TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २२७

आचारकाण्डः - अध्यायः २२७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २२७
सूत उवाच ।
विष्णुभक्तिं प्रवक्ष्यामि यया सर्वमवाप्यते ।
यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित् ॥१॥

महतः श्रेयसो मूलं प्रसवः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥२॥

तस्मात्सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी ।
ते भक्ता लोकनाथस्य नामकर्मादिकीर्तने ॥३॥

मुञ्चन्त्यश्रूणि संहर्षाद्ये प्रहृष्टनूरुहाः ।
जगद्धातुर्महेशस्य दिव्याज्ञाचरणा वयम् ॥४॥

इह नित्यक्रियाः कुर्युः स्निग्धा ये वैष्णवास्तु ते ।
ब्रह्माक्षरं न शृण्वन्वै तया भगवतेरितम् ॥५॥

प्रणामपूर्वकं भक्त्या यो वदेद्वैष्णवो हि सः ।
तद्भक्तजनवात्सल्यं पूजनं चानुमोदनम् ॥६॥

तत्कथाश्रवणे प्रीतिरश्रुनेत्राङ्गविक्रियाः ।
येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः ॥७॥

विप्रेभ्यश्च कृतात्मत्वान्महाभागवतो हि सः ।
विश्वोपकरणं नित्यं तदर्थं सङ्गवर्जनम् ।
स्वयमभ्यर्चनञ्चैव यो विष्णुञ्चोपजीवति ॥८॥

भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छोऽपि वर्तते ।
स विप्रेन्द्रो मुनिः श्रीमान्स याति परमां गतिम् ॥९॥

तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ।
स्मृतः संभाषितो वापि पूजितो वा द्विजोत्तमः ।
पुनाति भगवद्भक्तश्चण्डालोऽपि यदृच्छया ॥१०॥

दयां कुरु प्रपन्नाय तवास्मीति च यो वदेत् ।
अभयं सर्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥११॥

मन्त्रजापिसहस्रेभ्यः सर्ववेदान्तपारगः ।
सर्ववेदान्तवित्कोट्यां विष्णुभक्तो विशिष्यते ॥१२॥

एकान्तिनः स्ववपुषा गच्छन्ति परमं पदम् ।
एकान्तेन समो विष्णुस्तस्मादेषां परायणः ॥१३॥

यस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ।
प्रियाणामपि सर्वेषां देवदेवस्य सुप्रियः ॥१४॥

आपत्स्वपि सदा भस्य भक्तिरव्यभिचारिणा ।
या प्रीतिरधिका विष्णोर्विषयेष्वनपायिनी ॥१५॥

विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पति ।
दृढभक्तोऽपि वेदादिसर्वशास्त्रार्थपारगः ॥१६॥

यो न सर्वेश्वरे भक्तस्तं विद्यात्पुरुषाधमम् ।
नाधीतवेदशास्त्रोऽपि न कृतोऽध्वरसम्भवः ।
यो भक्तिं वहते विष्णौ तेन सर्वं कृतं भवेत् ॥१७॥

यज्वानः क्रतुमुख्यानां वेदानां पारगा अपि ।
न तां यान्ति गतिं भक्ता यां यान्ति मुनिसत्तमाः ॥१८॥

यः कश्चिद्वैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी ।
पुनाति सकलांल्लोकान्सहस्रांशुरिवोदितः ॥१९॥

ये नृशंसा दुरात्मानः पापाचररतास्तथा ।
तेऽपि यान्ति परं स्थानं नारायणपरायणाः ॥२०॥

दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी ।
तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुका ॥२१॥

भ्राम्यतां तत्र संसारे नराणां कुर्मदुर्गमे ।
हस्तावलम्बने ह्येकं येन तुष्येज्जनार्दनः ।
न शृणोति गुणान्दिव्यान्देवदेवस्य चक्रिणः ।
स मरो बधिरो ज्ञेयः सर्वधर्मबहिष्कृतः ॥२२॥

नाम्नि संकीर्तिते विष्णोर्यस्य पुंसो न जायते ।
शरीरं पुलकोद्भासि तद्भवेत्कुणपोपमम् ॥२३॥

यस्मिन्भक्तिर्द्विजश्रेष्ठ मुक्तिरप्यचिराद्भवेत् ।
निविष्टमनसां पुंसां सर्वथा वृजिनक्षयः ॥२४॥

स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रापन्नन्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥२५॥

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यगव्यवसितो हि सः ॥२६॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं स गच्छति ।
विप्रेन्द्र प्रतिजानीहि विष्णुभक्तो न नश्यति ॥२७॥

धर्मार्थकामः किं तस्य मुक्तिस्तस्य करे स्थिता ।
समस्तजगतां मूलं यस्य भक्तिः स्थिरा हरौ ॥२८॥

दैवी ह्येषा गुणमयी हरेर्माया दुरत्यया ।
तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥२९॥

किं यज्ञाराधने पुंसा शिष्यते हरिमेधसाम् ।
भक्त्यैवाराध्यते विष्णुर्नान्यत्तत्रोपकारकम् ॥३०॥

न दानैर्विविधैर्दत्तैः पुष्पैर्नैवानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्दनः ॥३१॥

संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे ।
कदाचित्केशवे भक्तिस्तद्भक्तैर्वा समागमः ॥३२॥

पत्रेषु पुष्पेषु फलेषु तोयेष्वकष्टलभ्येषु सदैव सत्सु ।
भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यैकलाभे क्रियते प्रयत्नः ॥३३॥

आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामाहः ।
वैष्णवोस्मत्कुले जातः स नः सन्तारयिष्यति ॥३४॥

अज्ञानिनः सुखरे समधिक्षिपन्तो यत्पापिनोऽपि शिशुपालसुयोधनाद्याः ।
मुक्तिं गताः स्मरणमात्रविधूतपापाः कः संशयः परमभक्तिमतां जनानाम् ॥३५॥

शरमं तं प्रपन्ना ये ध्यानयोगविवर्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥३६॥

भवोद्भवक्लेशशतैर्हतस्तथा परिभ्रमन्निन्द्रियरन्ध्रकैर्हयैः ।
नियम्यतां माधव ! मे मनोहयस्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने ॥३७॥

विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहिताः ॥३८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भगवद्भक्तिविवरणं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:12.5670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

point of contraflexture

  • नति परिवर्तन बिंदु 
  • = point of inflection 
RANDOM WORD

Did you know?

प्रासंगिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.