TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १५६

आचारकाण्डः - अध्यायः १५६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १५६
धन्वन्तरिरुवाच ।
अथार्शसां निदानं च व्याख्यास्यमि च सुश्रुत ! ।
सर्वदा प्राणिनां मांसे कीलकाः प्रभवन्ति ये ॥१॥

अर्शांसि तस्मादुच्यन्ते गुदमार्गनिरोधनात् ।
दोषस्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन् ॥२॥

मांसांकुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः ।
सहजन्मान्तरोत्थेन भेदो द्वेधा समासतः ॥३॥

शुष्काग्रावाविभेदाश्च गुदस्थानानुसंश्रयाः ।
अर्धपञ्चाङ्गुलिस्तस्मिंस्तिस्रोऽघ्यर्धाङ्गुलिस्थिताः ॥४॥

बाल्यप्रवाहिणी तासामन्त्रमध्ये विसर्जिनी ।
बाह्यासंवरणे तस्या गुदादौ बहिरङ्गुले ॥५॥

सार्धाङ्गुलप्रमाणेन रोमाण्यत्र ततः परम् ।
तत्र हेतुः सहोत्थानां बाल्ये बीजोपतप्तता ॥६॥

अर्शसां बीजसृष्टिस्तु मातापित्रपचारतः ।
देवतानां प्रकोपे हि सान्निपातस्य चान्यतः ॥७॥

असाध्या एवमाख्याताः सर्वे रोगाः कुलोद्भवाः ।
सहजानि विशेषेण रूक्षदुर्दर्शनानि तु ॥८॥

अन्तर्मुखानि पाण्डूनि दारुणोपद्रवाणि च ।
योज्यानि च पृथोग्दोषसंसर्गनिचयात्स्वतः ॥९॥

शुष्काणि वातश्लेष्मभ्यामार्द्राणि त्वस्य पित्ततः ।
दोषप्रकोपहेतुस्तु प्रागुक्तेवस्त्रसादिनि ॥१०॥

अग्नौ मलेऽतिनिचिते पुनश्चायं (ति) व्यवायतः ।
पानसंक्षोभविषमकठिनक्षुद्रकाशनात् ॥११॥

बस्तिनेत्रगलौष्ठोत्थतलभेदादिघट्टनात् ।
भृशशीताम्बुसंस्पर्शप्रततातिप्रवाहणात् ॥१२॥

गतमूत्रशकृद्वेगधारणात्तदुदीरणात् ।
जुगुप्सातीसारमेव ग्रहणी सोऽप्युपद्रवः ॥१३॥

कर्षणाद्विषमादेश्चचेष्टाभ्यो योषितां पुनः ।
आमगर्भप्रपतनाद्गर्भवृद्धिप्रपीडनात् ॥१४॥

ईदृशैश्चापरैर्वायुरपानः कुपितो मले ।
पायोर्वलीषु सद्रवृत्तिभास्वन्निः पूर्णमूर्तिषु ॥१५॥

जायन्तेर्ऽशांसितु तत्पूर्वं लक्षणं वह्निमन्दता ।
विष्टम्भः सास्थिसदनं पिण्डि (ष्ट) कोद्वेष्टनं भ्रमः ॥१६॥

सान्द्रोत्थोनेत्रयोः शोथः शकृद्भवेदोऽथ वा ग्रहः ।
मारुतः पुरतो मूढः प्रायो नाभेरधश्चरन् ॥१७॥

सरक्तः परिकृन्तंश्च कृच्छ्रादाकुञ्चति श्वसन् ।
अन्त्रकूजनमाटोपः क्षारितोद्गारभूरिता ॥१८॥

प्रभूतमूत्रमल्पा विडश्रद्धा धूम्रकोष्ठकः ।
शिरः पृष्ठोरसां शूलमालस्यं भिन्नवर्चसम् ॥१९॥

इन्द्रियार्थेषु लौल्यं च क्रोधो दुः खोपचारतः ।
आशङ्का ग्रहणी शोथः पाण्डुगुल्मोदरेषु च ॥२०॥

एतान्येव विवर्धन्ते जातेष्वहतनामसु ।
निवर्तमानो मानो हि तैरधोमार्गरोधतः ॥२१॥

क्षोभयेदनिलानन्यान् सर्वेन्द्रियशरीगान् ।
तथा मूत्रशकृत्पित्तकफान्वायुश्च शोषयन् ॥२२॥

मुष्णात्यग्निं ततः सर्वे भवन्ति प्रायशोर्ऽशसः ।
कृशो भृशं हतोत्साहो दीनः क्षामोऽथ निष्प्रभः ॥२३॥

असारी विगतच्छायो जन्तुदग्ध इवद्रुम ।
कृच्छ्रैरुग्रद्रवैर्ग्रस्तो यक्ष्मोक्तैर्मर्मपीडनैः ॥२४॥

तथा काशपिपासास्यवैरस्यश्वासपीनसैः ।
क्लमाङ्गभङ्गवमथुक्षवथुश्वयथुज्वरैः ॥२५॥

क्लैब्यबाधिर्यस्तैमित्यशर्करापरिपीडितः ।
क्षामो भिन्नस्वरो ध्यायन्मुहुः ष्ठीवन्नरोचकी ॥२६॥

सर्वपर्वास्थिहृन्नाभीपायुवङ्क्षणशूलवान् ।
गुदेनस्त्रवता पित्तं बलाकोदरसन्निभम् ॥२७॥

विशुष्कं चैव मुक्ताग्रं पक्वामं चान्तरान्तरम् ।
पाण्डुपित्तं हरिद्राक्तं पिच्छिलं चोपवेश्यते ॥२८॥

गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमचिमान्विताः ।
पीनाङ्गारारुणाः स्तब्धा विषमाः परुषाकराः ॥२९॥

मिथो विसदृश वक्रास्तीक्ष्णा विस्फुटि(रि) ताननाः ।
शिम्बीखर्जृरकर्कन्धूकार्पासफलसन्निभाः ॥३०॥

केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः ।
शिरः पार्श्वांसजङ्घोरुवङ्क्षणाद्यधिकव्यथाः ॥३१॥

क्षवथूद्गारविष्टम्भहृद्गहारोचकप्रदाः ।
कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः ॥३२॥

तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम् ।
रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते ॥३३॥

कृष्णत्वग्बद्धविण्मूत्रनेत्रवक्त्रश्च जायते ।
गुल्मप्लीहोदराष्ठीलासंभवस्तस्य चैव हि ॥३४॥

पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः ।
तन्वग्रस्त्राविणो विश्रास्तनवो मृदवः श्लथाः ॥३५॥

शुकजिह्वा यकृत्खण्डजलौकावक्त्रसन्निभाः ।
दाहशो (ष) कज्वरस्वेदतृण्मूर्छारुचिमोहदाः ॥३६॥

सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चसः ।
यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः ॥३७॥

श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः ।
उत्सन्नोपचितस्निग्धस्तब्धवृत्तगुरुस्थिराः ॥३८॥

पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः ।
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः ॥३९॥

वङ्क्षणानाहिनः पुयुबस्तिनाभिविकर्तनाः ।
सकाशश्वासहृल्लासप्रसेकारुचिपीनसाः ॥४०॥

महकृच्छ्रशिरोजाड्यशिशिरक्षारकारिणः ।
क्लैब्याग्निमार्दवच्छर्द्यतीसारादिविकारदाः ॥४१॥

वसाभसकफप्राज्यपुरीषासृक्प्रवाहिकाः ।
न स्त्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ॥४२॥

संसृष्टलिङ्गत्संसर्गनिचयात्सर्वलक्षणाः ।
रक्तोल्बणा गुदे कीलाः पीताकृतिसमन्विताः ॥४३॥

वटप्रसेहसदृशाः गुञ्जाविद्रुमसन्निभाः ।
तेऽत्यर्थं दुष्टमुष्णं च गाढविष्टंभपीडिताः ॥४४॥

स्त्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः ।
केकाभः पीड्यते दुः खैः शोणितक्षयसम्भवैः ॥४५॥

हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः ।
मुद्गकोद्रवजंबीरकरीरचणकादिभिः ॥४६॥

रूक्षैः संग्राहिभिर्वायुर्विट्स्थाने कुपितो बली ।
अधोवहानि स्रोतांसि संरुध्याधः प्रशोषयन् ॥४७॥

पुरीषं वातविष्णूत्रसंगं कुर्वीत दारुणम्? ।
तेन तीव्रा रुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत् ॥४८॥

आध्मानमुदरे विष्ठा हृल्लासपरिकर्तने ।
बस्तौ च सुतरां शूलो गण्डश्वयथुसंभवः ॥४९॥

पवनस्योर्ध्वगामित्वात्ततश्छर्द्यरुचिज्वराः ।
हृद्रोगग्रहणीदोषमूत्रसंगप्रवाहिकाः ॥५०॥

बाधिर्यातिशिरः श्वासशिरोरुक्काशपीनसाः? ।
मनोविकारस्तृट्श्वासपित्तगुल्मोदरादयः ॥५१॥

एते च वातजा रोगा जायन्ते भृशदारुणाः ।
दुर्नामामृत्यूदावर्तपरमोऽयमुपद्रवः ॥५२॥

वाताभिभूतकोष्ठानां तैर्विनापि विजायते ।
सहजानि तु दोषाणि यानि चाभ्यन्तरे वलौ ॥५३॥

स्थितानि तान्यसाध्यानि याप्यन्तेऽग्निबलादिभिः ।
द्वन्द्वजानि द्वितीयायां वला यान्याश्रितानि च ॥५४॥

कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ।
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च ॥५५॥

अर्शांसि सुखसाध्यानि न चिरोत्पत्तिकानि च ।
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु ॥५६॥

गण्डूपदस्य रूपाणि पिच्छिलानि मृदूनि च ।
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः ॥५७॥

कीलोपमं स्थिरखरं चर्मकीलं च तद्विदुः ।
वातेन तोदः पारुष्यं पित्तादसितवक्त्रता ॥५८॥

श्लेष्मणः स्निग्धता तस्य ग्रथितत्वं सवर्णता ।
अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान् ।
तान्याशु हि गदन्धा (कार्) य्य कुर्युर्बद्धगुदोदरम् ॥५९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेर्ऽशोनिदाना नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.1770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

load equalising

  • भार समकरण 
RANDOM WORD

Did you know?

Why are you transliterating?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.