संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| त्र्यशीतितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - त्र्यशीतितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत त्र्यशीतितमोऽध्यायः Translation - भाषांतर ऋषिरुवाचनिहन्यमानं तत्सैन्यमवलोक्य महासुरः ।सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥१॥स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः ॥२॥तस्य च्छित्त्वा ततो देवी लीलयैव शरोत्करान् ।जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम् ॥३॥चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम् ।विव्याध चैव गात्रेषु च्छिन्नधन्वानमाशुगैः ॥४॥स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।अभ्यधावत तां देवीं खड्ग-चर्मधरोऽसुरः ॥५॥सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि ।आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥६॥तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ।ततो जग्राह शूलं स कोपादरुणलोचनः ॥७॥चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥८॥दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ।तच्छूलं शतधा तेन नीतं स च महासुरः ॥९॥हते तस्मिन् महावीर्ये महिषस्य चमूपतौ ।आजगाम गजारूढश्चामरस्त्रिदशार्दनः ॥१०॥सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥११॥भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ।चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥१२॥ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः ।बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥१३॥युधायमानो ततस्तौ तु तस्मान्नागान्महीं गतौ ।युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥१४॥ततो वेगात्खमुत्पत्य निपत्य च मृगारिणा ।करप्रहारेण शिरश्चामरस्य पृथक्कृतम् ॥१५॥उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ।दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥१६॥देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।वाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥१७॥उग्रास्यमुग्रवीर्यञ्च तथैव च महाहनुम् ।त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥१८॥बिडालस्यासिना कायात् पातयामास वै शिरः ।दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ।कालं च कालदण्डेन कालरात्रिरपातयत् ॥१९॥अग्रदर्शनमत्युग्रैः खड्गपातैरताडयत् ।असिनैवासिलोमानमच्छिदत् सा रणोत्सवे ।गणैः सिंहेन देव्या च जयक्ष्वेडाकृतोत्सवैः ॥२०॥एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः ।माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥२१॥कांश्चित्तुण्डप्रिहारेण खुरक्षेपैस्तथापरान् ।लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्याञ्च विदारितान् ॥२२॥वेगेन कांश्चिदपरान् नादेन भ्रमणेन च ।निश्वासपवनेनान्यान् पातयामास भूतले ॥२३॥निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ।सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥२४॥सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ।शृङ्गाभ्यां पर्वतानुच्चैश्चिक्षेप च ननाद च ॥२५॥वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥२६॥धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घना ।श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥२७॥इति क्रोधसमाध्मातमापतान्तं महासुरम् ।दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥२८॥सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥२९॥ततः सिंहोऽभवत् सद्यो यावत्तस्याम्बिका शिरः ।छिनत्ति तावत्पुरुषः खड्गपाणिरदृश्यत ॥३०॥तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥३१॥करेण च महासिंहं तं चकर्ष जगर्ज च ।कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥३२॥ततो महासुरो भूयो माहिषं वपुरास्थितः ।तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥३३॥ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।पपौ पुनः पुनश्चैव जहासारुणलोचना ॥३४॥ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ।विषाणाब्याञ्च चिक्षेप चण्डिकां प्रति भूधरान् ॥३५॥सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥३६॥देव्युवाचगर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥३७॥ऋषिरुवाचएवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् ।पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥३८॥ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः ।अर्धनिष्क्रान्त एवासीद् देव्या वीर्येण संवृतः ॥३९॥अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥४०॥एवं स महिषो नाम ससैन्यः ससुहृद्गणः ।त्रैलोक्यं मोहयित्वा तु तया देव्या विनाशितः ॥४१॥त्रैलोक्यस्थैस्तदा भूतैर्महिषे विनिपातिते ।जयेत्युक्तं ततः सर्वैः सदेवासुरमानवैः ॥४२॥ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।प्रहर्षञ्च परं जग्मुः सकला देवतागणाः ॥४३॥तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः ।जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥४४॥इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम त्र्यशीतितमोऽध्यायः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP