अध्यायः १०४
॥याज्ञवल्क्य उवाच ॥
नरकात्पताकोद्भूतात्क्षयात्पापस्य कर्मणः ॥
ब्रह्महा श्वा खरोष्ट्रः स्याद्भेको यकः सुराप्यपि ॥१॥
स्वर्णचोरः कृमिः कीटः तृणादिर्गुरुतल्पगः ॥
क्षयरोगी श्यावदन्तः कुनखी शिपिविष्टकः ॥२॥
ब्रह्महत्याक्रमात्स्युश्च तत्सर्वं वा शिशोर्भवेत् ॥
अन्नहर्त्ता मयावी स्यान्मूको रागापहारकः ॥३॥
धान्यहार्य्यतिरिक्ताङ्गः पिशुनः पूतिनासिकः ॥
तैलाहारी तैलपायी पूतिवक्त्रस्तु सूचकः ॥४॥
ब्रह्मस्वं कन्यकां क्रीत्वा वने रक्षो भवेद्वृषः ॥
रत्नहृद्धीनजातः स्यात्पत्रशाकहरः शिखी ॥५॥
गुच्छं चुचुन्दरी हृत्वा धान्यहृन्मूषको भवेत् ॥
फलं कपिः पशून्हृत्वा त्वजा काकः पयस्तथा ॥६॥
मांसं गृध्रः पटं श्वित्री चीरीलवणहारकः ॥
यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ॥७॥
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥
ततो निष्कलुषीभूता कुले महति योगिनः ॥८॥
जायन्ते लक्षणोपेता धनधान्यसमन्विताः ॥९॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तकर्मविपाकनिरूपणं नाम चतुरुत्तरशततमोऽध्यायः ॥१०४॥
Translation - भाषांतर
N/A