TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १४१

आचारकाण्डः - अध्यायः १४१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


Teअध्यायः १४१
हरिरुवाच ।
शतानीको ह्यश्वमेधदत्तश्चाप्यधिसोमकः ।
कृष्णोऽनिरुद्धश्चाप्युष्णस्ततश्चित्ररथो नृपः ॥१॥

शुचिद्रथो वृष्णिमांश्च सुपेणश्च सुनीथकः ।
नृचक्षुश्च मुखाबाणः मेधावी च नृपञ्जयः ॥२॥

पारिप्लवश्च मुनयो मेधावी च नृपञ्जयः ।
बृहद्रथो हरिस्तिग्मो शतानीकः सुदानकः ॥३॥

उदानोऽह्निनरश्चैव दण्डपाणिर्निमित्तकः ।
क्षेमकश्च ततः शूद्रः पिता पूर्वस्ततः सुतः ॥४॥

बृहद्बलास्तु कथयन्ते नृपोश्चैक्ष्वाकुवंशजाः ।
बृहद्बलादुरुक्षयो वत्सव्यूहस्ततः परः ॥५॥

वत्सव्यूहात्ततः सूर्यः सहदेवस्तदात्मजः ।
बृहदश्वो भानुरथः प्रतीच्यश्च प्रतीतकः ।
मनुदेवः सुनक्षत्रः किन्नरश्चान्तरिक्षकः ॥६॥

सुपर्णः कृतजिच्चैव बृहद्भ्राजश्च धार्मिकः ।
कृतञ्जयो धनञ्जयः संजयः शाक्य एव च ॥७॥

शुद्धोदनो बाहुलश्च सेनजित्क्षुद्रकस्तथा ।
सुमित्रः कुडवश्चातः सुमित्रान्मागधाञ्छणु ॥८॥

जरासन्धः सहदेवः सोमापिश्च श्रुतश्रवाः ।
अयुतायुर्निरमित्रः सुक्षत्रो बहुकर्मकः ॥९॥

श्रुतञ्जयः सेनजिच्च भूरिश्चैव शुचिस्तथा ।
क्षेम्यश्च सुव्रतो धर्मः श्मश्रुलो दृढसेनकः ॥१०॥

सुमतिः सुबलो नीतो सत्यजिद्विश्वजित्तथा ।
इषुञ्जयश्च इत्येते नृपा बार्हद्रथाः स्मृताः ॥११॥

अधर्मिष्ठाश्च शूद्राश्च भविष्यन्ति नृपास्ततः ।
स्वर्गादिकृद्धि भगवान्साक्षान्नारायणोऽव्ययः ॥१२॥

नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः ।
याति भूः प्रलयं चाप्सु ह्यापस्तेजसि पावकः ॥१३॥

वायौ वायुश्च वियति त्वाकाशौ यात्यहङ्कृतौ ।
अहं बुद्धौ मतिर्जोवे जीवोऽव्यक्ते तदात्मनि ॥१४॥

आत्मा परेश्वरो विष्णुरेको नारायणो नरः ।
अविनाश्यपरं सर्वं जगत्स्वर्गादि नाशि हि ॥१५॥

नृपादयो गता नाशमतः पापं विवर्जयेत् ।
धर्मं कुर्यात्स्थिरं येन पापं हित्वा हरिं व्रजेत् ॥१६॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भविष्य राजवंश दृ नामैकचत्वारिंशदुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:06.9900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

exempted person

  • सूट दिलेलीमिळालेली व्यक्ती 
RANDOM WORD

Did you know?

GAJA LAXMI VRAT MHANJE KAY AANI TE KASE KARAYACHE?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.