्व माम् ॥७०॥राजपुत्र उवाचतातस्याज्ञा मया कार्या यद्ब्रवीषि करोमि तत् ।त्वमेव तात जानीषे नैवात्राधिकृता वयम् ॥७१॥मार्कण्डेय उवाचततस्तयोः स राजेन्द्रश्चक्रे वैवाहिकं क्रमम् ।मुदावत्याश्च दुहितुर्भलन्दनसुतस्य वै ॥७२॥ततः स तया रेमे वत्सप्रीर्नवयौवनः ।रमणीयेषु देशेषु प्रासादशिखरेषु च ॥७३॥कालेन गच्छता वृद्धः पिता तस्य भलन्दनः ।वनं जगाम वत्सप्रीः स बभूव महीपतिः ॥७४॥इयाज यज्ञान्सततं प्रजा धर्मेण पालयन् ।पुत्रवत्पाल्यमानास्तु प्रजास्तेन महात्मना ॥७५ववृधुर्विषये तस्य न चाभूद्वर्णसङ्करः ।न दस्युव्यालदुर्वृत्तभयमासीच्च कस्यचित् ॥नोपसर्गभयं चैव तस्मिञ्छासति भूपतौ ॥७६॥इति श्रीमार्कण्डेयपुराणे भलन्दनवत्सप्रीचरितं नाम त्रयोदशाधिकशततमोऽध्यायः । ११३ । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP