संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| द्वाविंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - द्वाविंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत द्वाविंशोऽध्यायः Translation - भाषांतर पुत्रावूचतुःततः काले वहुतिथे गते राजा पुनः सुतम् ।प्राह गच्छाशु विप्राणां त्राणाय चर मेदिनीम् ॥१॥अश्वमेनं समारुह्य प्रातः प्रातर्दिने दिने ।अबाधा द्विजमुख्यानामन्वेष्टव्या सदैव हि ॥२॥दुर्वृत्ताः सन्ति शतशो दानवाः पापयोनयः ।तेभ्यो न स्याद्यथा बाधा मुनीनां त्वं तथा कुरु ॥३॥स यथोक्तस्ततः पित्रा तथा चक्रे नृपात्मजः ।परिक्रम्य महीं सर्वां ववन्दे चरणौ पितुः ॥४॥अहन्यहन्यनुप्राप्ते पूर्वाह्ने नृपनन्दनः ।ततश्च शेषं दिवसं तया रेमे सुमध्यया ॥५॥एकदा तु चारन् सोऽथ ददर्श यमुनातटे ।पातालकेतोरनुजं तालकेतुं कृताश्रमम् ॥६॥मायावी दानवः सोऽथ मुनिरूपं समास्थितः ।स प्राह राजपुत्रं तं पूर्ववैरमनुस्मरन् ॥७॥राजपुत्र ब्रीवीमि त्वां तत् कुरुष्व यदीच्छसि ।न च ते प्रार्थनाभङ्गः कार्यः सत्यप्रतिश्रव ॥८॥यक्ष्ये यज्ञेन धर्माय कर्तव्याश्च तथेष्टयः ।चितयस्तत्र कर्तव्या नास्ति मे दक्षैणा यतः ॥९॥अतः प्रयच्छ मे वीर हिरण्यार्थं स्वभूषणम् ।यदेतत् कण्ठलग्नं ते रक्ष चेमं माश्रमम् ॥१०॥यावदन्तर्जले देवं वरुणं यादसां पतिम् ।वैदिकैर्वारुणैर्मन्त्रैः प्रजानां पुष्टिहेतुकैः ॥११॥अभिष्टूय त्वरायुक्तः समभ्येमीति वादिनम् ।तं प्रणम्य ततः प्रादात् स तस्मै कण्ठभूषणम् ॥१२॥प्राह यैनं भवान् यातु निर्व्यलीकेन चेतसा ।स्थास्यामि तावदत्रैव तवाश्रमसमीपतः ॥१३॥तवादेशान्महाभाग यावदागमनं तव ।न तेऽत्र कश्चिदाबाधां करिष्यति मयि स्थिते ।विश्रब्धश्चात्वरन् ब्रह्मन् कुरुष्व त्वं मनोगतम् ॥१४॥पुत्रावूचतुःएकमुक्तस्ततस्तेन स ममज्ज नदीजले ।ररक्ष सोऽपि तस्यैव मायाविहितमाश्रमम् ॥१५॥गत्वा जलाशयात् तस्मात् तालकेतुश्च तत्परम् ।मदालसायाः प्रत्यक्षमन्येषाञ्चैतदुक्तवान् ॥१६॥तालकेतुरुवाचवीरः कुवलयाश्वोऽसौ ममाश्रमसमीपतः ।केनापि दुष्टदैत्येन कुर्वन् रक्षां तपस्विनाम् ॥१७॥युध्यमानो यथाशक्ति निघ्नन् ब्रह्मद्विषो युधि ।मायामाश्रित्य पापेन भिन्नः शूलेन वक्षसी ॥१८॥म्रियमाणेन तेनेदं दत्तं मे कण्ठभूषणम् ।प्रापितश्चाग्निसंयोगं स वने शूद्रतापसैः ॥१९॥कृतार्तह्रेषाशब्दो वै त्रस्तः साश्रुविलोचनः ।नीतः सोऽश्वश्च तेनैव दानवेन दुरात्मना ॥२०॥एतन्मया नृशंसेन दृष्टं दुष्कृतकारिणा ।यदत्रानन्तरं कृत्यं क्रियतां तदकालिकम् ॥२१॥हृदयाश्वासनञ्चैतद् गृह्यतां कण्ठभूषणम् ।नास्माकं हि सुवर्णेन कृत्यमस्ति तपस्विनाम् ॥२२॥पुत्रावूचतुःइत्युक्त्वोत्सृज्य दत्भूमौ स जगाम यथागतम् ।निपपात जनः सोऽथ शोकार्तो मूर्च्छयाऽतुरः ॥२३॥तत्क्षणात् चेतनां प्राप्य सर्वास्ता नृपयोषितः ।राजपत्न्यश्च राजा च विलेपुरतिदुः खिताः ॥२४॥मदालसा तु द् दृष्ट्वा तदीयं कण्ठभूषणम् ।तत्याजाशु प्रियान् प्राणान् श्रुत्वा च निहन्त पतिम् ॥२५॥ततस्तथा महाक्रन्दः पौराणां भवनेष्वभूत् ।यथैव तस्य नृपतेः स्वगेहे समवर्तत ॥२६॥राजा च तां मृतां दृष्ट्वा विना भर्त्रा मदालसाम् ।प्रत्युवाच जनं सर्वं विमृश्य सुस्थमानसः ॥२७॥न रोदितव्यं पश्यामि भवतामात्मनस्तथा ।सर्वेषामेव संचिन्त्य सम्बन्धानामनित्यताम् ॥२८॥किन्नु शोचामि तनयं किन्नु शोचाम्यहं स्नुषाम् ।विमृश्य कृतकृत्यत्वाम्नम्येऽशोच्यावुभावपि ॥२९॥मच्छ्रु श्रुपुर्मद्वचनाद्द्विजरक्षणतत्परः ।प्राप्तो मे यः सुतो मृत्युं कथं शोच्यः स धीमताम् ॥३०॥अवश्यं याति यद्देहं तद्द्विजानां कृते यदि ।मम पुत्रेण संत्यक्तं नन्वभ्युदयकारि तत् ॥३१॥इयञ्च सत्कुलोत्पन्ना भर्तर्येवमनुव्रतां ।कथन्नु शोच्या नारीणां भर्तुरन्यन्न दैवतम् ॥३२॥अस्माकं बान्धवानाञ्च तथान्येषां दयावताम् ।शोच्या ह्येषा भवेदेवं यदि भर्त्रा वियोगिनी ॥३३॥या तु भर्तुर्वधं श्रुत्वा तत्क्षणादेव भामिनी ।भर्तारमनुयातेयं न शोच्यातो विपश्चिताम् ॥३४॥ताः शोच्या या वियोगिन्यो न शोच्या या मृताः सह ।भर्त्रा वियोगस्त्वनया नानुभूतः कृतज्ञया ॥३५॥दातारं सर्वसौख्यानामिह चामुत्र चोभयोः ।लोकयोः का हि भर्तारं नारी मन्येत मानुषम् ॥३६॥नासौ शोच्यो न चैवेयं नाहं तज्जननी न च ।त्यजता ब्राह्मणार्थाय प्राणान् सर्वे स्म तारिताः ॥३७॥विप्राणं मम धर्मस्य गतः स हि महामतिः ।आनृण्यमर्धभुक्तस्य त्यागाद् देहस्य मे सुतः ॥३८॥मातुः सतीत्वं मद्वंशवैमल्यं शौर्यमात्मनः ।संग्रामे संत्यजन् प्राणान् नात्यजद् द्विजरक्षणम् ॥३९॥पुत्रावूचतुःततः कुवलयाश्वस्य माता भर्तुरनन्तरम् ।श्रुत्वा पुत्रवधं तादृक् प्राह दृष्ट्वा तु तं पतिम् ॥४०॥मातोवाचन मे मात्रा न मे स्वस्त्रा प्राप्ता प्रीतिर्नृपेदृशी ।श्रुत्वा मुनिपरित्राणे हतं पुत्रं यथा मया ॥४१॥शोचतां बान्धवानां ये निः श्वसन्तोऽतिदुः खिताः ।म्रियन्ते व्याधिना क्लिष्टास्तेषां माता वृथाप्रजा ॥४२॥संग्रामे युध्यमाना येऽभीता गोद्विजरक्षणे ।क्षुण्णाः शस्त्रैर्विपद्यन्ते त एव भुवि मानवाः ॥४३॥अर्थिनां मित्रवर्गस्य विद्विषाञ्च पराङ्मुखः ।यो न याति पिता तेन पुत्री माता च वीरसूः ॥४४॥गर्भक्लेशः स्त्रियो मन्ये साफल्यं भजते तदा ।यदारिविजयी वा स्यात् संग्रामे वा हतः सुतः ॥४५॥पुत्रावूचतुःततः स राजा संस्कारं पुत्रपत्नीमलम्भयत् ।निर्गम्य च बहिः स्नातो ददौ पुत्राय चोदकम् ॥४६॥तालकेतुश्च निर्गम्य तथैव यमुनाजलात् ।राजपुत्रमुवाचेदं प्रणयान्मधुरं वचः ॥४७॥गच्छ भूपालपुत्र ! त्वं कृतार्थोऽहं कृतस्त्वया ।कार्यं चिराभिलषितं त्वय्यत्राविचले स्थिते ॥४८॥वारुणं यज्ञकार्यञ्च जलेशस्य महात्मनः ।तन्मया साधितं सर्वं यन्ममासीदभीप्सितम् ॥४९॥प्रणिपत्य स तं प्रायाद्राजपुत्रः पुरं पितुः ।समारुह्य तमेवाश्वं सुपर्णानिलविक्रमम् ॥५०॥इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसावियोगो नाम द्वाविंशोऽध्यायः N/A References : N/A Last Updated : March 21, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP