संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| त्रयोविंशत्यधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - त्रयोविंशत्यधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत त्रयोविंशत्यधिकशततमोऽध्यायः Translation - भाषांतर अविक्षिच्चरितवर्णनम्मार्कण्डेय उवाचकदाचिद्राजपुत्रोऽसौ मृगयामचरद्वने ।मृगान्विध्यन्वराहांश्च शार्दूलादींश्च दंष्ट्रिणः ॥१॥शुश्राव सहसा शब्दं त्राहित्राहीति योषितः ।विक्रोशन्त्याः सुबहुशो भयगद्गदमुच्चकैः ॥२॥माभैर्माभैरिति वदन्राजपुत्रः स वेगितः ।चोदयामास तुरगं यतः शब्दः समागतः ॥३॥ततश्च सापि चुक्रोश कन्यका विजने वने ।गृहीता दनुपुत्रेण दृढकेशेन मानिनी ॥४॥करन्धमसुतस्याहं भार्या चाहमविक्षितः ।हरत्यनार्यो विपिने पृथिवीशस्य धीमतः ॥५॥यस्य सर्वे महीपालास्तथा गन्धर्वगुह्यकाः ।न समर्थाः पुरः स्थातुं तस्य भार्या हतास्म्यहम् ॥६॥यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ।करन्धमसुतस्यैषा तस्य भार्या हृतास्म्यहम् ॥७॥मार्कण्डेय उवाचइत्याकर्ण्य महीपालतनयः सशरासनी ।चिन्तयामास किमिदं मम भार्यात्र कानने ॥८॥मायेयं रक्षसां नूनं दुष्टानां काननौकसाम् ।अथवा गत एवाहं सर्वं वेत्स्यामि कारणम् ॥९॥मार्कण्डेय उवाचत्वरितः स ततो गत्वा ददर्शातिमनोरमाम् ।कानने कन्यकामेकां सर्वालङ्कारभूषिताम् ॥१०॥गृहीतां दनुपुत्रेण दृढकेशेन दण्डिना ।त्राहित्राहीति करुणं विक्रोशन्ती पुनः पुनः ॥११॥मा भैरिति स तामाह हतोऽसीति च तं वदन् ।शासतीमां महीं दुष्टः को दूयेत करन्धमे ॥१२॥यस्य प्रतापावनता भुवि सर्वे महीक्षितः ।ततस्तमागतं दृष्ट्वा गृहीतवरकार्मुकम् ॥१३॥मां त्राहीत्याह तन्वङ्गी हृतास्म्येषेति चासकृत् ।राज्ञः करन्धमस्याहं स्नुषा भार्याप्यविक्षितः ॥हृतास्म्येतेन दुष्टेन सनाथाऽनाथवद्वने ॥१४॥मार्कण्डेय उवाचततो विममृशे वाक्यमविक्षित्स तथोदितम् ।कथमेषा हि मे भार्या स्नुषा तातस्य वा कथम् ॥१५॥अथवा मोचयाम्येतां तन्वीं वेत्स्यामि तत्पुनः ।क्षत्रियैर्धार्यते शस्त्रमार्तानां त्राणकारणात् ॥१६॥ततः कुद्धोऽब्रवीद्वीरो दानवं तं सुदुर्मतिम् ।जीवन्गच्छ विमुच्यैनामन्यथा न भविष्यसि ॥१७॥ततः स तां विहायोच्चैर्दण्डमुत्क्षिप्य दानवः ।तमप्यधावत्सोऽप्येनं शरवर्षैरवाकिरत् ॥१८॥स वार्यमाणो बाणौघैर्दानवोऽतिमदान्वितः ।राजपुत्राय चिक्षेप दण्डं शंकुशतावृतम् ॥१९॥तमापतन्तं चिच्छेद शरैर्भूपसुतस्ततः ।सोऽप्यासन्नं गृहीत्वोच्चैर्द्रुममाजौ व्यवस्थितः ॥२०॥सृजतः शरवर्षाणि तं चिक्षेप ततो द्रुमम् ।स च तं तिलशश्चैके भल्लैः कार्मुकमोचितैः ॥२१॥ततश्चिक्षेप च शिलां राजपुत्राय दानवः ।सापि मोघा पपातोर्व्यामुज्झिता तेन लाघवात् ॥२२॥राजपुत्राय कुपितो यद्यच्चिक्षेप दानवः ।तत्तच्चिच्छेद बाणौघैर्भूभृत्सूनुः सलीलया ॥२३॥ततो विच्छिन्नदण्डोऽसौ विच्छिन्नसकलायुधः ।मुष्टिमुद्यम्य सक्रोधो राजपुत्रमधावत ॥२४॥तस्यापतत एवासौ करन्धमसुतः शिरः ।छित्त्वा वेतसपत्रेण पातयामास वै भुवि ॥२५॥तस्मिन्विनिहते देवैर्दानवे दुष्टचेष्टिते ।करन्धमसुतः सर्वैः साधुसाध्विति भाषितः ॥२६॥वरं वृणीष्वेति तदा देवैरुक्तो नृपात्मजः ।वव्रे पुत्रं महावीर्यं पितुः प्रियचिकीर्षया ॥२७॥देवा ऊचुःभविष्यति हि ते पुत्रश्चक्रवर्त्ती महाबलः ।अस्यामेव हि कन्यायां मोक्षितायां त्वयानघ ॥२८॥राजपुत्र उवाचपित्राहं सत्यपाशेन बद्ध इच्छाम्यहं सुतम् ।राजभिनिर्जितेनाजौ त्यक्तो मे दारसंग्रहः ॥२९॥सा च मे यावता त्यक्ता विशालनृपतेः सुता ।तया च मत्कृते त्यक्तो मामृते नरसङ्गमः ॥३०॥तत्कथं तामपास्याद्य विशालतनयामहम् ।नृशंसात्मा करिष्यामि अन्यनारीपरिग्रहम् ॥३१॥देवा ऊचुःइयमेव हि ते भार्या श्लाघ्यते या त्वया सदा ।विशालस्य सुता सुभ्रूस्त्वत्कृते याऽऽश्रिता तपः ॥३२॥अस्यामुत्पत्स्यते वीरः सप्तद्वीपप्रसाधकः ।यष्टा यज्ञसहस्राणां चक्रवर्त्ती सुतस्तव ॥३३॥मार्कण्डेय उवाचइत्युच्चार्य ययुर्देवाः करन्धमसुतं द्विज ।सोऽप्याह तां तदा पत्नी कथ्यतां भीरु किन्त्विदम् ॥३४॥सा चास्मै कथयामास त्यक्ताहं भवता यदा ।त्यक्तबन्धुजनाऽरण्यं निर्वेदात्समुपागता ॥३५॥अत्राहं तपसा वीर क्षीणप्रायं कलेवरम् ।त्यक्तुकामा समभ्येत्य देवदूतेन वारिता ॥३६॥भविष्यति च पुत्रस्ते चक्रवर्त्ती महाबलः ।प्रीणयिष्यति यो देवानसुरांश्च हनिष्यति ॥३७॥इति देवाज्ञया तेन देवदूतेन वारिता ।न सन्य्ेक्तवती देहं त्वत्सङ्गममनोरथा ॥३८॥परश्वश्च महाभाग स्नातुं गङ्गाह्रदं गता ।अवतीर्णा विकृष्टास्मि वृद्धनागेन केनचित् ॥३९॥ततो रसातलं नीता तेन तत्र च मे पुरः ।नागाः सहस्रशस्तस्थुर्नागपत्न्यः कुमारकाः ॥४०॥तुष्टुवुर्मां समभ्येत्य मामन्येऽपूजयंस्तथा ।ययाचिरे सविनयं नागा मामङ्गनास्तथा ॥४१॥प्रसादं कुरु सर्वेषां त्वमस्माकं सुतस्त्वया ।अपराधमुपेतानां संनिवार्यो वधोन्मुखः ॥४२॥अपराधं करिष्यन्ति त्वत्पुत्रस्यानिलाशनाः ।तन्निमित्तं निवार्योऽसौ प्रसादः क्रियतामिति ॥४३॥तथेति च मया प्रोक्ते दिव्यैः पातालभूषणैः ।भूषिताहं तथा पुष्पैर्गन्धवासोभिरुत्तमैः ॥४४॥समानीता तथा लोकमिमं तेनानिलाशिना ।पुरा यथा कान्तिमती पूर्ववद्रूपशालिनी ॥४५॥इति रूपवतीं दृष्ट्वा सर्वालङ्कारभूषिताम् ।जग्राह दृढकेशोऽयं हर्तुकामः सुदुर्मतिः ॥४६युष्मद्बाहुबलेनाहं राजपुत्र विमोक्षिता ।तत्प्रसीद महाबाहो मा प्रतीच्छ त्वया समः ॥भूलोके राजपुत्रोऽन्यो नास्ति सत्यं ब्रवीम्यहम् ॥४७॥इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नाम त्रयोविंशत्यधिकशततमोऽध्यायः । १२३ । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP