संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
पञ्चाधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - पञ्चाधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


रवेर्माहात्म्यवर्णनम्
मार्कण्डेय उवाच
एवं सूर्यस्तवं कुर्वन्विश्वकर्मा दिवस्पतेः ।
तेजसः षोडशं भागं मण्डलस्थमधारयत् ॥१॥
शातितैस्तेजसो भागैर्दर्शभिः पञ्चभिस्तथा ।
अतीवकान्तिमच्चारु भानोरासीत्तदा वपुः ॥२॥
शातितं चास्य यत्तेजस्तेन चक्रं विनिर्मितम् ।
विष्णोः शूलं च शर्वस्य शिबिका धनदस्य च ॥३॥
दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तथा ।
अन्येषां चैव देवानामायुधानि स विश्वकृत् ॥४॥
चकार तेजसा भानोर्भासुराण्यरिशान्तये ।
इति शातिततेजाः स शुशुभे नातितेजसा ॥५॥
वपुर्दधार मार्त्तण्डः सर्वावयवशोभनम् ।
स ददर्श समाधिस्थः स्वां भार्यां वडवाकृतिम् ॥६॥
अधृष्यां सर्वभूतानां तपसा नियमेन च ।
उत्तरांश्च कुरून्गत्वा भूत्वाऽश्वो भानुरागमत् ॥७॥
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम सम्मुखे तस्य पृष्ठरक्षणतत्परा ॥८॥
ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।
वडवायं च तत्तेजो नासिकाभ्यां विवस्वतः ॥९॥
देवौ तत्र समुत्पन्नावश्विनौ भिषजां वरौ ।
नासत्यदस्रौ तनयावश्विवक्त्राद्विनिर्गतौ ॥१०॥
मार्त्तण्डस्य सुतावेतावश्वरूपधरस्य हि ।
रेतसोऽन्ते च रेवन्तः खड्गी धन्वी तनुत्रधृक् ॥११॥
अश्वारूढः समुद्भूतो बाणतूणसमन्वितः ।
ततः स्वरूपममलं दर्शयामास भानुमान् ॥१२॥
तस्य शान्तं समालोक्य सा रूपं मुदमाददे ।
स्वरूपधारिणीं चेमां स निनाय निजालयम् ॥१३॥
संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः ।
ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ॥१४॥
द्वितीयश्च यमः शापाद्धर्मदृष्टिरनुग्रहात् ।
यमस्तु तेन शापेन भृशं पीडितमानसः ॥१५॥
धर्मोऽभिरोचते यस्माद्धर्मराजस्ततः स्मृतः ।
कृमयो मांसमादाय पादतस्ते महीतलम् ॥१६॥
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ।
धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाऽहिते ॥१७॥
ततो नियोगे तं याम्ये चकार तिमिरापहः ।
तस्मै ददौ पिता विप्र भगवांल्लोकपालताम् ॥१८॥
पितॄणामाधिपत्यं च परितुष्टो दिवाकरः ।
यमुनां च नदीं चक्रे कलिंदान्तरवाहिनीम् ॥१९॥
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ।
गुह्यकाधिपतित्वे च रेवन्तो विनियोजितः ॥२०॥
एवमप्याह च ततो भगवांल्लोकभावितः ।
त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि ॥२१॥
अरण्यादिमहादाववैरिदस्युभयेषु च ।
त्वां स्मरिष्यन्ति ये मर्त्या मोक्ष्यन्ते ते महापदः ॥२२॥
क्षेमं बुद्धिं सुखं राज्यमारोग्यं कीर्तिमुन्नतिम् ।
नराणां परितुष्टस्त्वं पूजितः सम्प्रदास्यसि ॥२३॥
छायासंज्ञासुतश्चापि सावर्णिः सुमहायशाः ।
भाव्यः सोऽनागते काले मनुः सावर्णिकोऽष्टमः ॥२४॥
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ।
भ्राता शनैश्चरस्तस्य ग्रहोऽभूच्छासनाद्रवेः ॥२५॥
यवीयसी तु या कन्याऽऽदित्यस्याभूद्द्विजोत्तम ।
अभवत्सा सरिच्छ्रेष्ठा तपती लोकपावनी ॥२६॥
यस्तु ज्येष्ठो महाभागः सर्गो यस्येह साम्प्रतम् ।
विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ॥२७॥
इदं यो जन्म देवानां शृणुयाद्धा पठेत वा ।
विवस्वतस्तनूजानां रवेर्माहात्म्यमेव च ॥२८॥
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महायशः ।
अहोरात्रकृतं पापमेतच्छमयते श्रुतम् ॥
माहात्म्यमादिदेवस्य मार्तण्डस्य महात्मनः ॥२९॥
इति श्रीमार्कण्डेयपुराणे रवेर्माहात्म्यवर्णनं नाम पञ्चाधिकशततमोऽध्यायः । १०५ ।

N/A

References : N/A
Last Updated : April 02, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP